________________ वसहि 973 - अभिधानराजेन्द्रः - भाग 6 वसहि तेसि आवारणे लहुगा, गोसे सागारियस्स सिट्टम्मि। लहुगा य जंच रुट्ठो,ऽसिढे संकापदं जं च // 6 // अथैतद्दोषभयात्तेषां व्यक्षरकादीनां वारणं न करोति, तदा चतुर्लघवः ते वारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि गोसेप्रत्यूषे सागारिकस्य कथयन्ति यथाऽमुकेन रात्रौ धान्यमपहृतंततश्चतुर्लघुकानि। शिष्टे कथिते सति स रुष्टः सन् यद्यक्षरकादीनां परितापनादि यतो बन्धनघातनं च विशेषतः करिष्यति तन्निष्पन्नं प्रायश्चित्तम् / न कथयन्ति ततश्चतुर्लधुकाः। तच साधूनामुपरि शङ्कापदंशय्यातरः करोति नूनमेतैरपहृतं यदेवं न कथयन्ति तत्र चतुर्लघु। निःशङ्किते चतुर्गुरु। गवादीनां वारणे दोषानुपदर्शयतितिरियनिवारण अभिहणण-मारणं जीवधात णासंतो। खरिया छोभविसागणि-खरएयं तावणादीया।।६६|| गवादीनां तिरश्चां निवारणे शृङ्गादिना संयतानामभिघातो मारणं वा भवेत्, तेन च निवारिता नश्यन्तो जीवानामभिहननं विनाशनं च कुर्युः। द्वयक्षरिका च निवारिता संयतानां क्षोभमभ्याख्यानं दद्यात; एष श्रमणो मां प्रार्थयते, विषं वा दद्यात्,वसतिं वा अग्निा प्रज्वालयेत्। यक्षरको वा प्रद्विष्टः प्रतापनादिकं कुर्यात्। अथ स्तेनका येन कारणेन धान्यमपहरन्ति तदाहआसन्नो य छाणोसॅवों, कझं पि य तारिसेण धण्णेणं। तेणाण य आगमणं, अच्छह तुहिकका तेणा॥६७॥ क्षणकः दैवसिक उत्सवः बहुदैवसिको वा, क्षणयुक्त उत्सवः क्षणोत्सवः शाकपार्थिवादित्वान्मध्यपदलोपी समासः, क्षण उत्सव इत्यर्थः / स स्तनानां प्रत्यासन्नो वर्तते / तत्र च तेषां तादृशेन धान्येन कार्यमस्ति। ततस्तेनानामागमनम्, ततश्च गीतार्थाः भणन्ति, भदन्त ! स्तेनाः समायाताः सन्ति अतस्तूष्णीकास्तिष्ठत। न कल्पते साधूनामेवं ज्ञातुम् अयं चोरक इति। अथवा-संयतैः स्तेना आयाताः सन्तीत्युक्तेस्तेना ब्रुवतेसंयताः! तूष्णीकास्तिष्ठत अन्यथा युष्मान्, अपद्रावयिष्यामः। एवमुक्तास्तैः किं कर्तव्यमित्याहगहियं च तेहि धण्णं, घेत्तूण गता जहिंसि गंतव्यं / सागारिओ य भणती, सउणी वि ति रक्खती णेङ॥६८|| गृहीतं च तैः स्तेनकैन्यिम्, गृहीत्वा च ते गतास्तत्रस्थाने यत्र तेषां गन्तव्यम् / सागारिकश्चात्मीयकार्येण प्रभाते समागतो मुद्रा-भेदं दृष्ट्वा भणति-भगवन् ! शकुनिकाऽपि पक्षिण्यपि तावदात्मनो नीडमाश्रयं रक्षति, भवद्भिः पुनरेतदपि न रक्षितमिति भावः। रासी ऊणे दटुंसव्वं णीतं व धण्णखेरि वा। केण इमं तेणहिं, ऽसिटे भद्देतर इमं तु // 6 // सन् सागारिकस्तत्र धान्यरासी ऊनान्-तुच्छान् दृष्ट्वा सर्व धान्य नीतमपहृतं विलोक्य,यद्वा-धान्यस्य खेरि परिशाटिंदृष्ट्वा पृच्छतिकेनेदमपहृतम् ? साधवो ब्रुवते-स्तेनै : / स भूयः पृच्छति, के पुनः / स्तेनाः ? ततो यदि नाम्ना वर्णेन वयसा वा निर्दिश्य कथयन्ति ततः स्तेनानां ग्रहणाकर्षणादयो दोषाः / अशिष्ट-अकथिते एतैरेव हृतमिति शङ्कास्यात्, तत्र भद्रकेतरदोषा भवन्ति। यद्यसौ सागारिको भद्रकः तदा अनुग्रहं मन्येत / अथेतरःप्रान्तस्ततोऽ-प्रीतिकादयो दोषाः। तेषु च भद्रकप्रान्तदोषेष्विदं प्रायश्चित्तम्लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा। कडुगफरुसं भणन्ते, छम्मासा करभरे छेदो॥७०।। मूलं सएज्झएसु, अणवठ्ठप्पो तिए चउके य। रत्थामहापहेसु य, पावति पारंचियं ठाणं // 7 // गाथादयस्य व्याख्या प्राग्वत्। एगमणेगे छेदो, दियरातो विणास गरहमादीया। जंपाविहिति विद्धाणि-गतादी वसधि अलभमाणा // 72 // सागारिकः प्रद्विष्टः सन्नेकेषां तेषामेवानेकेषांवा-सर्वसाधूनां वा, यद्वाएकस्य द्रव्यस्यानेकेषां वा तद्रव्यान्यद्रव्याणां व्यवच्छेदं विदध्यात्। अथवा--दिवा निष्काशयति चतुर्लघु, रात्री निष्काशयति चतुर्गुरु, निष्काशिताश्च स्तेनश्वापदादिभिर्विनाशं लोकादा गर्हामासादयन्ति, एते स्तेना इति कृत्वा निष्काशिताः। आदि-ग्रहणेन ग्रहणाकर्षणादयो दोषाः / यच व्यध्वम्- अध्वतो विनिर्गताः, आदिशब्दाद्-अशिवादिनिर्गता वा तदीयदोषेण वसतिमलभमाना आत्मविराधनादिकं प्राप्स्यन्ति तन्निष्पनम् / एते अगीतार्थानां दोषा उक्ताः। अथ गीतार्थानधिकृत्य विधिमाहगीयत्थेसु वि एवं, णिकारणा कारणे अजतणाए। कारणे कडजोगिस्स,कप्पति तिविहाएँ जतणाए।७३|| गीतार्था अपि यदि निष्कारणं धान्यशालायां तिष्ठन्ति, कारणे वा स्थिता यतनां न कुर्वन्ति, ततस्तेष्वप्येवमेव दोषाः / अथ कृतयोगी गीतार्थः कारणे तिष्ठतितदातस्य त्रिविधया यतनया अनुज्ञापनादिविषयया वक्ष्यमाणया तत्र स्थातुं कल्पते। इदमेव स्पष्टतरमाह-- निकारणम्मि दोसा, पडिबंधे कारणम्मि निहोसा। ते चेव अजतणाए, पुणो वि सो लग्गती दोसे / / 74|| धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मन्तव्याः। कारणे तु यतनया तिष्ठन्तो निर्दोषाः। अथ कारणे स्थितो यतनिर्दोषकरोति ततस्ते एव पूर्वोक्ता दोषाः लगन्ति। किं पुनस्तत्कारणमित्याहअद्धाण निग्गतादी,तिक्खुत्तो मग्गिऊण असतीए। गीतत्था जतणाए, वसंति तो घण्णसालाए।।७५|| अध्वनिर्गतादयस्त्रिकृत्वःत्रीन्वारान विशुद्धां वसतिमार्गयित्वा यदि न प्राप्नुवन्ति तदा गीतार्था यतनया धान्यशालायां वसन्ति। तामेव यतनामाहतुसधन्नाई जहि यं, णिप्पडिपरिसाडियाइँ वा होति। तेसुं पढमंठायति,तेसऽसतीदंतख सु॥७६||