________________ सुयणाण 66 - अभिधानराजेन्द्रः - भाग 7 सुयणाण भावत एव, इत्यतस्तत्स्वाभाव्यात् कथयतीति तात्पर्यमितिनच भव्यानेव प्रतिबोध्यतस्तस्य राग-द्वेषौ, इति दृष्टान्तेन दर्शयति-"किं व कमलेसु' इत्यादि। से' त्ति। 'से' तस्य रवेः प्रतिबोधयतोऽपि यत्तानि कुमुदानि न विबुध्यन्त इति। तस्मात् कोऽत्राभिप्रायः ? इत्याह- 'जं बोहेत्यादि' समानादपि सूरकरपरामर्शाद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुमुदानां जायमानानि दृष्टानि, 'तो' त्ति ततो ज्ञायते- तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः- कमलान्येव बोधयतिनतु कुमुदानि, कमलान्यपिरवेः सकाशाद्बुध्यन्तेन कुमुदानि, न पुनरिह कस्यापिराग-द्वेषौ। एवं भगवतोऽपि भव्याभव्येषु योज्यमिति / दृष्टान्तान्तरमाह- 'जहवेत्यादि' उलूकादीनां रात्रिश्चराणां घूकादीनां 'सो' त्ति रविः / अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि / अत्रैवोदाहरणान्तरमाह-'मोत्तुमित्यादि' दलिके काष्ठादौ 'रूयारो' रूपकारः / इति व्याख्याता प्रथमनियुक्तिगाथा। अथ द्वितीयनियुक्तिगाथाव्याख्यानमाहतं नाणकुसुमवुट्टि, घेत्तुंबीयाइबुद्धओ सव्वं / गंथंति पवयणट्ठा, माला इव चित्तकुसुमाणं // 1111 / / 'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् / अथवा प्रयोजनान्तरमाहघेत्तुं व सुहं सुहगुणण-धारणादाउँ पुच्छिउँ चेव। मुत्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कल-कुसुमनिकुरम्बमिव ग्रथितं-सूत्रितं सद्ग्रहीतुंवाऽऽदातुं सुखं भवति। इदमुक्तं भवति-पद -- वाक्यप्रकरणा-ध्याय-प्राभृता-दिनियतक्रमस्थापितं जिनवचनमयत्नत एव ग्रहीतुं शक्यम्- 'एतावदस्य ग्रहीतम्, 'एतावच्चाद्यापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः / तथा, गुणनं च धारणा च गुणन-धारणे, ते अपिग्रथिते सूत्रे सुखं भवतः। तत्र गुणनं परावर्तनमभ्यासः, धारणा त्वविच्युतिरविस्मृतिः। तथा, दातुं प्रष्टुं च सुखमेव। भवति। तत्र दानं शिष्येभ्योऽतिसर्जनम्, प्रश्नस्तुसंशयापन्नस्य निःसंशयार्थं गुरुप्रच्छनम्। एतैः कारणैः कृतं रचितं गणधरैः / अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतम् 'इदम्' इति शेषः। इति नियुक्तिगाथार्थः / विशे०। अत्र भाष्यम्मुक्ककुसुमाण गहणा-- इयाइँ जह दुक्करं करेउं जे / गुच्छाणं तु सुहयरं, तहेव जिणवयणकुसुमाणं / / 1114|| पय-वक-पगरण-ज्झा-य-पाहुडाइनियतकमपमाणं / तवणुसरता सुहं चिय, घेप्पइ गहियं इदं गेज्झं।।१११५|| एवं गुणणं धरणं, दाणं पुच्छा य तदणुसारेणं। यथा मुत्कानां मुत्कलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि, तथा जिनवचनकुसुमानामपि द्रष्टव्यम् / अतो गणधरास्ता ग्रघ्नन्ति। 'अज्झाय' त्ति अध्ययनम्, प्राभृतं पूर्वान्तर्गतः / श्रुतविशेषः 'गहिय इदं गेज्झं' ति एतावदस्य ग्रहीतम्, एतावचाद्यापि पुरस्ताद् ग्रहीतव्यम् इत्यादि विवक्षया पदवाक्यादिक्रमेण विरचितं सत् तत्पदाद्यनुसरता सुखेनैव श्रुतं गृह्यते, एवं सुखनाद्यपि सुखं भवति। विशे०। उत्तरनियुक्तिगाथासंबन्धनार्थमाहजिणमणिइ चिय, सुत्तं गणहरकरणाम्मि को विसेसो त्थ? सो तदविक्खं भासइ, न उ वित्थरओ सुयं किंतु // 1118 // ननु 'तित्थयर भासियाई गंथंति' इत्यादिवचना-जिनभणितिरेवतीर्थकरोक्तिरेव तर्हि श्रुतम्, गणधरसूत्रीकरणे तु तत्र को विशेषः ? अत्रोच्यते-सतीर्थकरस्तदपेक्षं गणधरप्रज्ञापेक्षमेव किञ्चिदल्पं भाषते, नतुसर्वजनसाधारणं विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम्, किन्तु यद् भाषते तद्दश्यते। इति गाथार्थः / किं पुनस्तत् ? इत्याहअत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं। सासणस्स हियहाए, तओ सुत्तं पवत्तइ / / 1119 // अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम् / गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकंबह्वर्थं चेत्यर्थः, अथवा-नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति। ततः शासनस्य हितार्थ सूत्र प्रवर्तते। इति नियुक्तिगाथाक्षरार्थः / भावार्थ त्वभिधित्सुर्भाष्यकारः प्रेयं परिहारं च प्राह--- नणु अत्थोऽणमिलप्पो, स कहं भासइ न सहरूवो सो ? सहम्मि तदुक्यारो, अत्थप्पञ्चायणफलम्मि ||1120 / / आह ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः-अशब्दात्मकत्वाद्वक्तुमशक्य एव, इति कथंसतीर्थकरस्तमशब्दरूपमर्थभाषते? उच्यते-अर्थ-प्रत्यायनफले शब्दएवतदुपचारोsर्थोपचारः क्रियते / एतदुक्तं भवति-- अर्थप्रतिपादनस्य कारणभूते शब्देऽर्थोपचारं कृत्वाऽर्थं भाषत इत्युच्यत इत्यदोष इति। प्रेरकः प्राहतो सुत्तमेव भासइ, अत्थप्पञ्चायगं न नामत्थं / गणहारिणो वितं चिय, करेंति को पडिविसेसो त्थ ?||1121 / / ततस्तर्हि त्वुदक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायक भाषते, नं त्वर्थम् / गणधारिणोऽपि तदेव कुर्वन्ति, तत् को नामोभयत्र विशेषः? न कश्चिदिति। आचार्यः प्राहसो पुरिसाविक्खाए, थोवं भणइन उबारसंगाई। अत्थो तदविक्खाए, सुत्तं चिय गणहराणं तं // 1122 / / ननु प्रागेवोक्तं यत्-गणधरलक्षणपुरुषापेक्षया सतीर्थकरः 'उप्पन्नेइ वा, विगमेइवा, धुवेइवा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाऽङ्गानि / ततश्च तद् मातृकापदत्रयमात्रं शब्दरूपमति सत् तदपेक्षया द्वादशाङ्गापेक्षया तदर्थसंक्षेपरूपत्वादर्थो भण्यते गणधराणां तु गणधरापेक्षया त्वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् सूत्रम्, इति नोभयत्र समानतादोष इति।