________________ वसहि 970- अमिधानराजेन्द्रः - भाग 6 वसहि इयं द्विधाऽपि पुरस्तादभिधास्यते। प्रकारान्तरेण प्रायश्चित्तमाहउक्खित्तमाइएसुं. थिराथिरें हिं तु ठायमाणस्स। पणगादी जा भिन्नो, विसेसितो भिक्खुमाईणं // 15 // साहारणम्मि गुरुगा, दसादिगं मासें ठाति समणीणं / मासो विसेसितो वा, लहुओ साहारणो गुरुगा||१६|| उत्क्षिप्तादिषु स्थिरास्थिरभेदभिन्नेषु तिष्ठतां भिक्षुप्रभृतीनां पञ्चकादारभ्य भिन्नमांसं यावत्तपःकालविशेषितं प्रायश्चित्तम् तद्यथाउत्क्षिप्तेषु स्थिरसंहननिषु लघवः रात्रिन्दिवानि, विक्षिप्तेषु स्थिरेषु तिष्ठतो लघु दश रात्रिन्दिवानि, अस्थिरेषु लघु पञ्चदश रात्रिन्दिवानि, व्यतिकीर्णेषु स्थिरेषु तिष्ठतो लघु पञ्चदश रात्रिन्दिवानि, अस्थिरेषु लघु विंशती रात्रिन्दिवानि, विप्रकीर्णेषु स्थिरेषु लघु विंशती रात्रिन्दिवानि, अस्थिरेषु लघु पञ्चविंशती रात्रिन्दिवानि, एतत्सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम्। वृषभस्य कालेन गुरुकम्, उपाध्यायस्य तपसा गुरुकम्, आचार्यस्य तपसा कालेन चगुरुकम्। एतत्प्रत्येकबीजविषयप्रायश्चित्तमुक्तम् / साधारणबीजेषु त्वेतदेव गुरुकं कर्त्तव्यम्। गुरुपञ्चकादारम्य गुरुपञ्चविंशतिकान्तमित्यर्थः / श्रमणीनां तुलघुदशरात्रिन्दिवेभ्यः प्रारब्धं लघुमासे तिष्ठति। तत्रापि भिक्षुण्या उभयलधुकम्, अभिषेकायाः कालगुरुकम्, गणावच्छेदिन्यास्तपोगुरुकम्, प्रवर्तिन्या उभयगुरुकम् / एवं प्रत्येकबीजविषयमुक्तम्, अनन्तबीजेषु तु ए-- तद्गुरुदशरात्रिंदिवेभ्यः प्रारब्धं गुरुमासान्तं वक्तव्यम् / अथवा-- भिक्षुप्रभृतीनां चतुर्णामप्यविशेषेणोण्र्णादिषु चतुर्ध्वपि तपः- कालविशेषिते मासगुरुकः, उत्कीर्णेषु तपसा कालेन च लघुकः, विकीर्णेषु कालेन गुरुकः,व्यतिकीर्णेषु तपसा गुरुकः, अनन्त--बीजेष्वप्युत्कीपर्णादिष्वेवं तपःकालविशेषितं मासगुरुकम्। द्विविधा च विराधनासंयमात्मविषया मन्तव्या तत्र संयमविराधना निर्गच्छन् वा प्रविशन् वा बीजानां सङ्घट्टनं परितापनमपद्रावणं वा कुर्यात् / ये च तदाश्रिताः प्राणिनस्तेषामपि सङ्घट्टनादिकं कुर्यात्। तन्निष्पन्नं प्रायश्चित्तम्। अथात्मविराधनां भावयतिसालि जव अच्छि सालुग,निस्सरणं मासमुग्गमादीसुं। सुस्सू गुज्झकुतूहल-विप्पइरण मास निस्सरणं // 17|| तत्र स्थितानां साधूनां शालियवाः शालूकाश्चाक्ष्णोः प्रविशन्तीति प्रविष्टश्चक्षुषी अनागाढस्य वा अगाढस्य वा परिताप्येते। तथा माषादिषु विप्रकीर्णेषु गमनागमने विराधना निस्सरणे प्रस्खलनं भवति, ततश्च हस्तभङ्गादयो दोषाः। अत्र दृष्टान्तः-“एगो अगारो चिंतेइ-जइ सुस्सूगाए गुज्झोरगाइ पच्छामि,ताहे मासा आगमण-निग्गमणपहे विप्पकिन्ना, सा तत्थ क्यन्ती फिसलिया। गलियव-सणाइषडिया।' इदमेवाह सुस्सू' इत्यादि श्वश्रूसंबन्धि यद्गुह्यं तदवलोकने यत् कुतूहलं तद्रशान्माषाणां विप्रकिरणं तत्तस्याः श्वश्र्वाः निस्सरणे प्रस्खलनमभवत् / एवं तत्र स्थितानां साधूनामप्यात्मविराधना भवेत्। द्वितीयपदमाह बिइयपयकारणम्मि,पुटिव वसभा पमज जतणाए। विक्खिरणम्मि वि लहुआ, तत्थ वि आणादिणो दोसा।।१८|| द्वितीयपदे-कारणे अध्वनिर्गमनादौ शुद्धोपाश्रयालाभे वा विप्रकीर्णे उपाश्रये तिष्ठन्ति। कथमित्याह-पूर्व वृषभा दण्डप्रोञ्छनकं गृहीत्वा तत्र गत्वा यतनया यथा तेषां बीजानां परितापनादि न भवति तथा प्रमृज्य ततः सबालवृद्धमपि गच्छमानीय यथालन्दं तिष्ठन्ति। यदि प्रमार्जनायां विविधानां बीजानां विकरणमितस्ततो विक्षेपणं कुर्वते तदा लघुमासः प्रायश्चित्तम्, तत्राऽप्यविधिप्रमार्जने आज्ञादयो दोषाः / अथैतदेव स्पष्टयतिगीया पुरा गंतु समिक्खियम्मि, थिरे य मज्झे तु महाथिरे वा। साहटुमेगं तु वसंति लण्ड, उक्कोसयं जाणिय कारणं वा // 16 // केचिदध्वनिर्गतादयः साधवो विवक्षितग्रामं प्राप्ताः,तत्र चगीतार्थाः पुरतो गत्वा त्रिकृत्वः शुद्धां वसतिं समीक्षन्ते-प्रत्युपेक्षन्ते। यदि तथा समीक्षिते न प्राप्यते तदा शाल्यादिबीजेषूत्कीर्णेषु प्रथमं स्थिरसंहननिनः तिष्ठन्ति / तदभावे अस्थिरसंहननिनः तिष्ठन्ति / तानि च बीजानि यतनया प्रमृज्य एकान्ते संहरन्ति-संस्थापयन्ति, संहृत्य चतत्रजधन्यं वा मध्यमं वा यथालन्दं वसन्ति / कारणं वा अध्वपरिश्रमादिकं ज्ञात्वा उत्कृष्टमपि यथालन्दं वसन्ति। अत्र पाठान्तरम्- 'साहटुमेगं तु त्ति तानि बीजानि संहृत्य तत एकमिति जघन्यं यथालन्दं वसन्ति / शेष प्राग्वत्। उत्कीर्णानामभावे विकीर्णेषु तेषामभावे व्यतिकीर्णेषु, तदप्राप्ती विप्रकीर्णेष्वपि तिष्ठन्ति। तत्रापि प्रथमं प्रत्येकेषु , ततः साधारणेष्वपि अधः क्रमेण तिष्ठन्ति / ततो मासलघु संयतीनामप्येवमेव द्वितीयपदं मन्तव्यम्। अह पुण एवं जाणिज्जा, नो उक्खित्ताइं नो विक्खित्ताई नो विकिन्नाइं नो विप्पकिन्नाई रासीकडाणि वा पुंजकडाणि वा मित्तिकडाणि वा कुलियकडाणि वा लंछियाणि वा मुहियाणि वा पिहिताणि वा, कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिण्हासु वत्थए||२|| अथ पुनरेवं जानीयात्, तानि शाल्यादीनि बीजानि तत्रो पाश्रये नोत्क्षिप्तानि नो विक्षिप्तानि नो विकीर्णानि नो विप्रकीर्णानि किं तु राशीकृतानि वा पुञ्जीकृतानि वा भित्तीकृतानि वा कुलिका-कृतानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा तत एवं कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु वस्तुम्, इति सूत्राक्षरार्थः / अत्र भाष्यम्रासीकडा य पुंजे, कुलियकडा पिहितमुहिया चेव। ठायंतगाण लहुगा, कास अगीतत्थसुत्तं तु // 20|| यत्रो पाश्रये राशीकृतानि कुलिकाकृतानि पिहितानि मुद्रितानि चशब्दाद्-भित्तीकृतानि लाञ्छितानि च बीजानि तत्रतिष्ठतां च चतुर्गुरुकाः / कस्य पुनरेतत्प्रायश्चित्तम्, उच्यते-अ