________________ सुय ९८७-अमिधानराजेन्द्रः - भाग 7 सुय धानः शृणोति, श्रुत्वा चार्थरूपतया गृह्णाति गृहीत्वा च ईहते पूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चयार्थः, अपिशब्दात्प(ब्दःप) र्यालोचयन् किञ्चित् स्वबुद्ध्याप्युत्प्रेक्षते इति सूचनार्थः, ततः पर्यालोचनाऽनन्तरमपोहते, एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थं निश्चित स्वचेतसि विस्मृत्यभावार्थं सम्यग्धारयति करोति च सम्यग् -- यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् / तदेवं गुणा व्याख्याताः / सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाह-- 'मूय' मित्यादि, मूकमिति प्रथमता मूकं शृणुयात् किमुक्तं भवति ? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत्, ततो द्वितीये श्रवणे हुङ्कारं दद्यात्; वन्दनं कुर्यादित्यर्थः, ततस्तृतीये बाढंकारं कुर्यात्, बाढमे-वमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे तुगृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपूच्छां कुर्यात्, कथमेतदिति ? पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादितिभावः, षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, ततः सप्तमे श्रवणे परिनिष्ठा गुरुवदनुभाषते / एवं तावच्छ्रवणविधिरुक्तः ! सम्प्रति व्याख्यानविधिमभिधित्सुराह- 'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थः सूत्रार्थप्रतिपादनपरः, खलुशब्द एवकारार्थः, स चावधारणे। ततोऽयमर्थः-गुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव कर्तव्यः, माभूत्प्राथमिकविनेयानां मतिमाहः, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनियुक्तिमिश्रितं द्वितीयमनुयोगं गुरुर्विदध्यादित्याख्यातं तीर्थकरणधरैरिति भावः, तृतीयश्चानुयोगो निरवशेषः-प्रसक्तानुप्रसक्तप्रतिपादनसक्षण इत्येषः-उक्तलक्षणो विधिर्भवत्यनुयोगे व्याख्यायाम्। आह- परिनिष्ठा सप्तमे इत्युक्तं, त्रयश्चानुयोगप्रकारास्तदेतत्कथम् ? उच्यते- त्रयाणामनु-योगानामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्त वाराः श्रवणं कार्यते ततो न कश्चिद्दोषः, अथवाकञ्चिन्मन्दमतिविनयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनादिति कृतं प्रसङ्गेन। 'से त्त' मित्यादि, तदेतच्श्रुतज्ञानम् / नं०। सांप्रतं श्रुतज्ञानं व्याचिख्यासुराह-"चउदसहा वीसहा व सुयंति"। श्रुतं- श्रुतज्ञानं चतुर्दशधा चतुर्दशभेदं विंशतिधा विंशतिप्रकारं वा भवतीति / तत्र प्रथमं श्रुतस्य चतुर्दशभेदान् व्याख्यानयन्नाहअक्खर सन्नी संमं, साइअं खलु सपज्जवसियं च / गमियं अंगपविटुं, सत्त वि एए सपडिवक्खा // 6| इह श्रुतशब्दः पूर्वगाथातः संबध्यते। ततोऽक्षरश्रुतं, संज्ञिश्रुतं, सम्यच्छुतं, सादिश्रुतं, सपर्यवसितश्रुतं, गमिकश्रुतम्, अङ्ग-प्रविष्टश्रुतमित्येते सप्त / भेदाः सप्रतिपक्षाः श्रुतस्य चतुर्दश भेदा भवन्ति / तथाहि-अक्षरश्रुतप्रतिपक्षमनक्षरश्रुतम्, एवमसंज्ञिश्रुतं मिथ्याश्रुतमनादिश्रुतमपर्यवसित श्रुतमगमिकश्रुतमङ्गबाह्यश्रुतमिति। तत्राक्षरं त्रिधा संज्ञाव्यञ्जनलब्धिभेदात् / उक्त च-"तं सन्नावंजणलद्धिसान्नियं तिविहमक्खरं भणियं / सुबहुलिविभेयनिययं, सन्नक्खरमक्खरागारो॥१॥" सुबहयो या एता अष्टादश लिपयः श्रूयन्ते, तथाहि- "हंसलिवी भूयलिवी, जक्खी तह रक्खसी य बोधव्वा / उड्डी जवणि तुरुक्की, कीरी दविडी य सिंधविया // 1 // मालविणी नडिनागरि, लाडलिवी पारसी य बोधव्वा / तह अनिमित्तीय लिवी, चाणक्की मूलदेवी य॥२॥" व्यञ्जनाक्षरमकारादिहकारपर्यन्तमुच्यते / तदेतद्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतम्। लब्ध्यक्षरंतु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाक्षरोपलब्धिः / यदाह- "जो अक्खरोवलंभो, सा लद्धी तं च होइ विन्नाणं / इंदियमणोनिमित्तं, जो आवरणक्खओवसमो॥१॥" ततोऽक्षरैरभिलाप्यभावानां प्रतिपादनप्रधानं श्रुतमक्षरश्रुतम्। नन्वनभिलाप्या अपि कि केचिद्भावाः सन्ति, येनैवमुच्यतेऽभिलाप्यभावानां प्रतिपादनप्रधानं श्रुतमिति, उच्यते-सन्त्येव / यदाहुः श्रीपूज्या:"पण्णवणिजा भावा, अणंतभागो उ अणभिलप्पाणं। पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो / / 1 / / जंघउदस पुव्वधरा,छट्ठाणगया परुप्परं हुंति। तेण उ अणंतभागो, पण्णवणिज्जाए जं वुत्तं / / 2 / / अक्खरलंभेण समा, ऊणहिया हुंति मइविसेसेणं (हिं)। ते विहुमईविसेसा, सुयनाणभंतरे जाण // 3 // " अनक्षरश्रुतं श्वेडितशिरः कम्पनादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्रायपरिज्ञानम् / तथा संज्ञिश्रुतं तत्र संज्ञानं संज्ञा "उपसर्गादातः" // 5 // 3 / 110 // इत्यङ्प्रत्ययः।सा च त्रिविधा दीर्घकालिकी हेतुवादोपदेशिकी दृष्टिवादोपदेशिकी। यदाह भाष्यसुधाम्भोनिधिः"इह दीहकालिगि त्ति, सन्ना नेया जया सुदीहं पि / संभरइ भूयमेस्सं, चिंतेइ य किह णु कायव्वं ||1|| जे पुण संचिंतेउं, इट्टाणिढेसु विसयवत्थूसु / घट्टति नियतंति य, स देहपरिवालणाहेउं / / 2 / / पाणए संपयं चिय, कालंमि न यावि दीहकालं जा। ते हेउवायसन्नी, निचिट्ठा हुंति अस्सण्णी // 3 // सम्मट्टिी सन्नी, संते नाणे खओवसमियंमि। अस्सण्णी मिच्छत्तं- मि दिट्ठिवाओवएसेणं // 4 // " ततश्च संज्ञा विद्यते येषां ते संज्ञिनः परं सर्वत्राप्यागमे ये दीर्घकालिक्या संज्ञया संज्ञिनस्ते संज्ञिन उच्यन्ते, ततः संज्ञिनां श्रुतं संज्ञिश्रुतं समनस्कानां मनः सहितैरिन्द्रियैर्जनितं श्रुतं संज्ञिश्रुतमिति भावः / मनोरहितेन्द्रियजं श्रुतमसंज्ञिश्रुतम्। तथा सम्यग्दृष्टरर्हत्प्रणीतं मिथ्यादृष्टिप्रणीतं वा यथास्वरूपमवगमात् सम्यक्श्रुतं, मिथ्यादृष्टः पुनः। अर्हत्प्रणीतमितरता मिथ्याश्रुतं, यथास्वरूपमनवगमात्। आह-मिथ्यादृष्टरपि मतिश्रुतेसम्यग्दृष्टरिवतदावरणकर्मक्षयोपशमसमुद्भवेसम्यग्दृष्टरिव पृथुबुध्नोदराद्याकारं घटादिकं च संविदाते, तत् कथं मिथ्यादृष्टरज्ञाने? उच्यते-सदसद्विवेकपरिज्ञानाभावात्। तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरःसरं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीत्या, ततोघट एवायमिति यदा बूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः। घटः सन्नेवेति ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात्पररूपतामसतीमपि तत्र प्रतिपद्यते / ततः सन्तमसन्तं