________________ 986 - अमिधानराजेन्द्रः - भाग 7 सुय ज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनम्-- 'अणुपरियटिंसु' अनुपरावृत्तवन्त आसन् / इह द्वादशाङ्गं सूत्रार्थोभयभेदेन विविधं, द्वादशाङ्गमेव चाऽऽज्ञा आज्ञाप्यते जन्तुगुणो हितप्रवृत्तौ यया साऽऽज्ञेति व्युत्पत्तेः, ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा, अथार्ता, उभयाज्ञाच।। सम्प्रति अमूषामाज्ञानां विराधनाश्चिन्त्यन्ते-तत्र यदाऽभिनिवेशवशतो- | ऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवतोऽन्यथा द्वादशाङ्गार्थं प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वाद्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया। अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनम् आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाङ्गं विराधयति, तथा चाह चूर्णिकृत्-'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणो हियोवएसवयणं आणा, तमन्नहा आयरंतेण गणिपिडगं विराहियं भवइ' त्ति / तदेवमतीते काले विराधनाफलमुपदर्थ्य सम्प्रति वर्तमानकाले दर्शयति- 'इच्चेइय' - मित्यादि; सुगमं नवरं 'परित्ता' इति परिमिता नत्वनन्ता असङ्घयेया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां सङ्ख्येयत्वात्, 'अणुपरियट्टति' त्ति अनुपरावर्तन्ते-- भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति- 'इचेइय, मित्यादि, इदमपि पाठसिद्धं, नवरं 'परियट्टिस्संति' त्ति अनुपरावर्तिष्यन्ते-पर्यटिष्यन्तीत्यर्थः, तदेवं विराधनाफलं त्रैकालिकमुपदर्थ्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति-'इच्चेइय' मित्यादि, सुगमं नवरं 'वीइवइंसुत्तिव्यतिक्रान्तवन्तः संसारकान्तारमुल्लवय; मुक्तिमवाप्ता इत्यर्थः / 'वीइवइस्संति' ति व्यतिक्रमिष्यन्ति, एतच त्रैकालिक विराधनाफलमाराधनाफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह- 'इचेइय, मित्यादि, इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति, भावः, सदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यचिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यम्, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूत् भवति भविष्यति चेति / एवं त्रिकालावस्थायित्वात् ध्रुवं मेर्वादिवत्, ध्रुवत्वादेव सदैवजीयादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव च शाश्वतं- शश्वद्भवनस्वभावं शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरीकहद इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्ती त्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तरादहिः समुद्रवत्, अव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत्, एवं च सदाऽय- | स्थानेन चिन्त्यमानं नित्यमाकाशवत्, साम्प्रतमत्रैव दृष्टान्तमाह-- 'से जहानामे' त्यादि, तद्यथानाम पञ्चास्तिकायाः- धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत्, ‘एवमेव त्यादि निगमनं निगदसिद्धं, 'से समासओ' इत्यादि, तद् द्वादशाङ्ग समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथाद्रव्यतः क्षेत्रतः कालतो भावतश्च। तत्थ दव्वओणं सुअनाणी उववत्ते सव्वदव्वाइंजाणइपासइ, खित्तओणंसुअनाणी उवउत्ते सव्वं खेत्तं जाणइपासइ, कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावओ णं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ। (सू०५७४) तत्र द्रव्यतो 'ण' मिति वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह- ननु पश्यतीति कथं? न हि श्रुतज्ञानि श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैष दोषः, उपमाया अत्र विवक्षितत्वात्, पश्यतीव पश्यति, तथाहि-मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्येभ्य आलिख्य दर्शयति ततस्तेषां श्रोतृणामेवं बुद्धिरुपजायते भगवानेष गणी साक्षात्पश्यन्निव व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयम्, ततो न कश्चिद्घोषः। अन्येतुन पश्यतीति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादि-श्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसम्भवात्, तदितरे तुये श्रुतज्ञानिनस्ते सर्वद्रव्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्याणि जानन्ति केचिन्नेति भावः। इत्थम्भूता च भजमा मतिवैचित्र्याद्वेदितव्या, आह चचूर्णिकृत्-"आरओ पुण जे सुयनाणी ते सव्वदव्वनाणपासणासु भइया, साय भयणा मइविसेसओ जाणियव्व त्ति" / / संप्रति संग्रहगाथामाह"अक्खर सन्नी सम्म, साइअंखलु सपज्जवसिअंच। गमिअं अंगपविठं, सत्त वि एए सपडिवक्खा // 18 // सुस्सूसइ१ पडिपुच्छइ 2, सुणेइ 3 गिण्हइ अईहए यावि५। तत्तो अपोहए वा 6, धारेइ 7 करेइ वा सम्म 8 // 183|| मूअं हुंकारं वा, बाढकार पडिपुच्छ वीमंसा। तत्तो पसंगपारा-यणं च परिणि सत्तमए॥१८४|| सुत्तत्थो खलु पढमो, वीओ निजुत्तिमीसिओ भणिओ। तइओय निरविसेसो, एस विही होइ अणुओगे // 18 // " से तं अंगपविटं / से तं सुअनाणं। 'अक्खरसन्नी' त्यादि, गतार्था / नवरं सप्ताप्येते पक्षाः सप्रतिपक्षाः, ते चैवम्- अक्षरश्रुतमनक्षरश्रुतमित्यादि (नं०) किमुक्तं भवति ? यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति। बुद्धिगुणैरष्टभिरित्युक्तम्, ततस्तानेव बुद्धिगुणानाह–'सुस्सूसई त्यादि, पूर्व तावत्शुश्रूषते-विनययुक्तो गुरुवंदनारविन्दाद्विनिर्गच्छद्वचनं श्रातुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनःप्रह्लादयन् पृच्छति, पृष्ठे च सति यद् गुरुः कथयति तत्सम्यक्व्याक्षेपपरिहारेण साव