________________ वसहि 668 - अभिधानराजेन्द्रः - भाग 6 वसहि पिधीयमाने अपाद्रियमाणे वा भवेत् / परिमन्थश्च सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति। एतामेव नियुक्तिगाथा व्याख्यानयतिघरकोइलिया सप्पो, व संचाराई य होति हेतवरि। ढवित्तवंगुरिते, अभिघातो जिंतयंताणं // 223|| द्वारस्याधस्तादुपरि वा गृहकोकिला वा सर्पो वा संचारिमा वा कीटिका कुन्थुकं सारिकादयो जीवा भवेयुः, आदिशब्दात्-कोकिलादयस्तत्र भवेयुः, स्यात्-कदाचित्कारणे पुष्टालम्बने पिदध्यादपि द्वारम्, जिनाःजिनकल्पिका ज्ञायकास्तस्य कारणस्य सम्यग्वेत्तारः,परं द्वारं न पिदधति। शिष्यः चहसति कारणे पिहेजा, जिन जाण गच्छे इच्छिमो नाउं। आगाढकारणम्मि तु, कप्पति जयणाएतं पिहितुं // 22 // गच्छे...गच्छवासिनां सामाचार्याः विधिं ज्ञातुं सूरिराह-आगाद प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्रयतनया वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगितुं कल्पते। एष नियुक्तिगाथासमासार्थः। अथैनामेव विवृणोतिजाणंति जिणा कझं, पत्तं पि तु तं न वेंति सर्वति। थेरा वि उजाणंति, अणागयं केइ पत्तं तु / / 22 / / जिनाः-जिनकल्पिकास्तकार्यमनागतमेव जानन्ति,येन द्वारं पिधीयते / तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणं तस्मिश्च प्राप्तेऽपि तत्-द्वारपिधानं न भगवन्तो निषेवन्ते निरपवादानुष्ठान-परत्वात् / स्थविरा अपिस्थविरकल्पिकाः सातिशयश्रुतज्ञानाश्च प्रयोगबलेन केचिदनागतमेव जानन्ति / केचित्तु निरतिशयाः प्राप्तमेव तत्कार्य जानन्ति, ज्ञात्वा च यतनया तत्परिहरन्ति। अहवा जिणप्पमाणा, कारणसेवी अदोसवं होइ। थेरा वि जाणग चिय, कारणजयणाए सेवंता // 226 / / अथवा-'जिणप्पमाण' ति पदमन्यथा व्याख्यायते-जिनः-तीर्थकरः प्रामाण्यात् कारणे द्वारपिधानसेवी अदोषवान् भवति / जिनानां हि भगवतामियमाज्ञाकारणे यतनया द्वारं पिधातव्यम्। सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव-सम्यग विधिज्ञा एव / आह-किं तत्कारणं येन द्वारं पिधीयते। उच्यतेपडिणीयतेणसावय, उम्भामगगोणसाणसुणगादी। सीयं दुरद्धियासं,दीहा पक्खीच सागरिए॥२२७॥ उद्घाटितेद्वारे प्रत्यनीकः प्रविश्य आहननमपद्रावणं वा कुर्यात्, स्तेनाः शरीरस्तेना वा प्रविशेयुः / एवं श्वापदाः-सिंहव्याघ्रादयः उद्भ्रामकाःपारदारिका गोबलीवर्दाः श्वानप्रायाः, ततएते वा प्रविशेयुः 'साणे' त्तिअनात्मवशः क्षिप्तचित्तादिः स द्वारे अपिहिते सति निर्गच्छेत् / शीतं दुरधिसहं हिमकणानुषक्तं निपतेत्। दीर्धा वा सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः। सागारिको वा कश्चित् प्रतिश्रयमुद्धाटकद्वारं दृष्ट्वा प्रविश्य शयीत वा विश्रामं वा गृह्णीयात्। एकशम्मि उठाणे, चउरो मासा हवंति उग्घाया। आणाइणो यदोसा, विराहणा संजमाऽऽयाए॥२२८|| द्वारमस्थगयतामनन्तरोक्ता एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने चत्वारोमासा उद्धाताः प्रायश्चित्तं भवति। आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया। यदुक्त चत्वारो मासा उद्धाता इति तदेव तबाहुल्यमङ्गीकृत्य द्रष्टव्यम्। अतोऽपवदन्नाहअहिसावयपचत्थिसु, गुरुगासेसेसु हाँति चउलहुगा। तणगोले लहुगुरुगा, आणाइविराहणा दुविहा॥२२६।। अहिषु श्वापदेषु स्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः / विराधना च द्विविधा-संयमविराधना, आत्म--- विराधना च। तत्र संयमविराधनास्तेनैरूपधावपहृतेद्वारे अपिहिते सत्युपाश्रयं प्रविशत्सूपहते तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तथा ये गोलकल्पाः प्रविष्टाः सन्तो निषदनादि कुर्वाणा बहूना प्राणजातीयानामुपमद कुर्युः। आत्मविराधना तुप्रत्यनीकादिषु परिस्फुटैवेति। आह ज्ञातमस्माभिः द्वारमपिधानकारणम्। परं का पुनः यतनेति नाद्यापि वयं जानीमः। उच्यतेउवओगं हेतुवरिं, काऊण वएत वंगुरंते अ। पेहा जत्थ न सुज्झइ, पमधि तत्थ सारिति / / 230 / / नेत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोगं कृत्वा द्वारं स्थगयन्ति वा आपवृण्वन्ति वा / यत्र चान्धकारे प्रेक्षा-चक्षुषा निरीक्षणं न शुद्ध्यति ततो रजोहरणेन दारुदण्डकेन वा रजन्यां प्रमृज्य सारयन्ति, द्वारं स्थगयन्तीत्यर्थः / उपलक्षत्वादुद्धाटयन्तीत्यपि द्रष्टव्यम्। बृ०१उ०। उपाश्रयस्यान्तः शाल्यादीनि यत्र भवन्ति तत्र दोषमाहउवस्सयस्सअन्तोवगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा गोधूमाणि वा जवाणि वा जवजवाणि वा उक्खिन्नाणि वा विक्खिन्नाणि वा विइगिण्णाणि वा विप्पइण्णाणि वा नो कप्पइ निग्गंथाण वा निग्गंधाण वा अहालंदमवि वत्थए||१|| अथास्य सूत्रस्यसंबन्धमाहएरिसए खेत्तम्मि, उवस्सए केरिसम्मिवसितव्वं / पुव्वुत्तदोसरहिते, बितियादिजहेण संबन्धो ||1|| ईदृशे प्रथमोद्देशकान्त्यस्तत्र वर्णिते आर्यक्षेत्रे विहरद्भिरुपाश्रये कीदृशे वस्तव्यमिति चिन्तायामनेन सूत्रेणोपवर्ण्यते। पूर्वमाद्योद्देशके ये उपाश्रयस्य दोषाः सागारिकत्वादय उक्तास्तै रहितो जीवादिपरित्यक्तश्च यत्र उपाश्रयस्तत्र वस्तव्यमित्येष पूर्वसूत्रेण सहास्य संबन्धः। अहवा पढमे सुत्त-म्मि पलंबा वणिया ण भोत्तव्वा। तेसिं चिय रक्खडा, तस्सऽहवासंनिवारेंति॥२॥