________________ संघ 50 - अभिधानराजेन्द्रः - भाग 7 संघ तसम्यग्दृष्टरप्यपार्द्धपुरलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिर्गतः, अद्यापि संसारित्वात, तथा श्रुतरत्नमेव दी? नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्मरजोजलौघतः तद्बलाद्विनिर्गतः, तथा पञ्च महाव्रतान्येवप्राणातिपातादिविरमणलक्षणानि स्थिरादृढा कर्णिकामध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः-उत्तरगुणाः त एव पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थम्मि मुणिज्जह आलं इल्लं मणं तह य इति प्राकृतलक्षणात् मत्वर्थे आलप्रत्ययः। तथा ये अभ्युपेतसम्यक्त्वाः - प्रतिपन्नाणुव्रता अपि प्रतिदवसं यतिभ्यः साधूनागारिणां चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारी शृण्वन्ति ते श्रावकाः, उक्तंच- “संपत्तदंसणाई, पयदियह जइ जणा सुणेई य। सामायारिं परमं, जो खलु तं सावगं बिति 1 // 1 // " श्रावकाच ते जनाश्च श्रावकजनाः त एव मधुकर्यः ताभिःपरिवृतस्य तस्य, तथा-जिनसूर्यतजोबुद्धस्यजिन एव सकलजगत्प्रकाशकतया सूर्य इवभास्कर इव जिनसूर्यस्तस्य तेजो विशिष्टसंवेदनप्रभवा धर्मदेशाना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽनः' / 5 / 1 / 52|| इति कर्त्तर्यनप्रत्ययः श्राम्यन्ति-तपस्यन्ति, किमुक्तं भवति? प्रव्रज्याऽऽम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरुपदे-शादाप्राणोपरमायथाशवत्यनशनादि तपश्चरन्ति। उक्तं च- "यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः / / 1 / / " श्रमणाना गणः श्रमणगणः स एव सहस्र पत्राणां यस्य तत् श्रमणगणसहसपत्रं तस्य (श्रीसंघपास्य भद्रं भवतु)। भूयोऽपि संघस्यैव सोमतया चन्द्ररूपकेण स्तवमभिधि त्सुराहतवसंजममयलंछण, अकिरियराहुमुहदुद्धरिस निचं / जय संघचंद ! निम्मल-सम्मत्तविसुद्धजोण्हागा।।६।। तपश्च संयमश्चतपःसंयम, समाहारो द्वन्द्वः तपःसंयममेव मृगलाञ्छनंमृगरूपं चिह्न यस्य तस्यामन्त्रणं हे तपःसंयममृगलाञ्छन!, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रियाः-नास्तिकाः तएव जिनप्रवचनशशाङ्कासनपरायणत्वादाहुमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्यामन्त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य!, संघश्चन्द्र इव संघ-चन्द्रः तस्यामन्त्रणं हेसंघचन्द्र!तथा निर्मलंमिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा, 'शेषाद्वा' / / 7 / 3 / 175 / / इति कः प्रत्ययः तस्यामन्त्रणं हे निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक ! दीर्घत्वं प्रागिव प्राकृतलक्षणादवसेयम्, नित्यं -सर्वकालं जय-सकलपरदर्शतारकेभ्योऽतिशयवान् भव, यद्यपि भगवान् सघचन्द्रः सदैव जयन् वर्तते तथाऽपीत्थं स्तोतुरभिधान कुशलमनोवाकायप्रवृत्तिकारणमित्यदुष्टम्। 'पुनरपि संधस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह परतित्थियगहपहना-सगस्स तवतेयदित्तलेसस्स। नाणुजोयस्स जए, भद्रं दमसंधसूरस्स / / 10 / / परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलम्बिनः तएव ग्रहाः तेषां या प्रभा एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयस कुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयतिअपनयतीति परतीर्थकग्रहप्रभानाशकः तस्य, तथा तपस्तेज एव दीप्ताउज्ज्वला लेश्या-भास्वरता यस्य स तथा तस्य तपस्तेजोदीप्तलेश्यस्य, तथा ज्ञानमेवोद्योतो वस्तुविषयः प्रकाशो यस्य स तथा तस्य ज्ञानोद्द्योतस्य, जगति-लोके भद्रंकल्याणं, भवत्विति शेषः, दमः-उपशमः तत्प्रधानः संघः सूर्य इव संघसूर्यः तस्यदमसंघसूर्यस्य। सम्प्रति संघस्यैवाक्षोभ्यतया समुद्ररूपकेण स्तवं चिकी ए॒राहभई धिइवेलापरि-गयस्स सज्झायजोगमगरस्स। अक्खोहस्स भगवओ, संघसमुदस्स रूंदस्स||११|| संघएव समुद्रः संघसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः। किंविष्टिस्य सत इत्याह-वृतिवेलापरिगतस्य-धृतिः-मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः सैव वेलाजलवृद्धिलक्षणा तया परिगतस्य, तथा स्वाध्याययोग एव कर्मविदारणक्षमशक्ति-समन्वित तया मकर इव मकरो यस्मिन् सतथा तस्य, तथा अक्षोभ्यस्य परीषहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य भगवतः समप्रैश्वर्यरूपयशोधर्मप्रयत्नश्रीसम्भारसमन्वितस्य रून्द्रस्यविस्तीर्णस्य। भूयोऽपि संघस्यैव सदास्थायितया मेरुरूपकेण स्तवमाहसम्मईसणवरवइर-दढरूढगाढावगाएपेठस्स। धम्मवररयणमंडिअ-चामीयरमेहलागस्स।।१२। नियमूसियकणयसिला-यलुजलजलंतचित्तकूडस्स। नंदणवणमणहरसुरभि-सीलगंधुद्धमायस्स / / 13 / / जीवदयासुंदरकं-दरूद्दरियमुणिवरमइंदइन्नस्स। हेउसयधाउपगलं-तरयणदित्तोसहिगुहस्स!|१४|| संवरजलपगलियउ-ज्झरपविरायमाणहारस्स। सावगजणपउररवं-तमोरनचंतकुहरस्स / / 15 / / विणयनयपवरमुणिवर-फुरंतविज्जुज्जलंतसिहरस्स। विविहगुणकप्परूक्खग-फलभरकुसुमाउलवणस्स / / 16 / / नाणवररयणदिप्पं-तकंतवेरूलियविमलचूलस्स। वंदामि विणयपणओ, संघमहामंदरगिरिस्स।।१७।। गाथाषट्केन सम्बन्धः / सम्यक्-अविपरीतं दर्शन-तत्त्वार्थश्रद्धान सम्यगदर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वाद्वरवजमिव सम्यग्दर्शनवरवजं तदेव दृढं निष्प्रकम्पं रूढ़चिरप्ररूढं गार्दनिबिडमवगाढं निमग्र पीढं प्रथमभूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज़मयं पीठ दृढादिविशेषणं सुप्रतीतम्, संघमन्दरगिरिपक्षे तु सम्बग्दर्शन वरवज्रमयं पीठ दृढ शङ्कादिशुषिररहिततया परतीर्थिकवासनाजलेना