________________ सूरपण्णत्ति 1036 - अभिधानराजेन्द्रः - भाग 7 सूरपण्णत्ति तिपाद्याः सवतमप्रतिपत्तिश्च / द्वितीये भेदघातः कर्णकला च वक्तव्या, किमुक्तं भवति?-भेदो मण्डलस्यापान्तरालं तत्र धातो-गमनम् 'हन्' हिंसागत्योरिति, वचनात, स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं संक्रामतीति, तथा कर्णः- कोटिभागः तमधिकृत्यापरेषां मतेन कला वक्तव्या, यथा विवक्षिते मण्डले द्वावपि सूर्यो प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटिद्वयंलक्षीकृत्य बुद्ध्या परिपूर्ण यथावस्थितं मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्ण-कोटिभागरूमभिसमीक्ष्य ततः कलया 1 मात्रया 2 इत्यर्थः, अपरमण्डलाभिमुखमभिसर्पन्तौ चारं चरत इति। तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहूर्तेषु गतिः- गतिपरिमाणमभिधातव्यम् तत्र निष्क्रामति प्रविशति वा सूर्ये यादृशी गतिर्भवति तादृशीमभिधित्सुराह-'निक्खमे' त्यादि निष्क्रामन्- सर्वाभ्यन्तरान्मण्डलादहिर्निर्गच्छन् सूर्यो यथोत्तरंमण्डलं संक्रामन् शीघ्रगतिः शीघ्रतरगतिर्भवति, प्रविशन्-सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगतिः मन्दमन्दगतिः, तेषां च मण्डलानां चतुरशीतं चतुरशीत्यधिकंशतंसूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहूर्तं सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तयो नाम मतान्तररूपा भवन्ति / सम्प्रति कस्मिन् प्राभृतप्राभृते कति प्रतिपत्तय इत्येतत्प्ररूपयति-द्वितीये प्राभृते त्रिष्वपि प्राभृतप्राभृतेषु यथाक्रममेवं संख्याः प्रतिपत्तयो भवन्ति, तद्यथा-प्रथमे प्राभूतप्राभृते उदये-सूर्योदयवक्तव्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगणधरैः प्रतिपत्तयः, द्वितीये प्राभृतप्राभृते भेदघाते-भेदघातरूपे परमतवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहूर्तगतौ-मुहूर्तगतिवक्तव्यतोपलक्षिते चतस्रः प्रतिपत्तयो भवन्ति, 'चत्तारी' ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृत्वात्, प्राकृते हि लिङ्गं व्यभिचारि, यदाह पाणिनिः स्वप्राकृतलक्षणे- 'लिङ्ग व्यभिचार्यपी' ति। सम्प्रति दशमप्राभृते यान्यपान्तरालवर्तीनि द्वाविंशतिसंख्यानिप्राभृतप्राभृतानि तेषामर्थाधिकारमाह-दशमे प्राभृते एतानि-सूत्रे पुंस्त्वनिर्देशः प्राकृतत्यात् एतदर्थाधिकारोपेतानि द्वाविंशतिः प्राभृतप्राभृतानि भवन्ति, तद्यथा- प्रथमे प्राभृतप्राभृते नक्षत्राणामावलिकाक्रमो वक्तव्यः यथा अभिजितादीनि नक्षत्राणि भवन्तीति 1, द्वितीये नक्षत्रविषयं मुहूत्तग्रिं, मुहूर्तपरिमाणं वक्तव्यम् 2, तृतीये 'एवं भागा' इति 'पूर्वभागा' इति पूर्वपश्चिमादिप्रकारेण भागा वक्तव्याः३, चतुर्थे 'योगस्स' त्ति-योगस्यादिर्वक्तव्यः, तथाच वक्ष्यति-'ता कहं तेजोगस्स आईआहियत्ति वइजा' इति४, पञ्चमे कुलानि च शब्दादुपकुलानि कुलोपकुलानि च वक्तव्यानि 5, षष्ठे पौर्णमासीतिपौर्णमासी वक्तव्यता अभिधेया 6, सप्तमे सन्निपात' इति अमावस्यापौर्णमासीसन्निपातो वक्तव्यः 7, अष्टमे नक्षत्राणां संस्थितिः-संस्थानं वक्तव्यम्, नवमेनक्षत्रताराग्रंतारापरिमाणमभिधेयम् 6, दशमे नेता वक्तव्यो, यथा कति नक्षत्राणि स्वयमस्तङ्गमनेनाहोरात्रपरिसमाप्त्या कं मासं नयन्तीति 10, अपरस्मिन्नेकादशे प्राभृतप्राभृते चन्द्रमार्गाः चन्द्रमण्डलानि नक्षत्राधिकृत्य वक्तव्यानि 11, द्वादशे नक्षत्राधिपतीनां देवतानामध्ययनानि-अधीयते ज्ञायते एभिरित्यध्ययनानि नामानि वक्ताव्यानि 1, त्रयोदशे मुहूर्तानां नामकानि वक्तव्यानि 13, चतुर्दशे दिवसा रात्रयश्चोक्ताः 14, पञ्चदशे तिथयः 15, षोडशे गोत्राणि नक्षत्राणां 16 सप्तदशे नक्षत्राणां भोजनानि वाच्यानि, यथेदं नक्षत्रमेवंरूपे भोजने कृते शुभाय भवतीति 17, अष्टादशे आदित्यानामुपलक्षणमेतचन्द्रमसां च चारा वक्तव्याः 18, एकोनविंशतितमे मासाः १६,विंशतितमे संवत्सराः 20, एकविंशतितमेज्योतिषां-नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि, यथाऽमूनि नक्षत्राणि पूर्वद्वाराणि अमूनि च पश्चिमद्वाराणीत्यादि 21, द्वाविंशतितमे नक्षत्राणां विचयः- चन्द्रसूर्ययोगादिविषयो निर्णयो वक्तव्य इति। तदेवमुक्ता प्राभृतप्राभृतसंख्या तेषामर्थाधिकाराश्च 22 / सू० प्र० 1 पाहु०। उपसंहारमाहइय एस पाहुडत्था, अभव्वजणहिययदुल्लहा इणमो। उकित्तिता भगवता, जोतिसरायस्स पण्णत्ती॥१|| एस गहिता वि संता, थद्धे गारवियमाणि पडिणीए। अबहुस्सुएण देया, तविवरीते भवे देया / / 2 / / सद्धाधितिउट्ठाणु-च्छाहकम्मबलविरियपुरिससकारेहिं! जो सिक्खिओ वि संतो, अमायणे परिकहेलाहि // 3 // सोपवयणकुलगणसं-घबाहिरो णाणविणयपरिहीणो। अरहंतथेरगणहर-भेरं किर होति वोलीणो ||4|| तम्हा घितिउहाणु-च्छाहकम्मबलविरियसिक्खिणाणं / धारेयव्वं णियमा, ण य अविणीएसुदायव्वं // 5 // इति- एवम्- उक्तेन प्रकारेण अनन्तरमुद्दिष्टस्वरूपा प्रकटार्थाजिनवचनतत्त्ववेदिनामुत्तानार्था, इयं चेत्थं प्रकटार्थाऽपिसती अभव्यानां हृदयेन-पारमार्थिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्याभव्यजनानां दुर्लभेत्यर्थः, अभव्यत्वादेव तेषां सम्यजिनवचनपरिभावात्, उत्कीर्तिता कथिता भगवती-ज्ञानैश्वर्या देवता ज्योतिषराजस्य-सूर्यस्य प्रज्ञप्तिः / एषा च स्वयं गृहीता सती यस्मैन दातव्या तत्प्रतिपादनार्थमाह-. 'एसा गहिया वि' इत्यादि, गाथाद्वयम्, एषा- सूर्यप्रज्ञप्तिः स्वयं सम्यक्करणेन गृहीताऽपि सती "व्यत्ययोऽप्यासाम्" इति वचनात्चतुर्थ्यर्थे सप्तमी, ततोऽयमर्थः- 'थद्धे' इति स्तब्धाय स्वभावत एव मानप्रकृत्या विनयभ्रंशकारिणे, 'गारविय त्ति, ऋद्व्यादिगौरवं संजातमस्येति गौरावतस्तस्मै ऋद्धिरससाताना मन्यतमेन गौरवेण गुरुतरायेति भावः, ऋद्ध्यादिमदोषेतो ह्यचिन्त्यचिन्तामणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णकमाचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति, सा चावज्ञादुरन्तनरकादिप्रपातहेतुरतस्तदुपकारायैव तस्मैदानप्रतिषेधः, इयं च भावना स्तब्धमान्यादिष्वपि भावनीया, तथा मानिनेजात्या-दिमदोपेताय प्रत्यनीकाय- दूरभव्यतया अभव्यतया वा सिद्धान्तवचननिकुठुनपराय, तथा अल्पश्रुताय-अवगाढस्तोकशास्त्राय, स हि जिनवचनेषु (अ) सम्यग्भावितत्वात्, शब्दार्थपर्यालोचनायामक्षुण्णत्वाच यथावत्कथ्य