________________ सूरपण्णत्ति 1038 - अमिधानराजेन्द्रः - भाग 7 सूरपण्णत्ति अणुभावे के व संवुत्ते 20, एवमेयाईं वीसइ ॥५॥(सू०३) / प्रथमे प्राभृते सूर्यो वर्षभध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो व्रजतीत्येतन्निरूपणीयम्, किमुक्तं भवति- एवं गौतमेन प्रश्ने कृते तदनन्तरं सर्व तद् विषयं निर्वचनं प्रथमे प्राभृते वक्तव्यमिति 1 / एवं सर्वत्रापि भावनीयम्। द्वितीये प्राभृते 'किं' कथं वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुचये तिर्यग्व्रजतीति 2 तृतीये चन्द्रः सूर्यो वा कियत्क्षेत्रमवभासयति-प्राकाशयतीति३, चतुर्थे श्वेततायाः-प्रकाशस्य किं कथं 'ते' --तव मते संस्थितिः-व्यवस्थेति 4, पञ्चमे कस्मिन् सूर्यस्य प्रतिहता लेश्येति 5, षष्ठे कथं-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः-प्रकाशस्य संस्थितिः-अवस्थानमिति 6, सप्तमे के पुद्गलाः सूर्य वरयन्ति- सूर्यलेश्यासंसृष्टा भवन्तीति 7, अष्टमे कथं–केन प्रकारेण भगवन् ! ते-तव मतेन सूर्यस्योदयसस्थितिः 8, नवमे कतिकाष्ठा-किंप्रमाणा पौरुषीच्छाया 6, दशमे योग इति वस्तु किं ते-- त्वया भगवताऽख्यातमिति 10, एकादशे कस्ते-- तव मतेन संवत्सराणामादिरिति 11, द्वादशे कति संवत्सरा इति 12, त्रयोदशे कथं-केन प्रकारेण चन्द्रमसो वृद्धिः-वृद्धिप्रतिभासः उपलक्षणमेतत्तेन वृद्ध्यवृद्धिप्रतिभास इत्यर्थः 13, चतुर्दशे कदा-कस्मिन् काले 'ते' - तव मतेन चन्द्रमसो ज्योत्स्रा बहुः-प्रभूतेति 14, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति 15, षोडश किं ज्योत्स्नालक्षणमिति वक्तव्यम् 16, सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः 17, अष्टादशे चन्द्रादीनां समतलाभूभागादूर्ध्वमुच्चत्वं-यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्यम् 18, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयम् 16, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति 20 // एवम्- अनन्तरोक्तेन प्रकारेण एंतानि अनन्तरोदितार्थाधिकारोपेतानि विंशतिः प्राभृतान्यस्यां सूर्यप्रज्ञप्ती वक्तव्यानि। सू०प्र०१पाहु०। (प्राभृतशब्दार्थः पाहुड' शब्दे पञ्चमभागे 614 पृष्ठे गतः।) सम्प्रति प्रथमे प्राभृते यान्यपान्तरालवर्तीन्यष्टो प्राभृतप्राभूतानि तेषामर्थाधिकारान् उपदिदिक्षुराहवड्ढोबड्डी मुहुत्ताण 1, मद्धमंडलसंठिई 2 / के ते चिन्नं परियरइ 3, अंतरं किं चरंति य // 6| उग्गाहह केवइयं 5, केवतियं च विकंपइ 6 (सू०-५) मंडलाण य संठाने 7, विक्खंभो 8 अट्ठ पाहुडा |7|| छप्पं च य सत्तेवय, अट्ट तिनि य हवंति पडिवत्ति। पढमस्स पाहुडस्स, हवंति एयाउपडिवत्ती॥८॥(सू०-५) पडिवत्तीओ उदए, तहा अत्थमणेसु या भियवाए कण्णकला, मुहुत्ताण गतीति य // णिक्खममाणे सिग्घगई, पविसंते मंदगई इय। चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तिओ // 10 // उदयम्मि अह मणिया, भेदग्घाए दुवे य पडिवत्ती। चत्तारि मुहुत्तगइए, हुंति तइयम्मि पडिवत्ती॥११॥(सू०-६) आवलिय 1 मुहुत्तग्गे 2, एवं भागा य 3 जोग्गस्स४। कुलाइं 5 पुन्नमासी ६य, सन्निवाए 7 य संठिई 8 ||12|| तारं (य) ग्गं च नेता य 10, चंदमग्ग त्ति 11 यावरे। देवताण य अज्झयणे 12, मुहुत्ताणं नामया इय 13 / / 13 / / दिवसा राइ वुत्ताय 15, तिहि 15 गोत्ता 16 भोयणाणि १७य। आइबवार 18 मासा 16 य, पंच संवच्छराइच 20 // 14 // जोइसस्स य दाराई 21, नक्खत्तविजए विय 22 // दसमे पाहुडे एए, बावीसं पॉहु (ड) पाहुडा / / 15 / / (सू०-७) प्रथमस्य प्राभृतस्य सत्के प्रथमे प्राभृतप्राभृते मुहूर्तानां दिवसरात्रिगतानां वृद्ध्यपवृद्धी वक्तव्ये 1, द्वितीयेऽर्द्धमण्डलस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्द्धमण्डलविषया संस्थितिः- व्यवस्था वक्तव्य 2, तृतीये तव मतेन कः सूर्यः कियदपरेण सूर्येण चीण क्षेत्रं प्रतिचरतीति निरूप्यम् 3, चतुर्थे द्वावपि सूर्यो परस्परं कियत्परिमाणमन्तरं कृत्वा धारं चरत इति प्रतिपाद्यम् 4, पञ्चमे कियत्प्रमाणं द्वीपे समुद्रं वाऽवगाह्य सूर्यश्चारं चरतीति 5, षष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्प्रमाणं क्षेत्रं विकम्प्यविमुच्यं चारं चरतीति 6, सप्तमे मण्डलानां संस्थानमभिधानीयम्, 7, अष्टमे मण्डलानामेव विष्कम्भो–बाहल्यमिति८, एवमर्थाधिकारसमन्वितानि प्रथमे प्राभृतेऽष्टौप्राभृतप्राभृतानि। सम्प्रति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभृतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सुराह-'छप्पंचे त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तयः- परमतरूपा भवन्ति, तद्यथाचतुर्थे प्राभृतप्राभृतेषट्प्रतिपत्तयः 6, पञ्चमे पञ्च 5, षष्ठेसप्त 7, सप्तमे अष्टौ 8 अष्टमे तिस्र 3 इति / सम्प्रति द्वितीये प्राभृते यदर्थाधिकारोपेतानि त्राणि प्राभृतप्राभृतानि तान्प्रतिपादयति-'पङिवत्ती' त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिप्रत्तयः--परमतरूपाः प्र