________________ वसहि 169- अभिधानराजेन्द्रः - भाग 6 वसहि अथवेति संबन्धस्य प्रकारान्तरताद्योतके प्रथमोद्देशके प्रथमे प्रलम्बसूत्रे विस्तरेण प्रलम्बान्युपवर्णितानि तानि न भोक्तव्या-नीति प्रतिषिद्धानि, / अतो द्वितीयोद्देशकेऽपि प्रथमसूत्रे तेषामेव प्रलम्बानां रक्षार्थ तै/जाख्यैः प्रलम्बैः सह वा समवस्थानं निवारयतिअवि य अणन्तरसुत्ते, उवस्सतो अधिकते णिसी जत्थ। समणाण न निग्गंतुं, कप्पति अह तेण जोगो उ॥३॥ अपि चेत्यभ्युच्चये, न केवलं पूर्वोक्तं सम्बन्धद्वयं तृतीयोऽपि सबन्धोऽस्तीति भावः / पूर्वसूत्रस्याधस्तादनन्तरसूत्रे-"नो कप्पइ निग्गन्थस्स एगामियस्सराओ वा वियाले वा" इत्यादिलक्षण उपाश्रयः, यत्रैकाकिनां निशि-रात्रौ विचारभूम्याद्यर्थं न निर्गन्तुं कल्पते। अथायं तेन सूत्रेण सह योगः-संबन्धः, इत्यनेकैः संबन्धैराथातस्यास्य व्याख्या-उपाश्रयस्य या अन्तर्वगडा-वगडाया अभ्यन्तरम्, तच प्रतिश्रयमध्यं वा स्यात्, प्राङ्गणं वा। 'तओ सालीनि व' त्ति शालिबीजानि वा व्रीहिबीजानि वा। एवं मुद्माषातिलकुलत्थगोधूमयवयवयवैरपि तद्रीजान्युच्यन्ते / यव-- यवा-यवविशेषास्तगीजानिवा। एतानि बीजानियत्रोपाश्रये उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा तत्र नो कल्पते तदा निन्थानां वा यथालन्दमपि वस्तुम् / इह- यथालन्दं विधाजधन्यम्, मध्यमम्, उत्कृष्टं च / यावता काले-नोदकाो हस्तः शुष्यति तज्जघन्यम्, पञ्चरात्रिन्दिवात्तूत्कृष्टम्, तयोरपान्तराले सर्वमपि मध्यमम् / अत्रजघन्यमध्यमयोः सूत्रावतारः।अपिशब्दः संभावनायाम्, जघन्यमपि मध्यममपि यथा-लन्दं नो कल्पते वस्तुम्, किं पुनः उत्कृष्टमिति भावः। अत्र चोत्क्षिप्तादीनि पदानि भाष्यगाथयैव व्याख्यास्यन्ते इत्यभिप्रायेण च व्याख्यातानीतिसूत्रसंक्षेपार्थः। बृ०२ उ०) अथ कोऽसावुपाश्रयो यस्यैषा वगडा वर्णिता। उच्यतेवलया कोट्ठागारा, हेहा भूमी य होइ रमणिया। बीएहिँ विप्पमुक्को, उवस्सओ एरिसो होइ॥८|| वलयानि-कटपल्ल्यादीनि कोष्ठागाराणि च सुप्रतीतानि यत्र भवन्ति, अधस्ताच तत्र भूमिर्भवति रमणीया-बीजाद्यभावेन प्रशस्या, ईदृश उपाश्रयो बीजैर्विप्रमुक्तो भवति। इदमेव व्याख्यानयतिकडपल्लाणं सण्णा, तणपल्लाणं च देसीतों वलिया। णिप्पडिसाणिमभुजं-तगाय कयभूमिकम्मंता ||6 देशीतो देशीभाषामाश्रित्य कटपल्ल्यानां तृणपल्यानां च वलया-नीति संज्ञा तेषां मालेषु बद्धेषु धान्यानि क्रियन्ते,तानिच यत्र निष्परिशायीनि परिशाटरहितानि अभुज्यमानानि अव्यापार्यमाणानि / तथा कृतं भूमिकर्म-छगणलेपनादिकर्म अन्तेषु प्रान्त-प्रदेशेषु येषु तानि कृतभूमिकर्मान्तानि, अधस्ताच भूमिकाबीजादिविप्रमुक्तानि,ईदृशे प्रतिश्रये वस्तुंकल्पते। अथ कोष्ठागाराणि व्याचष्टेचाउस्सालघरेसुय, जत्थोवरि कोहएसु धण्णाई। ण्णिचट्ठइतमभोगा, तेसु निवासं निवारेइ // 10 // अथव-चतुःशालादिगृहेषु यत्रोपाश्रयेष्वपवरकेषु वा इष्टिकादि-मयेसु वा काष्ठकेषु वा मृत्तिकामयेषु वा धान्यानि नित्यस्थगितानि तानि सदा पिहितानि अभोग्यानिपरिभोगरहितानि तिष्ठन्ति / तत्र ये शेषा अपवारकाः-कोष्ठकास्तेषु निवासं निवारयति। व पुनस्तर्हि वस्तुन कल्पते इत्याह-- सालीहिं बीहीहि, तिलकुलत्थेहिं विप्पकिन्नेहि। आइण्णे वितिकिपणे, अहलंदंण कप्पती वासो // 11 // शालिभिः ब्रीहिभिः तिलैः कुलत्थैरुपलक्षणत्वात् मुद्माषादिभिश्व विप्रकीर्णंय॑तिकीर्णरुपलक्षणत्वाद्विकीणश्च संकुले उपाश्रये निर्ग्रन्थानां निर्गन्थीनां च यथालन्दमपि कालं न कल्पते वासः। एषा श्रीभद्रबाहुस्वामिकृता गाथा, अनया सूत्रपदानि संगृहीतानि आकीर्णग्रहणेन च उत्क्षिप्तपदम्, विकीर्णग्रहणे तु विक्षिप्तपदं गृहीतं मन्तव्यम्। अत्र परः प्राह-ननुजातिवाचकाः शब्दास्तेचात्र शालि-रित्यादिपदैरेकवचननिर्देशेन व्यवह्रियमाणा उपलभ्यन्ते ततः कि–मयमत्र शालिभिब्रीहिभिरित्यादिबहुवचननिर्देशः कृतः। उच्यतेसालीहिं बीहीहिद,इति उत्ते होति एतदुत्तं तु। सालीमादीयाणं,होति पगारा बहुविहा उ॥१२॥ शालिभिर्वा ब्रीहिभिर्वा इत्युक्ते एवं बहुवचननिर्देशे कृते एतदुक्तमभिहितं भवति,शाल्यादीनां धान्यानां बहुविधाः- बहुप्रकारा भवन्तितद्यथा--कलमशालिमहाशालिरित्यादि। उत्क्षिप्तादिपदानां व्याख्यानमाहउक्खित्तमिन्नरासी, विक्खिण्णा तेसि होति संबंधो। वितिकिण्णो सम्मेलो, विवइण्णे संघडं जाण // 13 // उत्क्षिप्तानि नाम येषां धान्यानां राशयो भिन्नाः, विक्षिप्तानि नाम ते एव धान्यराशयो भिन्नाः, परमेकतः संबुद्धाः,अत एवाह-विक्षिप्तपदे व्याख्यायमाने तेषां भिन्नराशीनां संबन्धो भवति / व्यतिकीर्णानि तु सर्वाण्यपि धान्यान्येकतः संमिलितानि। आह च-व्यतिकीर्णपदे तेषां धान्यानां संमीलको भवति / विप्रकीर्णानि तु सर्वतः संस्तृतानि पुष्पप्रकरवत्। यतएवाह-विप्रकीर्णपदे संस्कृतं विप्रकीर्ण जानीयात्। अथात्र बीजाकीर्णे प्रतिश्रये तिष्ठन्तीति प्रायश्चित्तमाहबीयाई आइले, लहुओ मासो उ गायमाणस्स। आणादिणो य दोसा, विराधना संजमाऽऽताए।।१४|| 'बीयाइ'त्ति आदिशब्दः-स्वगतानेकभेदसूचकः, ततश्च-बीजैः शाल्यादिभेदादनेकप्रकारैराकीर्णे उपाश्रये तिष्ठत आचार्या-देलधुमासः प्रायश्चित्तम् / अयं च तपःकालविशेषितः / तद्यथा-आचार्यस्य तपसा कालेन च गुरुकः, उपाध्यायस्य तपसा गुरुकः, वृषभस्य कालेन गुरुको, भिक्षोस्तपसा कालेनचलघुकः, एतत्प्रत्येकबीजविषयं प्रायश्चित्तमुक्तम् / अनन्तबीजेष्वप्येवमेव नवरं मासलधुस्थाने मासगुरुकम्। संयतीनामपि प्रवर्तिनीगणावच्छेदिन्यमिषेका भिक्षुणीनामेवमेव वक्तव्यम् आज्ञादयश्च दोषा भवन्ति। तथा विराधना संयमे, आत्मनि च मन्तव्या।