________________ सुसमसुसमा 1014 - अभिधानराजेन्द्रः - भाग 7 सुसमसुसमा क्षा, ता अष्ट यूका, अष्टौ यू का एकं यवमध्यम् , अष्टौ यवमध्यानि, एकमङ्गुलम्, एतेनाङ्गुलप्रमाणेनेति न तुन्यूनाधिकतया, षडङ्गुलानि पादः-पादस्य मध्यतलप्रदेशः, पादैकदेशत्वात्, पादः, अथवा-पादो हस्तचतुर्थांशः, द्वादशाङ्गुलानि वितस्तिः सुखावबोधार्थमेवमुपन्यसः, लाघवार्थं तुद्वौ पादौ वितस्तिरिति पर्यवसितोऽर्थः, अन्यथा पादसंज्ञाया नैरर्थक्यापत्तिः, एवमग्रेऽपि चतुर्विशतिरङ्गुलानि रनिरिति सामयिकी परिभाषा, नामकोशादौ तु बद्धमुष्टिर्हस्तो रत्नि' रिति, अष्टचत्वारिंशद गुलानि कुक्षिः, षण्णवतिरङ्गुलानि एकोऽक्ष इति वा-शकटावयवविशेषः दण्ड इति वा धनुरिति वायुगमितिवा-वोढस्कन्धकाष्टं मुसलमिति वा नालिका इति वा-यष्टिविशेषः, अत्रच धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यत्रोपयोगीनीति, एतेन धनुः प्रमाणेन द्वे धनुःसहस्रे गव्यूतं, चत्वारि गव्यूतानियोजनम्। एतेन योजनप्रमाणेन यः पल्यो-धान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविप्कम्भाभ्यां समवृत्तत्वात् प्रत्येकमुत्सेधागुलनिष्पन्नयोजनंयोजनमूर्वोचत्वेन, तद्योजनं त्रिगुणं सविशेष परिरयेण, वृत्तपरिधेः किञ्चिन्न्यूनषड्भागाधिकत्रिगुणत्वात्, स पल्यः ‘एगाहिअबेहिअ' त्ति षष्ठीबहुवचनलोपादेकाहिकह्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना-सप्तदिवसोद्रतपर्यन्तानां भृतो बालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाला यावत्प्रमाण वालाग्रकोटय उत्तिष्टन्ति ता पूकाहिक्यः, द्वारभ्यां तु यास्ता ह्याहिक्यः, त्रिभिस्तु त्र्याहिक्यः, कथंभूता इत्याह-संमृष्ट--आकर्णपूरितः सन्निवितः-प्रचयविशेषान्निविडीकृतः वालानामग्रकोटयः- प्रकृष्टा विभागा इत्यर्थः, यद्वा-वालाग्रकोटीनामिति वालेषुविदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽग्राणि=ष्ठानि वालाग्राणि, कुरुनररोमाणि तेषां कोटयः अनेकाः कोटाकोटिप्रमुखाः सङ्ख्याः "स्त्रीणां शतानि शतशो जनयन्तिपुत्रान्" इत्यादिवत्, तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषायां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भूत इति सुखावबोधाऽक्षरयोजना कार्या इति, वालाग्रसंख्यानयनोपायस्त्वयं-देवकुरुत्तरकुरुनरवालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्रमिति, यत्रैकं हरिवर्षम्यकवालाग्रं तत्र कुरुनरवालाग्राण्यष्ट तिष्ठिन्ति, यत्र चैकं हैमवतहरण्यवतनरवालाग्रं तत्र कुरुनरबालाग्राणि चतुःषष्ठिः, एवं विदेहनरवालाग्रे५१२ लिक्षायां 4066 यूकायां 32768 यवमध्ये 262144 अङ्गुलेऽवतः 2067152, अत्राडगुलमुत्सेधाड्गुलं ग्राह्यम, आत्माङ्गुलस्यानियतत्वात, प्रमाणागुलस्यातिमात्र-त्वात् अत्र सर्वत्र पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुण-कारेणेयं संख्या समुत्तिष्ठति, अथायं राशिश्चतुर्विशतिगुणाहस्तश्चतुर्विशत्यङ्गुलमानत्वादस्य, स चैवम्-५०३३१६४८ नामतः पञ्च कोटयस्त्रीणि लक्षाणि एकत्रिंशत्सहस्राणि षट्शतान्यष्टचत्वारिंशदधिकानि, एष राशिश्वतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, अङ्कतः 201326562 नामतो विंशतिः कोटशस्त्रयोदश लक्षाणि षड्वंशः सहस्राणि पञ्च शतानि द्विनवेत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानत्वादस्य, अङ्कतो यथा-४०२६५३१८४००० नामतः चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिक कोटीनां एकत्रिंशल्लक्षाणि चतुरशीतिः सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुःक्रोशप्रमाणत्वादस्य, अङ्कतः 1610612736000 नामतः एकं लक्षमेकषष्टिः सहस्राण्येकषष्ट्यधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षट्त्रिंश- त्सहस्राणि, शूचिगणनयैवेदंगणितंबोध्यम्, अयं शूचीराशिरनेनैव गुणितः प्रतरसमचतुरस्रयोजने, शूच्या शूचीगुणिताया एव प्रतरत्वात्, अङ्कतः 256407338536540536600000 नामतो यथा पञ्चविंशतिः शतानि चतुर्नवत्यधिकानि कोटाकीटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यिष्ट शतानि त्रिपञ्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिलक्षाणि चत्वारिंशत्सहस्राणि पञ्च शतान्येकोनसप्तत्यधिकानि कोटीनां तथा षष्टिलक्षाणि, अयं राशिभूयः पूर्वराशिना गुणितो घनरूपो रोमराशिः स्यात्, तथाहि-अड्कतः 4178047632588158427784544256000000000 नामतः एकचत्वारिंशत्कोठ्योऽष्टसप्ततिर्लक्षाणि चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षायण्यष्टाशीतिः सहस्राण्येक शतमष्टपञ्चाशदधिकं कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्ततिः सहस्राण्यष्ट शतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा चतुश्चत्वारिंशल्लक्षाणि पञ्चविंशतिः सहस्राणि षट् शतानि कोटीनामिति / अयं च राशिः समचुरस्रघनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियेद्भागाभ्यधिकस्तेनाधिकभागपातनाथ सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुविंशत्या 24 भागे हृते लब्धम् 174085318024506601157686344000000000 अयं चैकोनविंशत्या 16 गुणितः समवृत्तघनयोजनपल्यगतोराशिर्भवतीति, सचाङ्कतोयथा 33307521042-- 4555,25421665061535000000000 अयमर्थः-यादृशैश्चतुर्विशत्या भागैः समचतुरस्रघनयोजनप्रमितपल्यगतो रोमराशिर्भवति तादृशैरेकोनविंशत्या भागैः समवृत्तघनयोजन-प्रमितपल्यगतो राशिर्भवति, ननु चतुर्विशत्या भागहरणमेकोनविंशत्यागुणनं च किमर्थम् ? उच्यते- एकयोजन-प्रमाण-वृत्तक्षेत्रस्य करणीत्यागतं योजनत्रयमेकश्च योजनषङ्भागः ३,१/सवर्णनेचजातं 16/6 एतच वृत्तपल्यपरिधिक्षेत्रम्, अनेन सह समचतुरस्रपल्यपरिधिक्षेत्रं चतुर्योजनरूपं गुण्यते-स्थापना यथा-१६/६x४/१ अनयोः 16/6 समच्छेदे 25/6 लाघवार्थ द्वयोरपिछेदापनयने जातं 16-24 किमुक्तं भवतिसमचतुरस्रपरिधि-क्षेत्रात्, वृत्तपरिधिक्षेत्रं स्थूलवृत्त्या पञ्चभागन्यूनमिति तत्क-रणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्व योजनषङ्भागस्य किञ्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः- 'ते ण' मिति प्राग्वत्, तानि वालाग्राणि न कुथ्येयुः- प्रचयविशेषाच्छुषिराभावा-द्वायोरसम्भवाचनाऽसारतां गच्छेयुरित्यर्थः, अतोन परिविध्वंसेरन् कतिपयपरि-- शाटनमप्यङ्गीकृत्य नविध्वसंगच्छेयुः अर्थवशाद्विभक्तिपरिणाम इति,तानि नागिर्दहेत्, न वायुरपहरेदतीव निचितत्वादग्निपवतावपितत्रच करोतेह १-भक्तामरस्त्रोते।