________________ सूरमंडल १०४१-अभिधानराजेन्द्रः - भाग 7 सूरमंडल गौतम ! जम्बूद्वीपे द्वीपे अशीतम्- अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पश्चषष्टिः सूर्यमण्डलानि प्रज्ञप्तानि, तथा लवणे भदन्त ! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि गौतम ! लवणे समुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्पत्वादविवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरेएकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञप्तम्, अत्र पञ्चषष्ट्या मण्डलैरेकोनाशीत्यधिकं योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जम्बूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिक योजनशतं तेन शेषा द्वापञ्चाशद्भागाः षट्षष्टितमस्य मण्डलस्य बोध्याः अल्पत्वाचात्र न विवक्षिताः। अत्र च पञ्चषष्टिमण्डलानां विषयविभागव्यवस्थायां सङ्ग्रहणीवृत्त्याधुक्तोऽयं वृद्धसम्प्रदायः- मेरोरेकतो निषधमूर्द्धनि त्रिषष्टिमण्डलानिहरिवर्षजीवाकोट्यांचढे द्वितीयपार्श्वे नीलवनमूनि त्रिषष्टिः, रम्यकजीवाकोट्यांच द्वेइति, एवमेवसपूर्वावरेण पञ्चषष्ट्येकोनविंशत्यधिकशतमण्डलमीलनेन जम्बूद्वीपे लवणे च समुद्रे एकं चतुरशीतं सूर्यमण्डलशतं भवतीत्याख्यातं मया चान्यैस्तीर्थकृद्भिः / गतं मण्डलसंख्याद्वारम्। अथ मण्डलक्षेत्रद्वारम्, तत्र सूत्रमसव्वब्भंतराओ णं भंते ! सूरमंडलाओ केवइआइ अबाहाए सव्वबाहिरए सूरमंडले पण्णत्ते? गोयमा! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडल पण्णत्ते / / 2 / / (सू०१२८) सव्वब्भतराओण' मित्यादि, सर्वाभ्यन्तरात्-प्रथमात् सूर्यभण्डलात् भदन्त ! कियत्या अबाधया-कियता अन्तरेण सर्वबाह्य-सर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यमण्डलं प्रज्ञप्तम् ? गौतम ! दशोत्तराणि पञ्चयोजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम्, अत्रानुक्ता अपि अष्टचत्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणम्मि अ जोअणसयतिणि तसिअहिआई' इति वचनादधिका ग्राह्याः, अन्यथोक्तसंख्याङ्कानां मण्डलानामनवकाशात्, कथमेवदवसीयते ? उच्यते- सर्वसंख्यया चतुरशीत्यधिक मण्डलशतम्, एकैकस्य च मण्डलस्य विष्कम्मोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिकं शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीतिः शतानि द्वात्रिंशदधिकानि, एतेषां योजनानयनार्थमेकषष्ट्या भागो हियते, हृते च लब्धं चतुश्चत्वारिंशदधिकं योजनशतम् 144, शेषमवतिष्ठतेऽष्टचत्वारिंशत्, चतुरशीत्यधिकशतसंख्यानां च मण्डलानामपान्तरालानित्र्यशीत्यधिकशतसंख्यानि सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चत-सृणाममुलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्र्यशीत्यधिक, शतं द्विक्रेन गुण्यते, जातानि त्रीणि शतानि षट्षष्ट्याधिकानि 366, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो जातानि पञ्च शतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, अनेन च मण्डलक्षेत्रस्य प्रमाणमभिहितम्। मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैयाप्तमाकाशं, तचक्रवालविष्क म्भतोऽवसेयम् / उक्तं मण्डलक्षेत्रद्वारम्। अथ मण्डलान्तरद्वारमाहसूरमंडलस्सणं भंते ! सूरमंडलस्सय केवइयं आबाहाए अंतरे पण्णत्ते ? गोयमा ! दो जोअणाई अबाहाए अंतरे पण्णत्ते / / 3 / / (सू०६२९) 'सूरमंडल' इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च कियदबाधया-अव्यवधानेनान्तरं प्रज्ञप्तम् ? गौतम ! द्वे योजने अबाधया अन्तरं प्रज्ञप्तम्, अन्तरशब्देनच विशेषोऽप्युच्यते इति तन्निवृत्त्यर्थमबाधयेत्युक्तं, कोऽर्थः ? पूर्वस्मादपरं मण्डले कियद् दूरे इत्यर्थः, अत्र यथा योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसंख्याद्वारे दर्शितम् / गतं मण्डलान्तरद्वारम्। अथ बिम्बायामविष्कम्भादिद्वारम्सरमंडले णं भंते ! केवइ आयामविक्खंभेणं केवइअं परिक्खेवेणं केवइअंबाहल्लेणं पण्णत्ते? गोयमा ! अडयालीसं एगसद्विभाए जोअणस्स आयामविक्खंभेणं जो अणस्स बाहल्लेणं पण्णत्ते इति॥४॥ (सू०१३०) 'सूरमण्डले ण' मित्यादि, सूर्यमण्डलं णमिति, प्राग्वत् भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियदाहल्येन-उचत्वेन प्रज्ञप्तम् ? गौतम् ! अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कम्भाभ्यां प्रज्ञप्तम्, अयमर्थः- एकयोजन-स्यैकषष्टिभागाः कल्प्यन्ते तद्रूपायेऽष्टचत्वारिंशद्भागास्ता-वत्प्रमाणावस्यायामविष्कम्भावित्यर्थः, तत् त्रिगुणं सविशेषंसाधिकं परिक्षेपेण, अष्टचत्वारिंशत् त्रिगुणिता द्वे योजनेद्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विशति-रेकषष्टिभागान् योजनस्य बाहल्येन, विमानविष्कम्भर्द्धभागेनोचत्वात् / गतं बिम्बायामविष्कम्भादिद्वारम् / जं०७ वक्ष० / जंबदीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ, तं जहा-निक्खममाणे य, पविसमाणे य / (सू०८२४) तत्र जम्बूद्वीपे व्यशीत्यधिकं मण्डलशतं सूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किं भूतं ? यत्सूर्यो द्विकृत्वो द्वौ वारौ संक्रम्य प्रविश्य चारं चरति, तद्यथा-निष्क्रामचं जम्बूद्वीपात्, प्रविशंश्च जम्बूद्वीप एवेति / अयमत्र भावार्थ:-किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये सकृदेव संक्रामति शेषाणि तु द्वौ वाराविति / इह चव्यशीतिबिवक्षयैवेदं द्व्यशीतिस्थानकेऽधीतमिति भावनीयम्। यद्यपि जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापिजम्बूद्वीपादिक-सूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति ! सं०५२ सम०। बाहिराओ उत्तराओ णं कट्ठाओ सूरिए पढम छम्माणं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति एगसहिभागे मुहुत्तस्स दिवसखेतस्सनिवुवेत्तास्यणिखेतस्स अभिनिवेत्तासरिएचारंचरइ