________________ सुय 676 - अभिधानराजेन्द्रः - भाग 7 सुय तुल्येऽपि मनोविषयिणां संज्ञिनामवग्रहेहादिषु यावत्स्वव-बोधापटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीर्घकालिक-संज्ञारहितानां सन्मूर्छजपञ्चेन्द्रिय-विकलेन्द्रियै-केन्द्रियाणामसंज्ञिनां न भवत्येव, क्रमशो हीनत्वादिति। तदेवं कालिकसंज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी। सांप्रतं हेतुः, निमित्तं, कारणम्, इत्यनर्थान्तरं, तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह - जे पुण संचिंतेचं, इट्ठा-णिद्वेसु विसयवत्थूसुं। वटुंति निवटृति य, सदेहपरिपालणाहेउं॥५१॥ पाएण संपए चिय, कालम्मिन याइदीहकालण्णा। ते हेउवायसण्णी, निबेट्ठा, हो ति अस्सण्णी॥५१६|| ये पुनः संचिन्त्य संचिन्त्य इष्टानिष्टषु छाया-तपा-हारा-दिविषयवस्तुषु मध्ये स्वदेहपरिपालनाहेतोरिष्टषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव,नत्वतीतानागतकालावलम्बिनः, प्रायोग्रहणात्, केचिदतीताऽनागतावलम्बिनोऽपि नातिदीर्घकालानुसारिणः, ते द्वीन्द्रियादयो हेतुवादोपदेशेन संझिनो विज्ञेयाः। तथाहिसंज्ञिनो द्वीन्द्रियादयः, संचिन्त्य संचिन्त्य हेयोपादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति / तदेवं हेतुवादिनोऽभिप्रायेण निश्चेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति। अथ दृष्टिदर्शनं सम्यक्त्वादितस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं तेन संज्ञिनम संज्ञिनं च प्ररूपयन्नाहसम्मविही सण्णी, संते नाणे खओवसमियम्मि। अस्सण्णी मिच्छत्त-म्मि दिहिवाओवएसेण // 17 // दृिष्टिवादोपदेशेन क्षायोपशमिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात्; मिथ्यादृष्टिस्त्वसंज्ञी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति। आह-यदि विशिष्टसंज्ञायुक्तत्वात्सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते? क्षायिकज्ञाने हि तस्य विशिष्टतराऽसौ प्राप्यते / ततस्तद्वृत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते'संते नाणे खओवसनियम्मि' इति ? एतदाशय पूर्वमुत्तरमाहखयनाणी किं सण्णी, न होइ होइ व खओवसमनाणी। सण्णा सरणमणागय-चिंता य न सा जिणे जम्हा / / 518 // | आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी; केवलीत्यर्थः, असौ संज्ञी किमिति न भवति ? किमर्थं च क्षायोपशमिकज्ञानी संज्ञी भवतीति / व्याख्यायते भवता? एवं परेणोक्ते सत्याह- 'सण्णेत्यादि केवली संज्ञी | न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्ता, संज्ञोच्यते, सा च जिने केवलिनो नास्तीति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यतीतत्वात् / इति क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति। पुनरपि प्रकारान्तरेणाऽऽह परःमिच्छो हियाहियविभा-गनाणसण्णासमण्णिओ कोइ। दीसइ सो किमसण्णी, सण्णा जमसोहणा तस्स // 19 // ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिताऽहितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते? इति। गुरुराह-यद्-यस्मादशोभना कुत्सिता तस्य मिथ्यादृष्टः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति। आह-ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः? इत्याह --- जह दुव्वयणमवयणं, कुच्छियसीलं असीलमसईए। भण्णइ तह नाणं पिहु, मिच्छद्दिहिस्स अण्णाणं / / 520 / / यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि, कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते; संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः। कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति? इत्याहसदसदविसेसणाओ, भवहेउजहिच्छिओवलंभाओ। नाणफलाभावाओ, मिच्छद्दिहिस्स अण्णाणं // 521 / / प्राग् व्याख्याताथैव। आह-ननु देव-नारक- गर्भजतिर्यङ्- मनुष्यलक्षयो मिथ्यादृष्टिर्दीर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेश-संज्ञाविचारेऽपि संज्ञी कस्माद् नोच्यते ? इत्याहऊहो न हेउए हे-ऊई न कालम्मि भण्णई सण्णा। जह कुच्छियत्तणाओ, तह कालो दिट्ठिवायम्मि॥५२२।। यथा ऊहः पृथिव्यादीनां संबन्धिनी; ओधमात्रसंज्ञेत्यर्थः, न 'हेउए' त्ति हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात्संज्ञा भण्यते, यथा वा 'कालम्मि' ति दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञान भण्यते; तथा 'कालो' ति दीर्घकालिक्यपि संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते / अतो नेह देवादिरपि मिथ्यादृष्टिः संज्ञीति भावः। तदेव दीर्घकालिक हेतुवाद-दृष्टिवादोपदेशेन त्रिविधां संज्ञां निरूप्य, अथैतासांमध्ये कस्य जन्तोः का भवति? इति निरूपयितुमाहपंचण्हमूहसण्णा, हेउसण्णा वेइंदियाईणं / सुर-नारय-गन्भुन्भव-जीवाणं कालिगी सण्णा / / 523|| छउमत्थाणं सण्णा, सम्महिट्ठीण होइ सुयनाणं / मइवावारविमुका, सण्णाईआ उ केवलिणो // 525|| पञ्चानां पृथिव्य-प्तेजोवायु-वनस्पतिनामूह-संज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति / आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव, अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात् कुत्सितत्वाच तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक्, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता ? सत्यम्, किन्त्वेकेन्द्रियाणामेषैवोहसंज्ञा भवति, नतुहेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः / एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा प्रागेवोक्तमिति। भवत्वेवम्, तथाऽप्येकेन्द्रियाणामाहार-क्रोधादिका संज्ञा