________________ सूरमण्डल 1047- अभिधानराजेन्द्रः - भाग 7 सूरमण्डल पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुट्टि णिवुड्डेमाणे णिवुढेमाणे अट्ठारसजोयणाई परिरयबुद्धिं णिवुद्धमाणे णिवुद्धेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जताणं सूरिए सव्यभतरं मंडलं उवसंकमित्ता चारं चरति, तताणं सामंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउतिं जोयणसहस्साइं छच चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साई अउणाउतिं च जोयणाई किंचि विसेसाहियाई परिक्खेवेणं पण्णत्ते, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुबालसमुहुत्ता राई भवति, एसणंदोच्चस्स छम्मासस्स पञ्जवसाणे एसणं आदिचे संवच्छरे एस णं आदिबस्स संवच्छरस्स पञ्जवसाणे, ता सव्वावि णं मंडलवता अडयालीसं एगट्ठिभागे जोयणस्सबाहल्लेणं, सय्वावि णं मंडलंतरिया दो जोयणाइं विक्खंभेणं, एसणं अद्धा तेसीयसतपडुप्पण्णो / पंचदसुत्तरे जोयणसते आहिता ति वदेजा, ता अभितरातो मंडलवताओ बाहिरं मंडलवतं बाहिराओ वा अमितरं मंडलवतं एसणं अद्धा केवलियं आहिता तिवदेज्जा ? ता पंचदसुत्तरजोयणसते आहिता ति वदेजा, अमितराते मंडलवताते बाहिरा मंडलवया बाहिराओ मंडलतातो अमितरा मंडलवता एस णं अद्धा केवतियं आहिताति वदेजा ? ता पंचदसुत्तरे जोयणसते अडतालीसं च एगट्ठिभागे जोयणस्स आहिता वदेजा, ता अब्भतरातो मंडलवतातो बाहिरमंडलवता बाहिरातो मं० तो अभंतरमंडलवता एस णं अद्धाकेवतियं आहिता ति वदेजा ? ता पंचणवुत्तरे जोयणसते तेरस य एगट्ठिभागे जोयणस्स आहिता ति वदेजा, अभितरा ते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताते अन्मंतरमंडलवया, एसणं अद्धा केवतियं आहिता ति वदेज्जा? ता पंचदसुत्तरे जोयणसए आहिय त्ति वदेजा। (सू०२०) 'ता सव्वा वि णं मंडलवया' इत्यादि, 'ता' इति पूर्ववत्, सर्वाण्यपि मण्डलपदानि मण्डलरूपाणि पदानि मण्डलपदानि सूर्यमण्डलस्थानानीत्यर्थः कियन्मानं बाहल्येन कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेणपरिधिना आख्यातानि इति वदेत् ‘सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचारि, यदाह पाणिनिः- स्वप्राकृतलक्षणे 'लिङ्गं व्यभिचार्यपि' इति, एवं भगवता गौतमेन प्रश्ने कृते सति भगवनितद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्य एवोपन्यस्यति- 'तत्थ खलु' इत्यादि, तत्र मण्डलबाहल्यादिविचारविषये खल्विमास्तिस्रः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा- तत्र तेषां त्रयाणां परतीथिकानां मध्ये एके तीर्थान्तरीयां एवमाहुः- 'ता' इति प्राग्वत्, सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि 'जोयण बाहल्लेणं' तिप्रत्येक योजनमेकं बाहल्येनपिण्डेन एकं योजनसहस्रमेकं च त्रयस्त्रिशंत्रयस्त्रिंशदधिकं योजनशतम्, 'आयामविक्खभेणं' ति आयामश्च विष्कम्भश्च आयामविष्कम्भं समाहारो द्वन्द्वस्तेन प्रत्येकमायासेन विष्कम्भेन चेत्यर्थः त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि योजनशतानि परिक्षेपतः प्रज्ञप्तानि। इह च येषां तीर्थान्तरीयाणां मतेन मण्डलस्यायाम-विष्कम्भमेकं योजनसहनमेकं योजनशतंच त्रयस्त्रिशदधिकमायामविष्कम्भाभ्यां ते परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्वीणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्तम्। तथाहि-सहस्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि त्रयस्त्रिंशतश्च नवनवतिरिति इह परिरयपरिमाणं 'बिक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ होइ' इति। परिरयगणितेन व्यभिचारि, तेन हि परिरयपरिमाणानयने त्रीणि योजनसहस्राणि पञ्चशतानि व्यशीत्यधिकानि किञ्चित्समधिकान्यागच्छन्ति, तथाहिएक योजनसहस्रमेकंचयोजनशतंत्रयस्त्रिंशदधिक-मित्येकादशयोजनशतानि त्रयस्त्रिंशदधिकानि 1133, एतेषां वर्गो विधीयते, जात एकको द्विकोऽष्टकस्त्रिकः षट्कोऽष्टको नवकः 1283686, ततो दशभिर्गुणितेन जातमेकमधिकं शून्यम् 12836860, एतेषां वर्गमूलानयने आगच्छति यथोक्तं परिरयपरिमाणमतस्तन्मतेन परिरयपरिमाणं व्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयम्, अत्रैव प्रथममते उपसंहारः 'एगे एवमाहंसु' 1, एके पुनरेवमाहुः-सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेक योजनं बाहल्येन एकं योजनसहस्रमेकं च योजनशतं चतुस्त्रिंशं चतुस्विंशदधि-कमायामविष्कम्भाभ्यां 1135 त्रीणि योजनसहस्राणि चत्वारियोजनशतानि व्युत्तराणि 3402, परिक्षेपतः। तथाहि एतेषामपि मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सहस्रस्य त्रीणि सहस्राणि शतस्य त्रीणि शतानि चतुस्त्रिंशतो व्युत्तरं शतमिति। अत्रैवोपसंहारमाह- 'एगे एवमाहंसु एके पुनरेवमाहुः-सर्वाण्यपि मण्डलपदानि- सूर्यमण्डलानि प्रत्येकमकं योजनं बाहल्येन एकं योजनसहस्रमेकं च योजनशतं पञ्चत्रिंशपञ्चत्रिंशदधिकमायामविष्कम्भाभ्याम् 1135 त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पञ्चोत्तराणि 3405 परिक्षेपतः, तथाहि एकस्य योजनसहस्रस्य त्रीणि योजनसहस्राणि शतस्य त्रीणि शतानि पश्चत्रिंशतः पञ्चोत्तरं शतमिति, एतानि बीण्यपि मतानि मिथ्यारूपाणि परिरयपरिमाणमात्रेऽपि व्यभिचारात्, अतो भगवान् तेभ्यः पृथक् स्वमतमुपदर्शमति- 'वयं पुण' इत्यादि, वंय पुनरेवं वक्ष्यमाणप्रकारे वदामः, तमेव प्रकारमाह-'ला सव्वावी' त्यादि, 'ता' इति पूर्वं वत् सर्वाण्यपि मण्डलपदानिसूर्यमण्डलानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य आयामविष्कम्भपरिक्षेपेण-आयामविष्कम्भपरिक्षेपैःपुनरनियतानि आख्यातानि, कस्यापि मण्डलस्य कियान् आयामो विष्कम्भः परिक्षे