________________ सूरमण्डल 1045 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल भेणं केवइ परिक्खेवेणं पण्णत्ते ? गोयमा ! एग जोअणसयसहस्सं छच अडयाले जोअणसए बावण्णं च एगसहिभाए जोअणस्स आयामविक्खंभेणं तिण्णि जोअणसयसहस्साई अट्ठारस य सहस्साई दोपिण अअउणासीए जोअणसए परिक्खेवेणं / (सू० 132+) 'बाहिरतचे ण' मित्यादि, प्रश्नः पूर्ववत्, उत्तरसूत्रे बाह्यतृतीयं षट् एकं योजनलक्षं चाष्टाचत्वारिंशानियोजनशतानि द्वापञ्चाशतं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्याम्, युक्तिश्चात्र-अनन्तरपूर्वमण्डलात् पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वेचैकोनाशीते योजनशते परिक्षेपेण, पूर्वमण्डलपरिधेरष्टादशयोजनशोधने यथाक्त प्रस्तुतमण्डलस्य परिधिमानम् / अत्रातिदेशमाहएवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयाणंरतं मंडलं संकममाणे संकममाणे पंच पंच जोअणाइं पणतीसं च एगसट्ठिभाए जोअणस्स एगमेगे मंडले विक्खंभवृद्धिं णिटवुद्धमाणे णिव्वुद्धेमाणे अट्ठारस अट्ठारस जोअणाई परिरयबुद्धिं णिव्वुड्डेमाणे णिवुड्डेमाणे सवभंतरं मंडलं उवसंकमित्ता चारं चरइ॥६।। (सू० 132+) ‘एवं खलु एएणं' मित्यादि, प्राग्वद्वाच्यम्, व्याख्यातार्थत्वात्। गतमायामविष्कम्भादिवृद्धिहानिद्वारम्, अनेनैव क्रमेण द्वयोः सूर्ययोः परस्परमबाधाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम्। सम्प्रति मुहूर्तगतिद्वारमजया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइखेत्तं गच्छद? गोयमा ! पंच पंच जोअणसहस्साइं दोण्णि अ एगावण्णे जोअणसए एगूणतीसं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छा, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहि दोहि अ तेवढेहिं जोअणसएहिं एगवीसाए आ जोअणस्स सट्ठिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सव्वमंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ ति। (सू०१३३४) "जया णं भंते ! सूरिए सव्वब्भंतरं, इत्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति इति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशे योजनशते एकोनविंशतंचषष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिदमुपपद्यते इति चेत्, उच्यते-इह सर्वमपिमण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते प्रतिसूर्यं चाहोरात्रगणने परमार्थतो | द्वावहोरात्रौ भवतः। द्वयोश्चाहोरात्रयोः षष्टिर्मुहूर्तास्ततो मण्डलपरिरयस्य षष्ट्या भागे हृते यल्लभ्यते तन्मुहूर्तगतिप्रमाणम्, तथाहि-सर्वाभ्यन्तरमण्डलपरिरयस्त्रीणि लक्षाणि पञ्चदश सहस्राण्येकोननवत्यधिकानि योजनानाम् 315086, एतेषां षष्ट्या भागे हृते लब्धं यथोक्तं मुहूर्त्तगतिप्रमाणम् 5251-26/60 अथ विनयावर्जितमनस्केन प्रज्ञापकेनापृच्छतोऽपि विनेयस्य किञ्चिदधिकं प्रज्ञापनीयमित्याह- यत्तदोर्नित्याभिसम्बन्धादनुक्तमपि यच्छब्दगर्भितवाक्यमत्रावतारणीयं तेन यदा सूर्यः एकेन मुहूर्तेन इयत् 525126/60 प्रमाणं गच्छति तदा सर्वाभ्यन्तरमण्डलसंक्रमणकाले इहगतस्य मनुष्यस्य अत्रजातावेक-वचनं ततोऽयमर्थः- इहगताना-भरतक्षेत्रगताना मनुष्याणां सप्तचत्वारिंशता योजनसहभ्यां च त्रिषष्टाभ्यां त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च योजन षष्टिभागैरुदयमानः सूर्यश्चक्षुःस्पर्श चक्षुर्विषयं हव्वंशीघ्रमागच्छति, अत्र च स्पर्शशब्दो नेन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसम्भवादिति, काऽत्रोपपत्तिरिति चेत्, उच्यत-इह दिवसस्यार्द्धन यावन्मानं क्षेत्रं व्याप्यते तावति व्यवस्थितः सूर्य उपलभ्यते, स एव लोके उदयमान इति व्यवहियते, सर्वाभ्यन्तरमण्डले दिवसप्रमाणमष्टादश-मुहूर्तास्तेषाम॰ नव मुहूर्ताः एकैकस्मिश्च मुहूर्ते सर्वाभ्यन्तरं मण्डले चारं चरन् पञ्च योजनसहस्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, एतावन्मुहूर्त्तगतिपरिमाणं नवभिमुहूत्तैर्गुण्यते ततो भवति यथोक्तं दृष्टिप्रथप्राप्तताविषयपरिमाणमिति, एवं सर्वेष्वपि मण्डलेषु स्वस्वमुहूर्तगतौ स्वस्वदिवसार्द्धगतमुहूर्तराशिना गुणितायां दृष्टिपथप्राप्तता भवति, दृष्टिपथप्राप्तता चक्षुःस्पर्शः पुरुषच्छाया इत्येकार्थाः / सा च पूर्वतोऽपरतश्च समप्रमाणैव भवतीति द्विगुणिता तापक्षेत्रमुदयाऽस्तान्तरमित्यादिपर्यायाः, इदं च सर्वबाहानन्तरमण्डलात् पश्चानुषा गण्यमानं त्र्यशीत्यधिकशततम, प्रतिमण्डलं चाहोरात्रगणनादाहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमो दिवसः, अयमेव च सूर्यसंवत्सरस्य पर्यन्तदिवस उत्तरायणपर्यवसानकत्वात् संवत्सरस्येति / अथ नवसंवत्सरप्रारम्भप्रकारप्रज्ञापनाय सूत्रं प्रारम्भ्यते--'से णिक्खममाणे' इत्यादि, अथाभ्यन्तरान्मण्डलोन्निष्क्रामन् जम्बूदीपान्तः प्रवेशेऽशीत्यधिकयोजनशतप्रमाणे क्षेत्रेचरमाकाश-प्रदेशस्पर्शनानन्तरं द्वितीयसमये द्वितीयमण्डलाभिमुखं प्रसर्पन्नित्यर्थः, सूर्यो नवम्आगामिकालभाविनं संवत्सरमयमानः 2- आददानः प्रथमोऽहोरात्रे सर्वाभ्यन्तरानन्तरं मण्डलम्पसंक्रम्य चारं चरति, एष चाहोरात्रो दक्षिणायतस्याद्यः संवत्सरस्यापि चदक्षिणायनादिकत्वात् संवत्सरस्य अत्र चाधिकारे समवायाङ्गसूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्श प्रस्तुतसूत्रादर्शषु च 'अयमाणे अयमाणे इत्यस्य स्थाने 'अयमीणे' इति पाठो दृश्यते तेन यदि स समूलस्तदा आर्षत्वादिहेतुना साधुरेव, 'अयमाणे' इति तु लक्षणसिद्धः, अर्थ तुभयत्राश्चि स एवति / जं० 7 वक्षः।