________________ वसहि 674 - अभिधानराजेन्द्रः - भाग 6 वसहि येषूपाश्रयेषु तुषधान्यानि ब्रीहियवादीनि निष्परितानि परिशटितानि वा भवन्ति, तेषु प्रथमतस्तिष्ठन्ति / तेषामभावे यत्रदन्तखाद्यानि तिलादीनि धान्यानि तत्र तिष्ठन्ति,तिष्ठतां यदि वसतिस्वामी ब्रूयात्यद्यस्मद्रालकानां वैद्यज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं च रक्षिष्यथ ततो वसतिं प्रयच्छाम इति। तत्र साधुभिर्वक्तव्यम्न वि जोइस ण गणियं,ण अक्खरे ण वि य किंचि रक्खामो। अप्पस्सगा असुणगा, भायणखंभोवमा वसिमो॥७७|| वयं नापि ज्योतिषं न गणितं नाक्षराणि शिक्षयामः, न वा जानीमः,नापि किंचिद् गृहादिकं रक्षामः, किंतु-भाजनस्तम्भोपमा वसामः / यथा भवतां भाजनं स्तम्भकुड्यादीनि सौख्यदौस्थ्यव्यापारं न वहन्ति; एवं वयमपि भवद्भिर्मन्तव्याः। अत एव गृहे कस्यापि कार्यस्याधिपत्तिं पश्यन्तोऽप्यपश्यकाः / यदा च कोऽपि ब्रूयात्--इदं शय्यातरस्य कथयत, तदा वयं शुण्वन्तोऽप्यश्रोतारो मन्तव्याः। यद्येवमभ्युपगच्छन्ति तदा स्थातव्यम्, अत एवाह--- निकारणम्मि एवं, कारणे दुलमे भणंतिम वसभा। अम्हे वि तेलगचिय, यधापवत्तं च इह तुज्झे॥७८|| निष्कारणे भावे एवं तिष्ठन्ति। अथ अशिवादौ कारणे शुद्धा वसतिदुर्लभा ततो धान्यशालायां तिष्ठन्ति, इत्थं साधारणवचनं वृषभाः भणन्ति,वयं तावदत्र स्थिताः, एवं यूयमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापार वहथ। एषा गता अनुज्ञापना यतना। अथ स्वपक्षयतनामाहआम ति अन्भुवगते, भिक्खवियारादिणिग्गतमियेसु / भणति गुरू सागरियं,णाउंजे कज किं धन्नं // 79 // आममित्यनुमतार्थद्योतकम्, एवं यदि सागारिकेणानुमतं मम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत, ततस्तत्र स्थातव्यम्। स्थितानां च तत्रायं विधिः-ये सर्वेऽपि मृगा अगीतार्था भिक्षायां विचारभूम्यादौ वा निर्गता भवन्ति; तदा गुरुराचार्यः सागारिकमन्यव्यपदेशेन भणति, किमर्थमित्याह-तत्र किं धान्यं वर्तत इति ज्ञातुम्। 'जे' इति पादपूरणे। सालीणं बीहीणं, तिलकुलत्थाण मुम्गमासाणं। दिट्ठ मए सण्णिचया, अण्णे देसे कुटुंबीणं ||8|| शालीनां ब्रीहीणां तिलकुलत्थानां-मुद्रानां माषाणां च सन्निचया अन्यस्मिन् देशे कुटुम्बिना गृहेषु मया दृष्टाः / एवं च भणिय मित्त-म्मि कारणे सो भणामि आयरियं / अस्थि महं सण्णिचया,पेच्छह णाणविहे घण्णे // 1 // एवं चाऽऽचार्येण भणितमात्रेऽपि स सागारिकः कथनकारणे क्रमप्राप्ते सत्याचार्य भणति, भगवन् ! सन्ति मेबहवः सन्निचयाः, पश्यत-मानादिधान्यानि। एवं ब्रुवन् हस्तसंज्ञया निर्दिशति, यथा अत्र शालयः सन्ति, अत्र गोधूमाः, अत्र तिला इत्यादि। उवलक्खिया य धण्णा, संथाराणं जहाविधिग्गहणं। जो जस्स उ पाउग्गो,सो तस्स तहिं तु दायय्वो।।२ आचार्येणोपलक्षितानि तानिधान्यानि, ततः संस्तारकाणां यथाविधियथारत्नाधिकं ग्रहणे प्राप्तेऽपि तत्र स भूयऔत्पत्तिकीं सामाचारी स्थापयति, कथमित्याह-यो यस्य शैक्षग्लाना-देगीतादिर्वाधान्यस्य दूरे अदूरे वा यत्र संस्तारकप्रायोग्यः स तस्य तत्रावकाशे दातव्यः। निक्खमपदेसवजण,दूरे य अभाविया तु धण्णाणं / घण्णंतेण परिणता, चिलिमिलि दिवरत्तसुण्णं तु // 8 // यत्र सागारिको धान्यग्रहणार्थं निष्क्रामति प्रविशति वा तमवकाशं वर्जयित्वा साधुभिरासितव्यम्, ये वा पुनरभाविताः-अगीतार्थास्ते धान्यानां दूरे स्थाप्यन्ते, परिणताः-धर्मश्रद्धालयः स्थिरचेतसश्च ते धान्यान्तेन पार्श्वेन क्रियन्ते, धान्यानां वाऽपान्तराले चिलिमि-लिका दातव्या। गीतार्थपरिणामकैश्च दिवा च रात्रौ चाशून्यं कर्त्तव्यम्। ते तत्थ सण्णिविट्ठा, गहिया संथारगा विहीपुव्वं / जागरमाण वसंती,सपक्खजतणाएँ गीयत्था|४|| ते साधवस्तत्रोपाश्रये सन्निविष्टा सन्तः स्वाध्यायादिकं कुर्वन्तीति वाक्यशेषः / तैश्च संस्तारकविधिपूर्वं यथा पूर्वोक्ता दोषा न भवन्ति तथा गृहीताःगृहीतार्थाः स्वपक्षयतनायै स्वपक्षविषयरक्षार्थ जाग्रतः-सजागरा वसन्ति-स्वपन्ति। ठाणं वा ठयंती, णिसज्ज अहवा सजागर सुवंति। बहुसो अभिद्दवंते, वयणमिणं वायणं देमि / / 8 / / यथा दृढसंहननास्तेस्थानं तिष्ठन्ति; कायोत्सर्ग कुर्वन्तीत्यर्थः। अथवा-- 'निसिज्ज' त्ति निषण्णास्ते सूत्रार्थमनुप्रेक्ष्यमाणास्तिष्ठन्ति, यश्व शैक्षादिपरिणतस्तेषां धान्यराशीनां समीपे व्रजति तत्र गुरवो वृषभा वा सजागराः स्वपन्तस्तथा काशितादिशब्दं कुर्वन्ति, यथाऽसौ प्रतिनिवर्तते / अथासौ बहुशो भूयोऽपि द्रवति ततो गुरुभिः सामान्यत इदं वचनं वक्तव्यम्- आर्याः ! उत्तिष्ठत येन युष्मभ्यं वाचनां प्रयच्छामि, यद्वातमेव साधु भणन्ति। आर्य! तुभ्यमहं वाचनां प्रयच्छामि। फिडियं धण्णढेि वा, जतणा वारेति न उ फुडं बॅति / माणं सोही अण्णो, णिच्छंको होज गमणादी॥१६॥ फिट्टन्ति दिग्मूढतया द्वारात्परिभ्रष्टं धान्यार्थिनं वा धान्यभक्षणेऽभिलाषिणं साधुं यतनया वारयन्ति, न पुनस्तस्य संमुखं स्फुट रूक्षवचनं ब्रुवते। कुत इत्याह-मां स्फुटमभिधीयमानमन्यः श्रोष्यति स च श्रुत्वा अन्येषां कथयेत्ततश्च परम्परया सर्वैरपि साधुभिति-निःशङ्कोनिर्लजो भवेत्, यद्वा-ज्ञातोऽस्म्यहमिति लज्जया गमनवैहासादीनि विदध्यात्। कथं पुनरियन्ति इत्याहदारं न होइ एत्तो, णिद्दामत्ताणि पुंछ अच्छीणि। भण जंच संकियं ते, गिण्हइ वेरत्तियं भंते // 17 // यःस्फिटितो धान्यार्थी वा साधुः स वक्तव्यः / आर्य ! यत्र भवान् गच्छसि, इतो द्वारं न भवति, निद्राप्रमत्ते वाऽ--