________________ सुय 180- अभिधानराजेन्द्रः - भाग 7 सुय दशविधा समये प्रोता, तत्कथमेकैवोहसज्ञाऽत्रैषामुक्ता ? सत्यम्, वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किश्चिदिति शेषोपलक्षणार्थमेषैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति। द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते। देवनारकाणां गर्भज-तिर्यड्--मनुष्याणां च कालिकी संज्ञेति। दृष्टिवादोपदेशेन छद्मस्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते / ततश्च तेषां तेषां यच्छु तज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः / एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः; सिद्धिंगताश्च केवलिनएव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति। अत्राह परःमोत्तूण हेउ-कालिय, सम्मत्तकम, जहुत्तरविसुद्धं / किं कालिओवएसो, कीरइ आईॐ सुत्तम्मि // 525 / / नन्वविशुद्धत्वात्प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्या दृष्टिवादसंज्ञा, इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा किं कालिकसंज्ञोपदेश आदौ प्रथम सूत्रे नन्दिलक्षणे क्रियते? तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सासण्णा होइ तिहा कालियहेउ-दिविवाओवएसेण' इति। अत्रोत्तरमाहसण्णि त्ति असण्णि त्तिय, सव्वसुए कालिओवएसेणं। पायं संववहारो, कीरइ तेणाइए स कओ / / 12 / / इह सर्वस्मिन्नपि श्रुते-आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते / तेनाऽऽदौ स एव कालिकोपदेशः कृतः। इदमुक्तं भवति-यतःस्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपश्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत्पञ्चेन्द्रिय एव भवति। ततः पर्युदासाश्रयणादसंड्यप्यमनस्कसम्मूर्छनज-पञ्चेन्द्रिय एवाऽऽगमे प्रायोव्यवहियते।तदेवंभूतः संज्ञासंज्ञिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते। अतः प्रथमं स एव सूत्रे, तदनुरोधेनाऽत्र च निर्दिष्टः / इति त्रयोविंशतिगाथार्थः / विशे०। अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति।तदेवमेतत्सम्यक्त्वपञ्चकपरिग्रहात्सम्यक्श्रुतम्, मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति / विशे०। अत्राह-ननु क्रियत् सम्यक्श्रुतमेव भवति ? कियच मिथ्याश्रुतम् ? शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति ? कस्य च न ? इत्याशङ्कयाह -- चोद्दस दसय अभिन्ने, नियमा सम्मत्तसेसए भयणा। मइओहिविवजाओ, वि होइ मिच्छे न उण सेसे // 534|| चतुर्दशपूर्वेभ्यः प्रारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्-एतावच्छतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः / 'सेसए भयण' ति-शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना- विकल्पना एतच्छुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति। ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात्सम्यक्श्रुतं, मिथ्यात्वोदया मिथ्याश्रुतमपि स्यादिति भावः / मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषे- मनःपर्याय-केवलज्ञानद्रये / इदमुक्तं भवति-- मिथ्यात्वोदयाद् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तदुदयाद्, विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-केवलज्ञाने तुकदापि मिथ्यात्वोदयाद् विपर्यासंन गच्छतः, तत्सद्भावे तदुदयस्यैवाऽसंभवात् / मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः? इति एतबह मिथ्यात्वोदयसंभवाऽसंभवप्रस्तावादनुषङ्गत एवोक्तम्, प्रस्तुतं पुनरत्र सम्यग-मिथ्याश्रुतमेवेति। अत्र किल परः किंचित् प्रेरयति -- तत्तावगमसहावे, सह सम्मसुयाण को पइविसेसो ? / जह नाणदसणाणं, भेओ तुल्लेऽवबोहम्मि / / 535 / / नाणमवाय धिईओ, दसणमिटुंजहोग्गहेहाओ। तह तत्तराई सम्मं, रोइजइ जेण तं नाणं // 536 / / उभयत्रापि तत्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम्, जीवोऽपि नित्याऽनित्याद्यनेकस्वभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपः'संयमाऽऽदिभिस्तुयतो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमुच्यते, श्रुतमप्येवमाद्यभिलाषात्मकमेव, तदनयोः को विशेषः, येनोच्यते'सम्यक्त्वपरिगृहीतं सम्यक्श्रुतम्' इति ए अत्रोत्तरमाह-'जहे' त्यादि यथा वस्त्ववबोधरूपत्वे तुल्येऽपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्रुतयोरिहाऽपि कथञ्चिद्भेदः / कथं पुननिदर्शनयोरन्यत्र तावद् भेद उक्तः ? इति चेत् / इत्याह- 'नाणे' त्यादि यथाऽपायश्च धृतिश्चाऽपायधृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ज्ञानमिष्टम्, अवग्रहश्चेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद्दर्शनम्; तथाऽत्रापिजीवादितत्त्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तज्जीवादितत्त्वं रोच्यतेश्रद्धीयते तज्ज्ञानम्। अयमत्राभिप्रायः-दर्शनमोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते; तया तत्त्वश्रद्धानात्मकं जीवादितत्त्वरोचकं विशिष्ट श्रुतं जन्यते, ततस्तत् श्रुतज्ञानव्यपदेशं परिहृत्य श्रुतज्ञानसंज्ञा समासादयति / एवं च सति परो मन्यते--विशिष्टतत्वावगमस्वरूप श्रुतमेव सम्यक्त्वं, न पुनस्ततोऽतिरिक्तं किश्चिदुपलभ्यते, इति कथ