________________ वसहि 967- अभिधानराजेन्द्रः - भाग 6 वसहि देहविइ दुव्वलओ, कालमओ ताण जग्गंति // 213|| यदिताः प्रतिश्रयेद्वारे स्थित्वा कालं प्रतिजागृपुस्ततः सागारिकमनसि आशङ्कापदं भवति किमेषा कंचिदुभ्रामकं प्रतीक्षिते यदेवमेषा प्रविष्टा जागर्तीति / तथा भय च तासामल्पसत्त्वतयोपजायते। द्विविधाश्च स्तेनाः-शरीरस्तेनोपधिस्तेनभेदात्, तत्रागच्छेयुः ते संयतीमुपछि वा अपहरेयुः। मैथुनार्थिनो वा संयतीमुप-सर्पयुः / देहेन-शरीरेण धृत्याच मानसावष्टम्भेन दुर्वलास्ताः, अतः ताः संयत्यः कालं न जाग्रति न प्रतिचरन्ति। किंचकम्मेहि मोहियाणं, अभिद्दवंताण कोऽथि जा भणइ। संकापदंव होजा, सागारियतेणए वाऽवि॥२१॥ यदि कर्मभिर्मोहिता घनकर्मकर्कशतया समुदीर्णमोहाःकेचन पापीयांसः शीलाच्च्यावयितुमभिद्रवेयुः, ततः को विधिरित्यत आह-तेषामभिद्रवतां संयती कोऽयमिति ब्रूते, ततःतस्याः चतुर्गुरुकाः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, शङ्कापदं वा सागारिकस्य, अपिशब्दान्मैथुनार्थिनो वा भवन्ति। इदमेव भावयतिअन्नोऽवि नूणमभिपडइ, एत्थ वीसत्थया तदट्ठीणं। सागारि सेजगा वा, सइत्थिगा वा उसंकेला।।२१।। तदर्थिनो नाम तद्विवक्षितं स्तैन्यं मैथुनं वा सेवितुं ये समायातास्तेषां संयतीमुखात् क इति वचनं श्रुत्वा शङ्कादय उपजायन्ते नूनमन्योऽपि कश्चिदत्रोद्घामकोऽभिपतति, येनैवमेषा क इति प्रश्नयति / ततश्च तेषां तत्र प्रविशतां विश्वस्तता भवतिन भयमुत्पद्यते। ये सागारिकशय्यातरसिद्धका वा प्रातिवेश्मिकास्ते एकका वा सस्त्रीका वा शङ्का कुर्युः किमन्य एतासां संयतीनां दत्तसंकेतः कोऽप्युभ्रामकोऽत्रायाति। तेणियरं वसगारो, गिण्ह मारेज सो व सागरियं / पडिसेह छोभझामण, काहिंतीय प्पदोसंच॥२१६।। अथवा कइति वचनं श्रुत्वा सागारिकउत्थाय स्तेनम् इतरं वा मैथुनार्थिन गृह्णीयात्, मारयेद्वा / स या स्तेनो मैथुनार्थी वा सागारिकं मारयेत् / सागारिकेच मारिते तदीयाः संज्ञातकाः प्रतिषेधनं द्रव्यान्यद्रव्यव्यवच्छेदं कुर्युः / स्तेनादयश्च शय्यातरेण गृहीतसंयतीनां 'छोभ' त्ति अभ्याख्यानं दद्युः, अस्माकं भाटिरेताभिर्गृहीता आसीत्, 'झामण' त्ति दुष्टा वा सन्तःशय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः। प्रद्वेषतोवा यदन्यदर्पिते करिष्यन्ति तन्निष्पन्नमापद्यते। प्रायश्चित्तम्। कथं पुनस्तर्हि तद्द्वक्तव्यमित्याहसंकियमसंकियं वा, उभयढि णच्चवें ति अहिलित्तं / छुत्ति हमित्ति अणाहा, नत्थितें माया पिया वा वि॥२१७॥ उभयं-स्तैन्यं, मैथुनंचा तदर्थनं शङ्कितं वा ज्ञात्वा अवगम्य अभिलीयमानमायान्तमेवं बुवते 'छु' ति 'हडि' त्ति अनुकरणशब्दावेतौ 'छुरि' ति वा वक्तव्यमित्यर्थः / यद्वा ते अनाथ ! निःस्वामिक! किं ते नास्ति माता वा पिता वा यदेतस्यां वेलायां पर्यटसीति। मंजंतुवस्सयं णो, छिन्नाला जरग्गवा सगोरहगा। नऽत्थि इहं तुह चारी, णस्ससु किं खाहिसि अहन्ना // 215|| भञ्जन्ति--विध्वंसन्ते नः-अस्माकमुपाश्रयं-छिन्नालास्तथा-विधा दुष्टजातीया जरद्वा जीर्णवलीवः सगोरथकाः अतोनास्त्यत्र त्वद्योग्या चारिः, नश्य-पलायस्व त्वं किमत्र खादयसि / अधन्य ! हे निर्भाग्य ! प्राकृतत्वात् गाथायां दीर्घत्वम्, एतेनान्या-पदेशभङ्गया तस्य प्रविशतः प्रतिषेधः कृतो भवति! द्वितीयपदमाहअद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। दव्वस्सव असईए, ताओ व अपच्छिमा पिंडी॥२१॥ अध्वनिर्गतादयः संयत्यः / त्रिकृत्वः-त्रीन् वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वारे उपाश्रये अप्रावृतद्वारेऽपि वसन्ति / तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव। अथ न प्राप्यते ततो द्रव्यस्य कपाटस्थासति कण्टकादिकमप्यानीय पिधातव्यं यावदपश्चिमा-सर्वान्तिमा यतना 'ताओ व त्ति ताः सर्वा अपि 'पिंडि' ति पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्ता-स्तिष्ठन्तीति। एनामेव नियुक्तिगाथा व्याचष्टेअन्नत्तो व कवाडं, कंडिय दंडेहि चिलिमिली बाहिं। कठिया पिंडि भवंति, सभए काऊण णोण्णकरवंधा / / 220 / / भूयः-परस्परं करबन्धं कपाटयुक्तस्य द्वारस्याभाव अन्यतोऽपि कपाट याचित्वा द्वारं पिधातव्यम्। अथयाच्यमानमपि तन्न लब्धं ततो वंशकटो याचितव्यः। तस्य अलाभेकण्टिका कण्टकशिखाः,तासामप्राप्तो दण्डकैस्तिरश्चीनी चिलिमिलिका क्रियते / तावद्दण्डानामभावे वस्त्रचिलिमिलिका बध्यते / बहिरिमूले किलिका स्थविरा-क्रियते। अथ कोऽपि तत्रे तासामभिद्रवणं करोति, ततस्तादृशसमयोपसर्गे सति अन्योन्यं करबन्धं कृत्वा पिण्डीभवन्ति। अंतो हवंति तरुणी, सह दंडे हिते य तालिंति। अह तत्थ होंति वसभा, वारिंति गिही व ते होउ।।२२१।। अन्तर्मध्येयाःतरुण्यो अगृहीतदण्डकहस्तास्तिष्ठन्ति बहिस्तुस्थविराः ताश्चोभया अपि शब्दं बृहद्ध्वनिना बोलं कुर्वते, येन भूयान् लोको मिलति / ताश्च स्तेनमैथुयनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति। अथ तत्र वृषभाः सन्निहिताः ततस्ते गृहिणो निवारयन्ति। निग्गंथ दारपिहणे, लहुओ मासो उदोसु आणादी। अइगमणे निग्गमणे, संघट्टणमाइपलिमंथो // 222| निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति ततो लघुको मासः प्रायश्चित्तम् आज्ञादयश्च दोषाः / विराधना त्वियम्- कोऽपि साधुः निर्गमनं प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाट प्रेरित तेन च तस्य शिरसोऽभिघाते परितापादिकाग्लालारोपणा / एवं निर्गमनेऽपि केनचि-दहिः स्थितेन पश्चान्मुखे कपाटे प्रेरितेशीर्ष भिद्यते। तत्र स जन्तूनां संघट्टनमादिशब्दात-परितापनमपद्रावणं वा द्वारे