________________ संघ 81 - अभिधानराजेन्द्रः - भाग 7 संघ न्तः प्रवेशाभावतश्चालयितुमशक्यम्, रूढ प्रतिसमयं विशुद्धयमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्तनाम्, गाढं तीव्रतत्त्वविषयरूच्यात्मकत्वाद्, अवगाढ जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रवटिं, तं वन्दे। सूत्रेप्राकृतत्वात् द्वितीयार्थे षष्ठी। यदाह पाणिनिः स्वप्राकृतलक्षणे'द्वितीयार्थे षष्ठी' अथवा-सम्बन्धविवक्षया षष्ठी; यथा माषाणामश्नीयादित्यत्र,यद्वा-इत्थम्भूतस्य संघमन्दरगिरेर्यत् माहात्म्यं तद् वन्दे, इति महात्म्यशब्दाध्याहारापेक्षया षष्ठी, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमण्डितचामीकरमेखलाकः, 'शेषाद्वा' / / 7 / 3 / 175 / / इति कः प्रत्ययः तस्य, इह धर्मो द्विधामूलगुणरूपः, उत्तरगुणरूपश्च / तत्रोत्तरगुणरूपो रत्नानि, मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधर्मात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते। इहोच्छ्रितशब्दस्य व्यवहितः प्रयोगः। ततश्चायमर्थः-नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानिउज्ज्वलन्ति ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरी कूटानामुच्छ्रितत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतम्, संघमन्दरगिरिपक्षे तु चित्ररूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादुज्ज्वलानि प्रतिसमयं कर्ममलवियमात् ज्वलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात्,तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं, लतावितानगतविविधफल-पुष्पप्रवालसंकुलतया मनोहरतीति मनोहर, 'लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवन च तन्मनोहरं च तस्य सुरभिस्वभावो यो गन्धस्तेन उद्घमायः-आपूर्णः, उखुमायशब्द आपूर्णपर्यायः, यत उक्तमभिमानचिह्नन- "पडिहत्थमुटुमायं अ, हिरे इयं च जाण आउण्णो" तस्य, संघमन्दरगिरिपक्षे तु-नन्दंनसन्तोषः, तथाहि-तत्र स्थिताः साधवो नन्दन्तितत्त्वविविधामर्षांषध्यादिलब्धिसङ कुलतया मनोहरं, तस्य सुरभिः शीलमेव गन्धः तेन व्याप्तस्य, अथवा-मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् / जीवदया एव सुन्दराणि स्वपरनिर्वतिहेतुतया कन्दराणि तपस्विनामावासभूतत्वात्, तथा च लोकेऽपि प्रतीतम्- 'अहिंसाव्यवस्थितः तपस्वी' ति, जीवदयासुन्दरकन्दराणि, तेषु ये उत्-प्राबल्येन कर्मशत्रुजयं प्रति दपिता उद्दपिता मुनिवरा एव शाक्यादिमृगपराजयात मृगेन्द्राः तैराकीर्णोव्याप्तस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्द्रवति चन्द्रकान्तादीनि रत्नानि भवन्ति क नकादिधातवो दीप्ताश्चौषधयः, संघमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेषां स्वरूपेण भास्वरत्वात,तथा प्रगलन्तिनिष्यन्दमानानि क्षायोपशमिकभावस्यन्दित्वात् श्रुतरत्नानि दीप्ताः जाज्वल्यमाना ओषधयःआमोषध्यादयो गुहासुव्याख्यान-शालारूपासु यस्य स तथा तस्य, संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव | संवरवरजलं तस्य, प्रगलितः-सातत्येन व्यूढः उज्झरः-प्रवाहःसएव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा रवन्तो मयूराः तैर्नृत्यन्तीव कुहराणिजिनमण्डपादिरूपाणि यस्य स तथा तस्य, विनयेन नता विनयनता ये प्रवरमुनिवराः त एव स्फुरन्त्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिवलन्तिभासमानानि, शिखराणि,यस्य स तथा तस्य इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषा भासुरत्वात् तथा विविधा गुणा येषां ते विविधगुणाः विशेषणान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्द्ररूपसुखहेतु-धर्मफलदानाच्च कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात् स्वार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसुमानि तैराकुलानि वनानि यस्य स तथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः,कुसुमानि नानाप्रकारा ऋद्धयः, वनानि तु गच्छाः / तथा ज्ञानमेव परमनिर्वृतिहेतुत्वात्वरं रत्नं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे तु कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात्मकत्वात्, तस्य, इत्थभूतस्य संघमहामन्दरगिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे / तदेव संघस्यानेकधा स्तवोऽभिहितः। नं० / “दुप्पसहो सूरी फुग्गुसिरीअज्जा नाइलो सावओ सव्वसिरी साविया एस अपच्छिमो संघो पुथ्वण्हे भारहे वासे अस्थमेहिइ।" ती० 20 कल्प। ही०। (संघव्यवहारः ‘ववहार' शब्दे षष्ठ भागे 16 पृष्ठेद्रष्टव्यः।) श्रीवज्रस्वामिना पटविद्यया संघः सुभिक्षदेशे नीतः, तत्र संघः किं चतुर्विधः, साधुसाध्वीमात्रसमुदायो वा? पटविद्या च किं स्वरूपेति ? प्रश्नोऽत्रोत्तरम्-परिशिष्ट पर्वाद्युक्तवजस्वामिसम्बन्धानुसारेण चतुर्विधसंघोऽवसीयते, न तु साधुसाध्वीरूप एव। तथा यया चक्रवर्तिचर्मरत्नवद्विवक्षितविस्तारः पटो भवति साफ्टविद्येति // 351 / / सेन०३ उल्ला० / अथ वार्षिककृत्यानि यथा-संघर्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि। गाथोत्तरार्द्ध“पइवरिसं संघच्चण 1 साहम्मिअभत्ति 2 जत्ततिगं 3 // 1 / / जिणगिहण्हवणं 4 जिणधण-वुड्डी 5 महपूअ६धम्मजागरिआ 7 / सुअपूआ 8 उज्जवणंह, तह तित्थपहावण सोही 10 // 2 // " तत्रसंघपूजायां निजविभवाद्यनुसारेण भृशादरबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मादिदोषरहित वस्त्रकम्बलपादप्रोच्छनसूत्रोर्णापात्रदण्डकदण्डिकासूचीकण्टककर्षणकागदकुम्पकलेखनीपुस्तकादिक श्रीगुरुभ्योदत्ते, यद्दिनकृत्यसूत्रम्- "वत्थं पत्तं च पुत्थंच, कंबलं पायपुंछणं दंड संथारयं सिज, अन्नं किंचिसुज्झई / / 1 / / " एवं प्रातिहारिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्व साधुभ्यः श्रद्धया देयम्। सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उकम्-यथा“असणाईवत्थाई, सूयाईचउक्गा तिन्नि" अशनादीनिवस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश / यथा-अशनं 1 पानं 2 खा