________________ सुय 978- अभिधानराजेन्द्रः - भाग 7 सुय अथ संज्ञिश्रुतमभिधित्सुराहसण्णिस्स सुयं जंतं, सण्णिसुयं सोय जस्स सासण्णा। होइ तिहा कालियहे-उदिहिवाओवएसेणं // 504|| संज्ञिश्रुतं तावत्तदेवाऽभिधीयते यत् संज्ञिनः संबन्धिा सोऽपि संज्ञीस एव यस्याऽसौ संज्ञा समस्ति। सा च संज्ञा त्रिविधा भवति-दीर्घशब्दलोपा दीर्घकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति। अत्र परः प्राहजइ सण्णासंबंधे-ण सण्णिणो, तेण सण्णिणो सवे। एगिदियाइयाण वि, जंसण्णा दसविहा भणिया // 50 // संज्ञा विद्यतेयेषांतेसंज्ञिनः, इत्येवं संज्ञासंबन्धाद्यदि संज्ञिन इष्यन्ते तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः प्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः इत्येव-मतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा"एगिदियाणं भंते ! कइविहा सण्णा पन्नत्ता ? गोयमा ! दसविहा, तं जहा-- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ऑहसण्णा, लोगस / एवंद्वीन्द्रियादीनामपि वाच्यम्। तत् के नामेत्थमसंज्ञिनः ? प्रोक्ताश्चैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् ? इति। अत्र परिहारमाह - थोवा न सोहणा विय, जसा तो नाहि कीरए इहई। करिसावणेण धणवं, न रूववं मुत्तिमेत्तेण / / 506 / / जइ बहुदव्वो धणवं, पसत्थरूवो अरूव होइ। महइ सोहणाए य, तह सण्णी नाणसण्णाए।५०७।। यद्-यस्मात् कारणात्सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति स्वल्पा, ततोऽत्र नाधिक्रियते-न तया संज्ञी वक्तुं युज्यत इति भावः / न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते। आहार- भयपरिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्यपीह नाधिक्रियते, तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना-मोहादिजन्यत्वेन नासौ विशिष्टत्यर्थः। नचाविशिष्टया संज्ञया 'संज्ञी' इत्यभिधातुं युज्यते / न हि लोकेऽप्यविशिष्टन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते / तर्हि कीदृश्या संज्ञयाऽत्र संज्ञी प्रोच्यते ? इत्याह-यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापिमहत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते-संज्ञानं संज्ञा; मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेहाऽधिक्रियते, नान्येति भावः / ततश्चैषा मनोज्ञानरूपा संज्ञा येषामस्ति ते संज्ञिनः, नान्य इति। विशे०। एषा च संज्ञा यस्याऽस्त्यसौ कालिकसंज्ञी, सच यो भवति, एतद् दर्शयतिकालियसण्णि त्ति तओ, जस्स तई सो य जो मणोजोगे। खंधे णं ते घेत्तुं, मन्नइ तल्लद्धिसंपण्णो ||506 / / 'तउ' ति तकोऽसौ 'कालिकसंज्ञी' इत्यभिधीयते / यस्य किम् ? | इत्याह 'जस्स तइ' त्ति यस्याऽसौ कालिकसंज्ञा प्राप्यते / स च'को विज्ञेयः ? इत्याह- 'सो य जो मणोजोग्गेत्यादि' स च-कालिकसंझी विज्ञेयो 'यो' यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमाद् मनोलब्धिसंपन्नो मनोयोग्यानन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति। सचगर्भजस्तिर्यङ् मनुष्यो वा, देवः, नारकश्चेति। अस्य चैवंभूतस्य संज्ञिनः किं भवति ? इत्याहरूवे जहोवलद्धी, चक्खुमओ दंसिए पयासेणं / तह छविहोवओगो, मणदव्वपयासिए अत्थे // 510 / / यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुक्तस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते। कथंभूते रूपे ? दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारणे मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यप्रकाशिते शब्दरूपादिकेऽर्थे मनःषष्ठेनिद्रयपञ्चकभेदात् षड्विधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति। अत्र विनेयः पृच्छतिानन्वसंज्ञिनः किं सर्वथैवेन्द्रियो पलब्धिर्न भवति ? इत्याहअविसुद्धचक्खुणो जह, नाइपयासम्मि रूवविण्णाणं / असण्णिोतहत्थे, थोवमणोदवलद्धिमओ॥१११|| यथाऽविशुद्धचक्षुषो नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूर्छनजपञ्चेन्द्रियस्य स्वल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थे - स्पष्टवोपलब्धिर्भवतीति। यदि सन्मूर्च्छनजपञ्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तर्वेकन्द्रियादीनां तत् कथंभूतं भवति ? इत्याहजह मुच्छियाइयाणं, अव्वत्तं सव्वविसयविण्णाणं। एगेंदियाण एवं, सुद्धयरं बेंदियाईणं / / 512 // यथा मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकष्टावरणोदयादेकेन्द्रियाणामपि; ततःशुद्धतरं शुद्धतमंद्वीन्द्रियादीनामापञ्चेन्द्रियसन्मूछेजेभ्यः, ततः सर्वस्पष्टतम संज्ञिनामिति / आह-कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिद-मुपलब्धिनानात्वम् ? उच्यतेसामर्थ्यभेदात्; सच क्षयोपशमवैचित्र्यात्। एतदेवाहतुल्ले छेयगमावे, जं सामत्थं तु चक्करयणस्स। तं तु जहकमहीणं, न होइ सरपत्तमाईणं // 513 // ईय मणोविसईणं, जा पड्डया होइ उग्गहाईस। तुल्ले चेयणभावे, अस्स (स) ण्णीणं न सा होइ / / 14|| इह यथा तुल्येऽपि छेदकभावे चक्रवर्तिसंबन्धिनश्चक्ररत्नस्य यच्छेदनसामर्थ्य तदन्येषां खग--दात्र--शरपत्रा-दीनां छेदकवस्तूनां न भवत्येव / कुतः ? इत्याह-यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति। प्रकृते योजयन्नाह- 'ईय' त्ति दीर्घत्वं प्राकृतत्वात्। इत्येवं चैतन्ये