________________ संघ 76 - अभिधानराजेन्द्रः - भाग 7 संघ प्यन्तरत्वनरेन्द्रत्वसद्भावे तल्लाभात् / 'अविसुद्धो तो महामउडो' त्ति अविशुद्ध एव र मुकुटस्तत्प्राप्तावनुरागादिभिर्मानादिवृद्धिहेतुत्वेन महाकापचयनिबन्धनत्वात् / ततो महामुकुटः संघमुकुटापेक्षया सर्वप्रकारैरशुद्ध एवेत्यर्थः / / 117 // संथा० / सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन संघस्य नगररूपकेण स्तवमाहगुणभवणगहणसुयरयण-भरियदंसणविसुद्धत्थागा। संघनगर ! भदंते, अक्खडचरित्तपागारा ||4|| 'गुणभवणे' त्यादि-गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामगे चारित्राशब्देन गृद्यमाणत्वात्, ते चोत्तरगुणाः-पिण्डविशुद्ध्यादयो, यत उक्तम्- “पिंडरस जा विसोही, समिईओ भावणा तवो दुविहो / पडिमा अभिग्गहाऽवि य, उत्तरगुण मो वियाणाहि॥१॥" त एव भवनानि तैर्गहनगुपिलं प्रचुरल्यादुत्तरगुणानां गुणभवन-गहनं, संघनगरमभिसम्बध्यते, तस्याऽऽमन्त्रण हे गुणभवनगहन!, तथा श्रुतरन्तभृत ! श्रुतान्येव आचारादीनि निरूपमसुखहेतत्वाद्रत्नानि श्रुतरत्नानि तैर्भूतपूरितं तस्यामन्त्रण हे श्रुतरत्नभृत! तथा दर्शनविशुद्धरथ्याक! इह दर्शनप्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच्च क्षायिकादिभेदात् त्रिधा, तद्यथा-क्षायिक, क्षायोपशमिकमौपशमिकं च / उक्तं च-"सम्मत्तं पि य तिविहं, खओवसमियं तहोवसमियं च। खइयं चे" ति तत्र त्रिविधस्याऽपि दर्शनमोहनी-यस्य क्षयेणनिर्मूलमपगमेन निर्वृत्तं क्षायिकम्, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निवृत्त क्षायोपशमिकम्, उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशमः तेन निवृत्तमौपशमिकम् आहऔपशमिकक्षायापशमिकयोःकः प्रतिविशेषः? उच्यते क्षायोपशमिके तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्तिन त्वौपशमिके इति। दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशुद्धरथ्या यस्य तत्तथा, तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक ! 'सेर्लोपः सम्बोधने हस्वो वे ति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना (र्थत्वा) त् दीर्घ निर्देशः, यथा “गोयमा!" इत्यत्र, संघः- चातुर्वर्णः श्रमणादिसंघातः स नगरमिव संघनगरं 'व्याघ्रादिभिगौणैस्तदनुक्ताविति' समासो; यथा पुरूषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे संघनगर ! भद्रकल्याणं तेतब भवतु, अखण्डचारित्रप्राकार ! चारित्रं-मूलगुणाः अखण्डम्अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा- 'मांसादिषु चेति' प्राकृतलक्षणत्यात् चारित्रशब्दस्यादौ हस्वः, तस्यामन्त्रणं हे अखण्डचारित्रप्राकारः ! दीर्घत्वं प्रागिव। भूयोऽपि संघस्यैव संसारोच्छेदकारित्वाच्चक्ररूपकेण - स्तवमाहसंजमतवतुंबारय-स्स नमो सम्मत्तपारियलस्स। अप्पडिचक्कस्स जओ,होउसया संघचक्कस्स।।५।। संयमः-सप्तदशप्रकारः, यदुक्तम्- “पञ्चाश्रवाद्विरमण, पञ्चेन्द्रियनिग्रहः / कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः / / 1 / " तपो द्विधाबाह्यम्, आभ्यन्तरं च। तत्रबाह्यं षड्डिधम्, यदुक्तम् “अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः / कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् / / 1 / / " आभ्यन्तरमपि षोढा, यत उक्तम्-“प्रायश्चित्तध्याने, वैयावृत्त्यविनयावथोत्सर्गः / स्वाध्याय इति तपः षट्-प्रकारमाभ्यन्तरं भवति / / 2 / / " सयमश्चतपासि च संयमतपांसि तुम्बंच अराश्च-अरकाः तुम्बाराः संयमतपस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तरमै संयमतपस्तुम्बाराय नमः / सूत्रे षष्ठी प्राकृतलक्षणाच्चतुर्थ्यर्थे वेदितव्या। उक्तं च"छडिविहत्तीए, भन्नइ चउत्थी' तथा- 'सम्मत्तपारियलस्स' सम्यक्त्वमेव पारियल्लबाह्यपृष्टस्य बाह्याभ्रमिर्यस्य तत्तथा तस्मै नमः, गाथार्द्ध व्याख्यातम्। तथा न विद्यते प्रतिअनुरूपं समानं चक्रं यस्य तदप्रतिचक्र, चरकादिचक्ररसमानमित्यर्थः तस्य जयो भवतु सदासर्वकालं, संघश्चक्रमिव संघचक्रं तस्य। सम्प्रति संघस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराहभई सीलपडागु-सियस्स तवनियमतुरयजुत्तस्स। संघरहस्स भगवओ, सज्झायसुनंदिघोसस्स॥६।। भद्र-कल्याणं संघरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सत इत्याह- शीलोच्छ्रितपताकस्य शीलमेवअष्टादशशीलागसहस्ररूपमुच्छ्रिता पताका यस्य स तथा, भार्योढादेराकृतिगणतया तन्मध्यपाटाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथा कथञ्चित्पूर्वर्षिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, तपोनियमतुरङ्गयुक्तस्य- तपःसंयमाश्वयुक्तस्य, तथा स्वाध्यायः-पञ्चविधः,तद्यथा-वाचना प्रच्छना परावर्तना अनुप्रक्षा धर्मकथा च, स्वाध्याय एव सन्-शोभनो नन्दिघोषो द्वादशविधतूर्यनिनादो यस्य स तथा तस्य, 'सज्झायसुनेमिघोसरसे' ति क्वचित्पाठः, तत्र-स्वाध्यायः एव शोभनो नेमिघोषो यस्येति द्रष्टव्यम्,इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकागत्वख्यापनार्थम् / अस्ति चायं न्यायो यदुत-सामान्योक्तावपि प्राधान्यख्यापनार्थ विशेषाभिधानं क्रियते, यथा-ब्राह्यणा आयाता वशिष्ठोऽध्यायात इति, एवमन्यत्रापि यथायोग परिभावनीयम्। संघस्यैव लोकमध्यवर्तिनोऽपि लोकधर्मासंश्लेषतः पद्मरूप केण स्तवं प्रतिपादयितुमाहकम्मरयजलोहविणि-ग्गयस्स सुयरयणदीहनालस्स / पंचमहव्वयथिरक-नियस्स गुणकेसरालस्स / / 7 / / सावगजणमहुअरिपरि-वुडस्स जिणसूरतेयबुद्धस्स। संघपउमस्स भई, समणगणसहस्सपत्तस्स / / 8 / / कर्मज्ञानावरणाद्यष्ट प्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते, कर्मरज एव जन्मकारणत्वाजलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौघविनिर्गतः तस्य, इह पा जलौघाद्विनिर्गतं सुप्रतीतं, जलौघस्योपरि तस्य व्यवस्थितत्वात्, संघस्तु कर्मरजोजलौघाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च-अविर