________________ सूरपण्णत्ति 1040- अभिधानराजेन्द्रः - भाग 7 सूरमंडल मानमपि न सम्यगभिरोचयते इति न देया, किन्तु तद्विपरीताय दातव्या भवेत् / भवेदिति क्रियापदस्य सामर्थ्यलब्धावप्युपादानं दातव्यत्वावधारणार्थ तद्विपरीताय दातव्यैव नाऽदत्तव्या। अदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः, एतदेव व्यक्तीकुर्वन्नाह-- 'सद्धे' त्यादि, श्रद्धा-श्रवणं प्रति वाञ्छाधृतिः-विवक्षितं जिनवचनं सत्यमेवनान्यथेति मनसोऽवष्टम्भः, उत्थानं श्रवणाय गुरु प्रत्याभिमुखगमनमुत्साहःश्रवणविषये मनसः उत्कलिकाविशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते शृणोमि च ततः शोभनं भवतीति परिणाम उपजायते कर्म - वन्दनादिलक्षणं बलंशारीरो वाचनादिविषयः प्राणः वीर्यम्- अनुप्रेक्षायां सूक्ष्मसूक्ष्मार्थोहनशक्तिः पुरुषकार:- तदेव वीर्य साधिताभिमत प्रयोजनम्। एतैः कारणैः यः स्वयं शिक्षितोऽपि गृहीतसूर्यप्रज्ञाप्तिसूत्रार्थोभयोऽपि सन्यो दाक्षिण्यादिना अन्तेवासिनि अभाजनेअयोग्ये प्रतिक्षिपेत्- सूत्रतोऽर्थत उभयतो वा न्यसेत् 'सो पवयणे' त्यादि सप्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो ज्ञानाचारपरिहीणो भगवदर्हत्स्थविरगणधरमर्यादांभगवदर्हदादिकृतां व्यवस्थां भवति किलव्यतिकान्तः। किलेत्याप्तवादसूचकम, इत्थमाप्तवचनं व्यवस्थित यथा सनूनं भगवदर्हदादिव्यवस्थामतिक्रान्त इति, तदतिक्रमे च दीर्घसंसारिता। तम्हे' त्यादि, तस्माद्धृत्युत्थानोत्साहकर्मबलवीर्ययंत्ज्ञानंसूर्यप्रज्ञप्त्यादि, स्वयं मुमुक्षुणा सता शिक्षितं तन्नियमादात्मन्येव धर्तव्यम्, न तु जातुचिदप्यविनीतेषु दातव्यम्, उक्तप्रकारेण तद्दाने आत्मपरदीर्घसंसारित्वप्रसक्तेः, तदेवमुक्तः प्रदानविधिः। इयं च सूर्यप्रज्ञप्तिरर्थतो मिथिलायां नगाँ भगवता वीरवर्द्धमानस्वामिना साक्षादुक्ता / सूर्यप्रज्ञप्तिमिमा-मतिगम्भीरां विवृण्वता कुशलम् / यदवापि मलयगिरिणा, साधुजनस्तेन भवतु कृती // 3 // " सू० प्र०२० पाहु०। यो०। विं०1"कालियसुयं च इसिभासियाइँ तइओ असूरपन्नत्ती। सव्वो उ दिविवाओ, चउप्पगो होइ अणुओगो।" आ० क०१ अ०। सूरपरिवेस-पुं०(सूर्यपरिवेष) सूर्यस्य परितो वलयाकारपरिणतो अनु० / जी०। सूरपव्यय-पुं०(सूर्यपर्वत) मेरुपर्वतस्य पश्चिमवनखण्डवेदिकान्तविजयस्य दक्षिणस्यां दिशिपर्वतभेदे, स्था०२ ठा०३ उ०। सीतोदाया उत्तरे पार्वे महावक्रविजयक्षेत्रे वक्षस्कारपर्वते, जं०४ वक्ष०ा स्था०। सूरपाणिलेह-पुं०(सूर्यपाणिलेख) सूर्य इव सूर्याकाराः पाणौ लेखा येषां तेसूर्यपाणिलेखाः। सूर्याकृतिरेखायुतहस्तेषु, जी०३ प्रति० 4 अधि०। प्रश्न। सूरपुरंगम-पुं०(शूरपुरंगम) शूराणामग्रगामिनि, सूत्र०१श्रु०३ अ० 3 उ०। सूरप्पभ-न०(सूर्यप्रभ) चतुर्थे देवलोकसत्के विमानभेदे, स०५ सम०। सूरप्पभा स्त्री०(सूर्यप्रभा) एकादशस्यतीर्थकृतो निष्क्रमणशिविकायात्, साजी०। सूर्यस्य ज्योतिष्केन्द्रस्याग्रमहिष्यात्, स्था० 4 ठा० 1 उ०। सूरप्पमाण भोइ-पुं०(सूर्यप्रमाणभोजिन्) सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारिणि, स०२० सम० आ० चू०। दशा०। "सूर एव पमाणं तस्स उदयमेत्ते आरद्धो जाव णअत्थमेइ ताव मुंजइ सज्झायमादी न करेइ परिचोइओ रुस्सइ अजीरगादी असमाधी उप्पजति। आव० 4 अ०। सूरभद्द-पुं०(सूर्यभद्र) सूर्यद्वीपदेवे,जी०३ प्रति०४ अधि०। सूरमंडल-न०(सूर्यमण्डल) आदित्यविमानवृत्ते, स० 10 सम० / सूर्यवक्तव्यतायां पञ्चदश द्वाराणि तत्रेमानिपञ्चदशानुयोगद्वाराणि / मण्डलसंख्या 1 मण्डलक्षेत्रम् 2 मण्डलान्तरम् 3 बिम्बायामविष्कम्भादि 4 मेरुमण्डलक्षेत्रयोरबाधा, 5 मण्डलायामादिवृद्धिहानी 6 मुहूर्तगतिः 7 दिनरात्रिवृद्धिहानी 8 तापक्षेत्रसंस्थानादि दूरासन्नादिदर्शने लोकप्रतीत्युपपत्तिः 10 चारक्षेत्रेऽतीतादिप्रश्नः 11 तत्रैव क्रियाप्रश्नः 12 ऊर्ध्वादिदिक्षु प्रकाशयोजनसंख्या 13 मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपम् 14 इन्द्रायभावे स्थितिप्रकल्पः 15 / तत्रमण्डलसंख्यायामादिसूत्रम्कहणं भंते ! सूरमंडला पण्णता? गोयमा ! एगे चउरासीए मंडलसए पण्णत्ते इति / जंबुद्दीदे णं मंते ! दीवे केवइअं ओगाहित्ता केवइआ सूरमण्डला पण्णत्ता ? गोयमा! जंबूढीवे दीवे असीअं जोअणसयं ओगाहित्ता एत्थ णं पण्णसट्ठी सूरमण्डला पण्णत्ता, लवणे णं भंते ! समुहे केवइ ओगाहित्ता केवइआ सूरमंडला पण्णत्ता ? गोयमा ! लवणे समुद्दे तिण्णि तीसे जोअणसए ओगाहित्ता एत्थ णं एगणवीसे सूरमंडलसए पण्णत्ते, एवामेव सपुटवावरेणं जंबूढीवे दीवे लवणे असमुहे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायं ति॥१॥ (सू०१२७) 'कइण' मित्यादि, कति भदन्त ! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्र वालविष्कम्भानि प्रतिदिनभ्रमिक्षेत्रलक्षणानि मण्डलानि प्रज्ञाप्तानि ? मण्डलत्वं चैषां भण्डलसदृशत्वात् न तु तात्त्विकं, मण्डल-प्रथमक्षणे यद् व्याप्त क्षेत्र तत्समश्रण्येव यदि पुरः क्षेत्र व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात्, तथा च सति पूर्वमण्डलादुत्तरमण्डलस्य योजनद्वयमन्तरं न स्यादिति, भगवानाहगौतम ! एकं चतुरशीतं-चतुरशीत्यधिकं मण्डलशतं प्रज्ञप्तम्, यथा चैभिश्वा-रक्षणपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते / अथैतान्येव क्षेत्रविभागन द्विधा विभज्योक्त-सख्यां पुनः प्रश्नयति- जंबुद्दीव त्तिजम्बूद्रीपेद्वीपेभदन्त! कियत्क्षेत्र-मवगाह्य कियन्तिसूर्यमण्डलानिप्रज्ञप्तानि