________________ सुय १८८-अभिधानराजेन्द्रः - भाग 7 सुय प्रतिपद्यतेऽसन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञानं मिथ्यादृष्टर्भतिश्रुते। इतश्च ते मिथ्यादृष्टरज्ञाने, भवहेतुत्वात्। तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके ततो दीर्घतरसंसारपथप्रवर्तिनी। तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत्। तथाहिउन्मत्तकविकल्पावस्त्वनपेक्ष्यैव यथाकथंचित् प्रवर्तन्ते। यद्यपि च ते क्वचिद्यथावस्थितवस्तु-संवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्तमानत्वात् परमार्थतोऽपरमार्थिकाः। तथा मिथ्यादृष्टीनां मतिश्रुते यथा-वद्वस्त्वविचार्यव प्रवर्तेते, ततो यद्यपि ते क्वचिद्रसोऽयं स्पर्शोऽयमित्यादाववधारणाध्यवसायाभावे संवादिनी, तथापिनते स्याद्वादमुद्रापरिभावनातस्तथा प्रवृत्ते, किंतु यथाकथञ्चित्, अतस्ते अज्ञाने / तथा ज्ञानफलाभावात्, ज्ञानस्य हि फलं हेयस्य हानिरुपादेयस्य चोपादानं, न च संसारात्परं किंचन हेयमस्ति, न च मोक्षात्परं किंचिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च तत्त्वतो ज्ञानस्य फलम्। तथाचाह भगवानुमास्वातिवाचकः-"ज्ञानस्य फलं विरति-रिति" / सा च मिथ्यादृष्टनास्तीति ज्ञानफलाभावादज्ञाने मिथ्यादृष्टर्मतिश्रुते। यदाह भाष्यसुधाम्भोनिधिः"सदसदविसेसणाओ, भवहेउ जहिच्छिओवलंभाओ / नाणफलाभावओ, मिच्छद्दिविस्स अन्नाणं // 1 // " इति / तथा- "साइयं, सपज्जवसियं, अणाइयं, अपञ्जवसियं, इचेयदुवालसंगवुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं, अवुच्छित्तिनतट्ठयाए अणाइयं अपज्जवसियं, तं सामासओ चउव्विहं पन्नत्तं, तं जहा- दव्वओ खित्तओ, कालओ, भावओ, दव्वओणं संमसुयं एगपुरिसंपडुच साइयं सपज्जवसियं, बहवे पुरिसे पड्य अणाइयं अपज्जवसियं, खित्तओणं पंच भरहाइपंच एरवयाई पडुच्च साइयंसपञ्जवसियं, पंच महाविदेहाई पडुच्च अणाइयं अपज्जवसियं, कालओ णं उस्सप्पिणिं अवसप्पिणिं च पडुच्च साइयं सपज्जवसियं नोउस्सप्पिणिं नोअवसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं"। नोउत्सर्पिणी नोअवसर्पिणीचेति कालो महाविदेहेषु ज्ञेयस्तत्रोत्सर्पिण्यवसर्पिणीलक्षणकालाभावात्। "भावाओ णं जे जया जिणपन्नता भावा आघविजंति पण्णविजंति परूविजंति दंसिजंति निदंसिजंति, ते तया पडुच्च साइयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच अणाइयं अपज्जवसियं / अहवा भवसिद्धियस्स सुयं साइयं सपञ्जवसियं" केवलज्ञानोत्पत्तौ तदभावात्, "नटुंमि उ छाउमथिए नाणे" इति वचनात् / "अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं" / इह च सामान्यतः श्रुतशब्देन श्रुतज्ञानं श्रुताज्ञानं चोच्यते। यदाह-"अविसेसियं सुयं सुयनाणं सुयअन्नाणं च"। तथा गमाः सदृशपाठास्ते विद्यन्ते यत्र तद्गमिकत्, "अतोऽनेकस्वराद्" 7-2-6 इति (सूत्रेण) इकप्रत्ययः तत् प्रायो दृष्टिवादगतम् / आगमिकमसदृशाक्षरालापकं तत् प्रायः कालिकश्रुतगतम्। कर्म०। परिकाम, सुत्तपुव्वा-णुओगपुव्वगयचूलिया एवं / पण दिहिवायभेया, चउदस पुव्वाइँ पुव्वगयं // 3 // उप्पाय पयकोडी, अग्गाणीयंमि छंनवइलक्खा। वि (वी)रियपवाए अच्छि-प्पवाइ लक्खा सयरिसट्ठी // 4 // एगपऊणा कोडी, पयाण नाणप्पवायपुव्वंमि। सन्चप्पवायपुव्वे, एगा पयकोडि छच्च पया॥५|| छव्वीस पयकोडी, पुव्वे आयप्पकायनामंमि। कम्मप्पवायपुव्वे, पयकोडी असिइलक्खजुया॥६।। पचक्खाणभिहाणे, पुव्वे चुलसीइ पयसंयसहस्सा। दसपयसहस्सजुया, पयकोडिविजापवायम्मि // 7 // कल्लाणनामधिजे, पुव्वम्मि पयाण कोडिछव्वीसा। छप्पन्नलक्खकोडी, पयाण पाणाउपुव्वंमि॥८॥ किरियाविसालपुव्ये, नव पयकोडी उ बिंति समयविऊ। सिरिलोकबिन्दुसारे, सडुदुवालस य पयलक्खा // 6 // " अङ्गबाह्यं श्रुतमावश्यकदशवैकालिकादि। इति व्याख्यातं चतुर्दशधा, श्रुतम्। संप्रति विंशतिधा श्रुतं व्याख्यानयन्नाहपज्जयअक्खर पयसं-घाया पडिवत्ति तह य अणुओगो। पाहुडपाहुडपाहुड-वत्थूपुव्वा य ससमासा / / 7 / / पर्यायश्चाक्षरं च पदं च संघातश्च पर्यायाक्षग्पदसंघाताः 'पडिवत्ति' त्ति प्रतिपत्ति। प्राकृतत्वाल्लुप्तविभक्तिको निर्देशः। तथा चानुयोगोऽनुयोगद्वारलक्षणः, प्राभृतप्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्राभृतप्राभृतवस्तुपूर्वाणि / प्राकृतत्वाल्लिङ्गव्यत्ययः / यदाह पाणिनिः स्वप्राकृतलक्षणे "लिङ्ग व्यभिचार्यपि" 'चः' समुच्चये। एते पर्यायादयः श्रुतस्य दश भेदाः / कथंभूता इत्याह-'ससमास' त्ति समासः संक्षेपो, मीलक इत्यर्थः, सह समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं संबन्धः। तथाहि, पर्यायः पर्यायसमासः, अक्षरमक्षरसमासः, पदं पदसमासः, संघातः संघातसमासः, प्रतिपत्तिः प्रतिपत्तिसमासः, अनुयोगोऽनुयोगसमासः,प्राभृतप्राभृतं प्राभृतप्राभृतसमासः, प्राभृतं प्राभृतसमासः, वस्तु वस्तुसमासः पूर्व पूर्वसमासः, इति विंशतिधा श्रुतं भवतीति गाथाक्षारार्थः / भावार्थस्त्वयम्-पर्यायो ज्ञानस्यांशो विभागः परिच्छेद इति पर्यायाः। तत्रैको ज्ञानांशः पर्यायोऽनेके तु ज्ञानांशाः पर्यायसमासः। एतदुक्तं भवति-लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत् सर्वजधन्यं श्रुतमावं तस्मादन्यत्र जीवान्तरे य एकश्रुतज्ञानांशो विभागपरिच्छेदरूपो वर्धते स पर्यायः / / 1 / / ये तु व्यादयः श्रुतज्ञानविभागपरिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः // 2 // आकारादिलब्ध्यक्षराणा मन्यतरदक्षरम् // 3 // तेषामेव द्वयादिसमुदायोऽक्षरसमासः // 4 // पदं तु अर्थपरिसमाप्तिः पदमित्याधुक्तिसद्भावेऽपि येन केनचित्पदेनाष्टादशपदसहस्रादिप्रमाणाआधारादिग्रन्था गीयन्तेतदिह गृह्यते, तस्यैव द्वादशाग-- श्रुतपरिमाणेऽधिकृतत्वात्, श्रुतभेदानामेव चेह प्रस्तुतत्वात्, तस्य च पदस्य तथाविधानायाभावात्प्रमाणं न ज्ञायते, तत्रैकं पदं पदमुच्यते॥५॥ व्यादिप दसमुदायस्तु पदसमासः॥६।। 'गइइंदिए य काए' इत्यादिगाथाप्रतिपादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नर