________________ वसहि 166 - अभिधानराजेन्द्रः - भाग 6 वसहि आह-सा प्रतिहारी कीदृग्गुणान्विता __ स्थापनीयेत्युच्यते-- कारण उवचिया खलु, पडिहारी संजईण गीयत्था। परिणयमुत्तकुलीणा, अभीर वायामियसरीरा / / 203 / / कायेनोचिता-न कृशशरीरा गीतार्था-सम्यगधिगतसूत्रार्था परिणता वयसा बुद्ध्या वा 'भुत्तं' त्ति भुक्तभोगिनी कुलीनाविशुद्धकुलोत्पन्नाअभीरु:-कुतश्चिदपि स्तेनोभ्रामकादेर्विविधां बिभीषिकां दर्शयतो न बिभेति 'वायामियसरीर' ति व्यायामादण्डशरीरा; समर्थदेहा इत्यर्थः, ईदृशी खलु संयतीनां प्रतिहारी स्थापयितव्या। ___ सा च किं करोतीत्याहआवासगं करित्ता, परिहारी दंडहत्थदारम्मि। तिनिउ अप्पडिचरित्रं, कालं घेत्तूण य पवेए॥२७॥ आवश्यकं-प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अत्रद्वारे तिष्ठति। ततश्च 'तिन्नि उ' त्ति तिस्रः संयत्यः कालप्रत्युपेक्षणार्थं निर्गच्छन्ति 'अप्पडिचरियं' ति प्रादोषिककालं यथा साधवः प्रतिजागरितं गृह्णन्ति ततस्तथा नेति गृहीत्वा च कालं ततः प्रवर्त्तिन्या निवेदवन्ति, निवेद्य च स्वाध्याये प्रस्थापिते सर्वा अपि स्वाध्यायं कुर्वते। कथमित्याहओहाडिय दाराओ, पोरिसि काऊण पठमए जाने। पडिहारि अग्गदारे, गणिणीउ उवस्सयमुहम्मि / / 20 / / अवघाटितं-चिलिमिलिकया पिहितं द्वारम्-अग्रद्वारं यासां ता अवघाटितद्वाराः, सर्वा अपि प्रथमे यामे सूत्रपौरुषीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषः, पौरुषीं कुर्वाणानां च प्रतिहारे अग्रद्वारे तिष्ठति गणिनी तु-प्रवर्तिनी तूपाश्रयस्य मुखेमूलद्वारे स्थिता स्वाध्यायं करोति। उभयविसुद्धाइयरा, पविसंतीओ पवित्तिणी छिवइ। सीसे गंडे वच्छे, पुच्छइ नामंच काऽसि त्ति॥२०६|| उभयं-संज्ञा, कायिकी च / तद्विशुद्धं व्युत्सृष्टं याभिस्ता उभयविशुद्धाः, आहिताग्न्यादेः आकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, इतराः संयत्यो यदा प्रविशन्तिततः प्रवर्तिनी किमेषा संयती उभयविशुद्धा न वेति परिज्ञानार्थ शीर्ष-शिरसि गण्डे-कपोले वक्षसि-हृदये एवं त्रिषु स्थानेषु परिस्पृशति / नाम च पृच्छति, का किं नामाऽसि त्वमिति / यावत्तत्र प्रवेशसमये विलम्बते यस्मिंश्च प्रस्तावे निर्गच्छति सा वक्तव्या। किं तुज्झ इकियाए, धम्मो दारं न होइ एतो उ। न य निठुरं पि भन्नइ, मा जियलजत्तर्ण हुशा / / 207 / / किं तवैकस्या एव धर्मा यदेवं निर्गच्छसि, विलम्वसे वा। द्वारभितो न भवति। एवमन्यव्यपदेशेन सा वक्तव्या। नच निष्ठुरं स्फुटमेव भण्यते।मा 'जियलज्जत्तणं' ति जितलज्जत्वं निर्लज्जानामेतदिति हेतोः। ततश्चसव्वासु पविट्ठासु,पडिहारी पविस्सि बंधएदारं। मज्झे य ठाइ गणिणी, सेसाओ चक्कवालेणं // 208| सर्वासु संयतीषु प्रविष्ठासु प्रतिहारी प्रविश्य द्वारं पूर्वोक्तविधिना बध्नाति,मध्ये च-मध्यभागे गणिनीप्रवर्तिनी तिष्ठति; संस्तारं प्रसृणातीत्यर्थः / शेषास्तु संयत्यश्चक्रवालेन मण्डलिकया प्रवर्तिनी परिवार्य संस्तृणन्ति, यथा परस्परं सुप्तानां न संघट्टो भवति। आह-किमर्थं न संघट्टः क्रियते। उच्यते-- सइकरण कोउहल्ला, फासे कलहो य तेण तं मोत्तुं / कडितरुणी कडितरुणी, अभिक्खछिवणा य जयणाए।।२०।। स्पर्श अन्योन्य संघट्टने भुक्तभुक्तानां स्मृतिकरणकौतूहले भवतः। कलहश्च असंखड भवति, यथा अहं त्वया हस्तेन वा पादेन वा संघट्टिता, अनेन हेतुना तं स्पर्श मुक्त्वा काचित् स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदनन्तरिता तरुणी, पुनस्स्थविरा, पुनरपितरुणी इत्येवं संस्तारकप्रस्तरणविधिः। यतनया च यथा तासांस्मृतिकरणादिनोपजायते तथा अभीक्ष्णं पुनः पुनः स्पर्शना प्रवर्तितन्या कर्तव्या। प्रतिहारी च द्वारमूले संस्तारयति। कथमित्यत आहतणुनिहा पडिहारी, गोविय घेत्तं च सुबइ तं द्वारं। जग्गंति वारएणव,नाउं आमोस दुस्सीलो // 210 / / तन्वी स्तोका निद्रा यस्याः सा तथा एवंविधा प्रतिहारी तथा ग्रन्थि गोपयित्वा स्वपिति; यथाऽन्याः संयत्यो न जानन्त्युद्धाटितम् / हस्तेन वा तद्दवरकप्रान्तं गृहीत्वा स्वपिति / अथ तत्रामोषाः स्तेना दुःशीला अभिपतन्ति; ततस्तान् ज्ञात्वा वारकेण जाग्रति। अथ मात्रकेयतनामाहकुडमुह डगलेसु काउं, मत्तगं इट्टगाइदुरुढाओ। लाल सराव पलालं व, छोटुभायं तु मा सद्दो // 211 // कूढमुखेष्वकण्डकेषु डगलेषु वा मात्रं कृत्वा स्थापयित्वा, तस्य मात्रकस्योपरि शरावंमल्लकं स्थाप्यते। तस्य चमूर्ध्नि छिद्रं क्रियते, तत्र छिद्रे वस्त्रमयी लाला--लम्बमानचीरिका पलालं वा प्रक्षिप्यते / मा मोकं व्युत्सृजन्तीनां शब्दो भवत्विति कृत्वा तत उभयपार्श्वत इष्टिकाः क्रियन्ते, आदिशब्दात्-पीठिकादिपरिग्रहः। तत्रारूढाः सत्यो रात्रौ मात्रकमेवं व्युत्सृजन्ति। अथ स्वपनयतनामाहसोऊण दोनि जामे, चरिमे उज्झित्तु मोयमंतं तु। कालपडिलेहयातो, ओहाडियचिलिमिली तम्मि।।२१२|| सुप्त्वा द्वौ यामौ-प्रहरौ चरमे यामे उत्थाय मोकमात्रकभुज्झित्वा-- परिष्ठाप्य ततः कालं वैरात्रिकं प्राभातिकं च प्रत्युपेक्ष्य स्वाध्यायो यतनया क्रियते / तस्मिश्च चरमे यामे अवघाटितचिलिमिलिकं चिलिमिलिकया अवघाटितं-पिहितं द्वारं भवति, शेषमुत्कटद्वयम-पनीयते इति भावः। ताश्च कालं गृहीत्वा न प्रतिजाग्रति, कुत इत्याहसंकापदं तह भयं, दुविहा तेणा य मेहणऽट्ठीय।