________________ सुय 983 - अभिधानराजेन्द्रः - भाग 7 सुय द्यते यत्राध्ययने तद्वीतरागश्रुतं, तथा 'संलेखनाश्रुत' मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रौत्सर्गत इयं द्रव्यसंलेखना"चत्तारि विचित्ताई, विगईनिजूहियाइ चत्तारि। संवच्छरे उदोन्नि उ, एगंतरियं च आयामं॥१॥ माइविगिट्ठोय तवो, छम्मासे परिमियं च आयामं। अन्नेविय छम्मासे, होइ विगिटुं तवोकम्मं / / 2 / / वासं च कोडिसहियं, आयामं कटु आणुपुव्वीए। गिरिकंदरम्मि गंतुं, पायवगमणं अह करेइ // 3 // " भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'विहारकल्प' इति विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादिरूपा यत्र | वर्ण्यते ग्रन्थे स विहारकल्पः, तथा 'चरणविधि' रिति चरणं- चारित्रं तस्य विधिर्यत्र वर्ण्यते स चरणविधिः, (नं०) 'महाप्रत्याख्यान' मिति / महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानम्, इह चूर्णिणकारेण कृता भावना दर्श्यते-"थेरकप्पेण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिणकप्पिया पुण विहारेणेव संलीढातहावि जहाजुत्तं संलेहणं करेत्ता निव्वाधायं सचेट्ठा चेव भवचरिमं पचक्खंति, एवं सवित्थर जत्थज्झयणे वणिज्जइ तमज्झयणं महापच्चक्खाणं' (वृहट्टीकासत्कमेतत्)- 'एवं तावदमून्य-ध्ययनानि-एतान्यध्ययनानि जहाभिहाणत्थाणिभणियाणि' 'सेत्त' मित्यादि, निगमनं, तदेतदुल्कालिकमुपलक्षणं चैतदिति उक्तमुत्कालिकं, 'से किं त' मित्यादि, अथ किं तत्कालिकं ? कालिकमनेकविधं प्रज्ञप्तं, तद्यथेत्यादि, 'उत्तराध्ययनानि' सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमून्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि'दसाओ' इत्यादि प्रायो निगदसिद्धं, निशीथ' मिति निशीथवन्निशीथम्, इदं प्रतीतमेव, तस्मात्परं यद्ग्रन्थार्थाभ्यां महत्तरं तन्महानिशीथे, तथा आवलिकाप्रविष्टानाभितरेषां वा विमानानां वा प्रविभक्तिः- प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या क्षुल्लिका विमानप्रविभक्तिः, द्वितीया महाविमानप्रविभक्तिः, तथा 'अङ्ग चूलिके' ति अङ्गस्य-आचारादेश्चूलिकाऽङ्ग चूलिका, चूलिका नाम उक्तानुक्तार्थसंग्रहात्मिका ग्रन्थपद्धतिः, तथा 'वर्गचूलिके' ति वर्गः- अध्ययनानां समूहो यथाऽन्तकृद्दशास्वष्टौ वर्गा इत्यादि तेषां चूलिका, तथा व्याख्याभगवती तस्याश्चूलिका व्याख्याधुलिका, (नं०)। तथा 'उत्थानश्रुत' मिति; उत्थानम्-उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतं, तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूर्णिणकारकृता भावना"सजेगस्स कुलस्स वा गामस्स वा नगरस्य वा रायहाणीए वा समणे कयसंकप्पे आसुरुत्तेचंडिक्किए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्थे उवउत्ते समाणे उठाणसुयज्झयणं परियट्टेइ तं च एक दो वा तिण्णि वा वारे ताहे से कुलेवा गामेवा जावरायहाणीएवा ओहयमणसंकप्पे विलवंते | दुयं दुर्यपहावेंते उद्वेइ-उव्वसतित्ति भणियं होइ' तितथा 'समुत्थानश्रुत' मिति समुपस्थानं- भूयस्तत्रैव वासंन तद्धतुः श्रुतं समुषस्थानश्रुतं, वकारलोपाच सूत्रे "समुट्ठाणसुयं" तिपाठः, तस्य चेयं भावना-"तओ समत्ते कजंतस्सेव कुलस्सवाजाव रायहाणीएवा से चेव समणे कयसंकप्पे तुटेपसन्ने पसन्नलेसे समसुहासणत्थेउवउत्तेसमाणे समुट्ठाणसुयज्झयणं परियट्टेइ, तं च एक दो तिन्नि वा वारे ताहे से कुले वा गामे वा० जाव रायहाणीए वा पहढचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छइ समुवट्ठिए-आवासइत्तिवुत्तं भवइ, सम्म उ (म्) वट्ठाणसुयं ति वत्तव्ये वकारलोवाओ समुट्ठाणसुयं ति भणियं, तहा जइ अप्पणावि पुव्वुट्टियं गामाइ भवइ तहावि जइ से समणे एवंकयसंकप्पे अज्झयणं परियट्टेइ तओ पुणरवि आवासेइ" तथा 'नागपरियावणिय' त्ति- नागाः- नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्चेयं चूर्णिकृतोपदर्शिता भावना-"जाहे तं अज्झयणं समणे निग्गथे परियट्टेइ तहि अकयसंकप्पस्स विते नागकुमारा तत्थत्था चेवतंसमणं परियाणंति-वंदंतिनमसंति बहुमाणंच करेंति, सिंगनादितकजेसु य वरदा भवंति' तथा 'निरयावलियाओ' त्ति- यत्रावलिकाप्रविष्टा इतरे च नरकावासाः- प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिस्वाभाव्यात्, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इति याः सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयस्याः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, नवरं तासामियं चूर्णिकृतोपदर्शिता भावना'सोहम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवडिंसताणि जासुवण्णिजंति तेसुकप्पवडिंसएसु विमाणेसुदेवी जाजेण तवोविसेसेण उववण्णा एवं पि वणिज्जइ ताओ कप्पवडिंसियाओ वुचंति' तथा 'पुष्पिता' इति यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः मुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्तेताः पुष्पिताउच्यन्ते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः / (नं०) 'एवमाइया' इत्यादि, कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ? तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुर्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः / इयमत्र भावना- इह भगवत ऋषभस्वामिन-श्चतुरशीतिसहस्रसंख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसंख्यानि चतुरशीतिसहस्रसंख्यान्यभवन, कथमिति चेत् ? उच्यते-इह यद्भगवदर्हदुपदिष्ट श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा-श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्तेतदपि सर्व प्रकीर्णकम्, भगवतऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा