________________ सुय 184 - अभिधानराजेन्द्रः - भाग 7 आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसंख्यानि, एवं मध्यमतीर्थकृतामपि संख्येयानि प्रकीर्णकसहस्राणि भावनीयानि भगवतस्तु बर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दश सहस्राणि, अह द्वे मतेएके सूरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यम्, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपितस्मिन् तस्मिन् ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः / तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतद्ग्रन्था अतत्कालिका अपि तीर्थे वर्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदशर्यन्नाह-'अथवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः- समन्विता आसीरन् तस्य-ऋषभादेस्तावन्ति प्रकीर्णकसहस्राण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षते- इह एकैकस्य तीर्थ-कृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णक-कारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् स्यादेतत्- प्रत्येकबुद्धानां शिष्यभावो विरुध्यते तदेतदसमीचीनं, यतः प्रव्राजक्राचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः / तथा च तेषां ग्रन्थः- "इह तित्थे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणतणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भाणियव्यं, कम्हा ? जम्हा पइणगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरई, (इति) भणियं 'पत्तेयबुद्धा वि तत्तिया चेव' त्ति चोयग आह'नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए, आयरिओ आह तित्थयरपणीयसासणपडिवन्नत्तणओ तस्सीसा हवंति'' ति, अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभि-धानं, नतुनियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत्तं तदेतत्कालिकम् / नं०। (बद्धमबद्धं चेति द्विविधं श्रुतम् 'करण' शब्दे तृतीयभागे 368 पृष्ठे गतम्।) तदेव निरूपितं चतुर्दशविधमपि श्रुतमर्थतः। अथ कियां स्तद्विषयः? इति निरूपयितुमाह -- उवउत्तो सुयनाणी, सव्वं दवाइँ जाणइ जहत्थं / पासइ य केइ सो पुण, तमचक्खुईसणेणं ति / / 553|| उपयुक्तो-दत्तोपयोगः श्रुतज्ञानी सर्व द्रव्यादि यथार्थ-यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति- द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्रं लोकाऽलोकाकार, कालमतीतादिरूपं, भावानौदायिकादीन जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा दर्शनेन पश्यति, तस्य तद्भवात्यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहकम्, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि ह्यर्थविकल्पना वस्थायान्तर्जल्पाकारत्वाद् विशेषमेव गृह्णातिन सामान्यमिति भावः। . तथा चनन्दिसूत्रम्-"तंसमासओ चउव्विहंपण्णत्तं, तंजहा-दव्वओ, स्वत्तओ, कालओ, भावओ, दव्वओ णं सुयनाणी उवउत्तो सव्वदव्वाई जाणाइन पासइ, एवं सव्वखेत्त, सव्वकाल, सव्वभावे जाणइन पासइ" इति / अन्ये तु नञः पाठं न मन्यन्ते / ततश्च "जाणइ पासइ" इति पठन्ति / अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यचासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेतिमन्यन्ते। इदमत्र हृदयम्-यस्य श्रुतज्ञानं तस्य मतिज्ञानमवश्यमेव भवति। मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् / तत्र किल चक्षुर्दर्शनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति। एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमा त्रमिति दर्शयन्नाह - तेसिमचक्खुद्दसण-सामण्णाओ कहं न मइनाणी। पासइ पासइ व कह,सुयनाणी किंकओ भेओ / / 554|| तेषां नञः पाठमनभ्युपगच्छता मतिज्ञानं-श्रुतज्ञानयोरिन्द्रियमनोनिमित्ततासाम्यादचक्षुर्दर्शन समानेऽपि कथं हन्त! तेनाऽचक्षुर्दर्शनेन मतिज्ञानीनपश्यति ? कथं वा तेन श्रुतज्ञानी पश्यति? यदि हि श्रुतज्ञानी तेन पश्यति तर्हि मतिज्ञान्यपि पश्यतु। अथासौ न पश्यति, तह-तरोऽपि माऽपश्यतु / ननु किंकृतोऽयं भेदो, यदचक्षदर्शने समानेऽपि तेनैकं ज्ञानं पश्यति, अपरं तु न पश्यति? स्वेच्छाभाषितत्वमात्रं विहाय नापरमत्र कारणं पश्यमि इति भावः। तस्मात् "जाणइन पासई" इति स्थितमिति। अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्तायुक्ता। ततश्च "जाणइ पासइ" इत्यपि पाठो युक्त इति दर्शयन्नाह / / मइभेयमचक्खुढे-सणं च वजित्तु पासणा भणिया। पण्णवणाए उ फुडा, तेण सुए पासणा जुत्ता / / 555 / / मतेर्भेदो मतिभेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां त्रिंशत्तमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता "जाणइ पासई" इति पाठो युक्त इत्यर्थः। (विशे०) केषुचित्तु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्यकारप्रश्लेषो दृश्यते तत्रायमर्थः-पूर्वगाथायां पासइय केइ सो पुण तमचक्खुद्दसणेण' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता प्रोक्ता सा, इत्यतोऽप्ययुक्ता। कुतः? इत्याह-येन प्रज्ञापनायां मतिभेदी, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता प्रोक्ता। अतोऽचक्षुर्दर्शनमाश्रित्याऽ-- युक्तैव श्रुतज्ञानेपश्यत्ता। ततो"जाणईनपासई" इति पाठइति स्थितम्। इयं च गाथा पूर्वटीकोकारैर्गृहीता, 'कण्ठ्या ' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोधं किञ्चिद् विवृता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति। तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम्।