________________ वसहि 972- अभिधानराजेन्द्रः- भाग 6 वसहि यथाऽऽहअणुहूया धण्णरसा, णवरं मोत्तूण सेडगतिलाणं / काहामि कोउहलं, पासुत्तेसुं समारो॥१४॥ अनुभूतास्तावदपरेषां धान्यानां रसाः, नवरं 'सेडगतिला णं' ति | श्वेतकतिलानारसं मुक्त्वा,अतएव तद्विषयं कौतुकमभिलाषं करिष्यामि, पूरयिष्यामीत्यर्थः / एवं विचिन्त्य शेषसाधुषु प्रसुप्तेषु समारब्धवाँस्तान् तिलान् भक्षयितुम्। ततश्चविगयम्मि कोउहल्ले, छट्ठय्वतविराहण त्ति पडिगमणं। वेहाणस ओहाणे, गिलाण सेहेण वा दिहो / / 5 / / विगते-व्यतीते सति कौतुके षष्ठव्रतस्य विराधना मा भूत्, एक व्रतभड्ने च सर्वव्रतभङ्ग इति कृत्वा प्रतिगमनं-भूयोऽपि गृहवासा-श्रयणं कुर्यात्। वैहायसंविरमणमभ्युपगच्छेत्, अवधावनं संविनविहारं कुर्वीत पार्श्वस्थादिविहारमाद्रियेत इत्यर्थः 1 अथवा-स संयतस्तिलभक्षणं विदधानो ग्लानो वा शैक्षेण वा दृष्टो भवेत्। ततश्चदठूण वा गिलाणो, खुधितो मुंजेज जा विराधणता। एमेव सेहमादी,मुंजे अप्पचयो वासिं // 56| तंसाधुंतिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितःसन्तान् तिलान् भुञ्जीत, ततश्चापथ्यसेवनतया तस्य परितापनादि का विराधना, तन्निष्पन्नं प्रायश्चित्तम् / एवमेव शैक्षादयोऽऽपि तं तिलान भुञ्जानं दृष्ट्वा तथैव भुञ्जीरन् / अप्रत्ययो वा तेषां भवेत्, यथैतन्मृषा तथाऽन्यदप्यमीषामेवंविधमिति। उड्डाहं च करेजा, विप्परिणामो व होम सेहस्स। गेण्हतेण व तेणं, सय्यो मुंजो समारद्धो // 17 // स शैक्षस्तं तिलान् भक्षयन्तं विलोक्य परापरजनेभ्यः कथयन् उड्डाहं कुर्यात्, विपरिणामो वा शैक्षस्य भवेत, विपरिणतश्च सम्यक्त्वं चारित्रं लिङ्ग वा परित्यजेत्। तेन च साधुना गृह्णता भक्षयता सर्वोऽपि तिलपुञ्जः खादितुं समारब्धः। ततश्च-- फेडिय मुद्दा तेणं, कब्जे सागारियस्स अतिगमणं / केण इभं तेणेहि, तेणाणं आगमो कत्तो // 18|| तिलपुञ्जस्य या छगणलेपादिना मुद्रा कृताऽसीत् सा तेन तिलान् भक्षयता स्फेटिता-अपनीता, तत्र क्वचित्कार्ये सागारिकस्यशय्यातरस्यातिगमनं प्रवेशो भवेत्। दृष्टश्च तेन खण्डितस्तिलपुञ्जः। ततः पृष्ट केनेदं धान्यं विलुप्तम् ? साधवो भणन्ति स्तेनैः / सागारिकः प्राहस्तेनानामागमनं कुतो मद्गृहे संजातो येनास्माभिर्न ज्ञात इति / तेन सागारिकेण चेतसि निश्चितम्-नूनमेतैरेव भुक्तमिदं धान्यमिति / स च भद्रको वा स्यात्, प्रान्तो वा। भद्रकस्तावदिदं ब्रूयात्इहरह वि ताव अम्हं, मिक्खं व बलिं च गिण्हहण किचिं।। एहि खु तारिओ मी, गिण्हह छंदेण जो अट्ठो |16 इतरथाऽपि च अस्माकं गृहे भिक्षां वा बलिं वा देवतानिवेदनमुद्ररितं न गृह्णीथ, अत इदानीं संसारसागरात्तारितोऽस्म्यहम्,अन्येनापि येन भवतामर्थःप्रयोजनंतद्भगवन्तः छन्देनस्वेच्छया गृह्णीध्वम्। लहुगा अणुग्गहम्मि य, अप्पत्तिग धम्मकंचुए गुरुगा। कडुगफरसं भणंते, छम्मासा करभरे छेदो॥६०॥ यद्येवं भद्रकोऽनुग्रहं मन्यते तदा चतुर्लघवः। अथ प्रान्तोऽसौ ततोऽप्रीतिकं कुर्यात् एते धर्मकञ्चुकप्रविष्टा लोकं मुष्णन्ति एवम-प्रीतिके चतुर्गुरवः। अथासौ कटुकपरुषम्-चौरस्त्वं धिग् मुण्ड! दुरात्मन्नित्यादि वचनं भणन्ति तदा षड्गुरवः / अथैवं ब्रूयात्-आहारे करभरभग्गैरस्माभिरिदानीं श्रमणकरो वोढव्यः तदा छेदः प्रायश्चित्तम्। मूलं सइमएसु, अणवठ्ठप्पो तिए चउके य। रत्थामहापहेसु य,पावति पारंचियं ठाणं // 61 / / 'सइज्झका' नाम सहवासिनः प्रातिवेश्मिका इत्यर्थः, तैः परिज्ञातं यथा श्रमणैर्धान्यं स्तैन्येन भक्षितं ततो मूलम् / अथत्रिकेषु वा चतुष्केषु वा साधूनां स्तेनवादः प्रसरमुपगतः ततोऽनवस्थाप्यम्। अथ रथ्यासु पथि वा स्तैन्यापयशः समुच्छलितं ततः पाराञ्चिकं स्थान प्रायश्चित्तं प्राप्नोति। अथ कटुकपरुषकरभरपदानि व्याचष्टचोरि त्ति कडुय दुम्मु-डितो त्ति फरुसं हओ त्ति पव्वइओ। समणकरो वोढव्यो, जातो म्हेकरभरहताणं // 6 // चौरस्त्वमित्यादिवचनं कटुकम्,यत्तु दुर्मुण्ड इति वा हतोऽसि प्रव्राजित इति वा वचनं तत्परुष मन्तव्यम्, तथा स शय्यातरो ब्रूयात्-अस्माकं करभरहतानां संप्रति श्रमणानां करो वोढव्यः संजातः। एषा स्वपक्षविषया अयतनाऽभिहिता। अथ परपक्षविषयामयतनामाहपरपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा। पिहणो वि हॉति लहुगा, जं ते तसपाणघातो य॥६३|| मनुष्यगवादयो ये असंयतास्ते परपक्षास्तद्विषया अयतना भाव्यते। इह कोलिकादि जीवविराधनाभयाद्यदि द्वारमपावृतं करोति; न स्थगयतीत्यर्थः ततश्चतुर्लघवः / अथ द्वारस्य पिधानं कुर्वन्ति तदाऽपि चतुर्लघु। यन्त्रे'च' तदाकारके वा संचारिमाणामुद्देहिकादीनां त्रसप्राणिघातो भवति तन्निष्पन्नं प्रायश्चित्तम्। गोणे य साणमादी, वारणलहुगा य जंच अधिकरणं / खरए य तेणए य,गुरुगाय पदेसओ जं च // 6 // अपिहितेद्वारेगौः प्रविष्टोधान्यं भक्षयेत्, श्वानो वा आदिशब्दान्मार्जारो वा प्रविश्य धान्यं विकिरेत्, 'वारण' त्ति तेच यदि वार्यन्तेतदाचतुर्लघवः, तेच वारिताः प्रतिनिवृत्त्य व्रजन्तो हरितमर्दनारूपं यदधिकरणं कुर्वन्ति तन्निष्पन्नं चयश्चित्तम् / चशब्दादन्तरायं च तेषां कृतं भवति / तथा शय्यातरस्य यद् व्यक्षरकम्-दासदासीरूपम्, ये च स्तेनका धान्यं हर्तुकामा ते यदिवार्यन्तेतदाचतुर्गुरुकाः, तेच वारिताः प्रद्वेषतोयदभ्याख्यानपरितापनादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम्।