________________ सुसमसुसमा १०१३-अभिधानराजेन्द्रः - भाग 7 सुसमसुसमा तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरूत्तरकुराणं मणुस्साणं बालग्गे, अट्ठ देवकुरूत्तरकुराणं मणुस्साण बालग्गा से एगे हरिवासरम्मयवासाण मणुस्साणं बालग्गे एवं हेमवयहेरण्णवयाणं मणुस्साणं पुय्वविदेह-अबरविदेहाणं मणुस्साणं बालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूओ अट्ठ जूआओ से एगे जवमज्झे अट्ठ जवमज्झा से एगे। अंगुले एतेणं अंगुलप्पमाणेणं छ अंगुलाई पाओ बारस अंगुलाइ / विहत्थी चउबीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छण्णउइअंगुलाई से एगे अक्खे इ वा दंडे इ वा धणू इ वा जुगे | इ वा मुसले इ वा णालिआ इ वा / एतेणं धणुप्पमाणेणं दो धणुसहस्साईगाउअंचत्तारिगाउआइंजोअणं, एएणंजोअणप्पमाणेणं जे पल्ले जोअणं आयामविक्खंभेण जोयणं उड्डं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले एगाहिअबेहियतेहिअ उक्कोसेणं सत्तरत्तपरूढाणं संमढे सण्णिचिए भरिए बालग्गकोडीणं / तेणं वालग्गा णो कुत्थेबाणो परिविद्धंसेजा, णो अग्गी डहेजा, णो वाए हरेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा / तओ णं वाससए वासए एगमेग वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे णीरए पिल्लेवे णिहिए भवइ सेतं पलिओवमे। "एएसिं पल्लाणं, कोडाकोडी हवेज दसगुणिआ।तं सागरोवमस्स उ, एगस्स भवे परीमाणं // 1 // " एएणं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा? // (सू०१६x) परमाणुर्द्विविधः प्रज्ञप्तः, तद्यथा- सूक्ष्मश्च व्यावहारिकश्च / शस्वाद्यविषयत्वादिको धर्म उभयोरपीति समानकक्षताद्योतनार्थं प्रत्येकं चकारः, तत्र सूक्ष्मस्य "कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च / / 1 / " इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमति-रिच्यापरं वैशेषिकं रूपं न प्रतिषादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयतिअनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनो ये समुदयाः- त्रिचतुरादिमेलकास्तेषां याः समितयो-बहूनि मीलनानि तासां समागमेन-संयोगेनैकीभावेनेति यावत् व्यावहारिकः परमाणुरेको निष्पद्यते। इदमुक्तं भवतिनिश्चयनयो हि निर्विभाग सूक्ष्म पुद्गलं परमाणुमिच्छति, यस्त्वेतैरनेकैजीयते तं सांशत्वात् स्कन्धमेव व्यपदिशति। व्यवहारनयस्तु तदेनकसङ्घातनिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविध-स्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपिव्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः। अयं | च स्कन्धत्वात् काष्ठवत् छेदादिविषयो भवतीति वादिनं प्रत्याह-तत्र शस्त्र नक्रामति-नसञ्चरति, असिक्षुरादिधारामाप्तोऽपि स न छिद्यत न च भिद्यतेत्यर्थः, यद्यनन्तै परमाणुमिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्नशस्वच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलाता गङ्गाप्रतिश्रोतोविहन्यमानता जलकोथादिकं सर्वमपि निरस्तंमन्तव्यं; सर्वेषामपि तेषां शस्त्रत्वाविशेषात्। अत्रार्थे प्रमाणमाहशस्त्रेण सुत्तीक्ष्णेनापि छेत्तुंखड्गादिना द्विधा कर्तु मेत्तुम्- अनेकधा विदारयितुं सूच्यादिना वस्त्रादिवद्वा सच्छिद्रं कर्तुं, वा-विकल्पे, यंपुद्गलादिविशेषं किलेति निश्चये न शक्ताः, केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्नकवलज्ञाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदि-प्रथम प्रमाणानां-वक्ष्यमाणोच लक्षणश्लक्ष्णिकादीनामिति, एतेन श्रद्धालून प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणः प्रति प्रयोगः-अणुपरिमाणं कृचिद्विश्रान्तं तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्रच निश्रान्तं स परमाणुः, विपक्षे वस्तुनः स्थूलताऽपि नोपपद्यते, न च व्यणुकादि नार्थान्तरमिति वाच्यं, स च सिध्यन् परमनिकृष्टो निरंश एव सिध्येत्, अन्यथाऽनवस्थासर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च, ततः सिद्धः परमाणुः। ननु सिध्यतु सः सूक्ष्मत्वाच न चक्षुरादिगम्यः, परं पदनन्तैः सूक्ष्मः परमाणुभिरेको व्यावहारिकः परमाणुरारभ्यतेसचक्षुराद्यगोचरः शस्त्रच्छेदाद्यगोचरश्चेति तन्मन्दम्, उच्यते-द्विविधो हिपुद्रलपरिणामः-सूक्ष्मो वादरश्च, तत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्त्यं शस्वच्छेदाद्यविषयत्वमित्यादयो धर्मा भवन्ति, तेन न काप्यनुपपत्तिः, श्रूयते चागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभः प्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृतो भेदः, दृश्यते च लोकेऽपि पिञ्जितरुतपुजलोहपिण्डयोः परिमाणभेदः, इत्यले विस्तरेणेति। अथ प्रमाणान्तरलक्षणार्थमाह-अनन्तानांव्यावहारिकपरमाणूनां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयने श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्षिणका उच्लक्ष्ण-श्लक्षिणका, इतिरुपदर्शन, वा उत्तरापेक्षया समुचये, एवं श्लश्ण-ग्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम् / एते च लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निर्विशेषितमप्युक्तम्'सण्हसहिआइवे' त्यादि, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूवरण्यपेक्षया, त्वष्टभागप्रमाणत्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊवधिस्तिर्य-क्चलनधर्मो जालप्रविष्टसूर्यप्रभा भिव्यङ्गयो रेणुरूवरणुः त्रस्यति-पौयस्त्यादि-वायुप्रेरितो गच्छतियो रेणुः सत्रसरेणु: रथगमनात्रेणुः रथगेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरुत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिभवनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टो वालाग्राणि एका लि