________________ वसहि 965 - अभिधानराजेन्द्रः - भाग 6 वसहि अस्य सूत्रस्य संबन्धमाहपडिसिद्धविवक्खेसुं, उवस्सएहिं तु संवसंतीणं। बम्हवतगुत्ति पगए, वारेतितेसु वि अगुत्तिं / / 16 / / पूर्वसूत्रे प्रतिषिद्धानामापणगृहादीनां विपक्षा ये उपाश्रयाः कल्पनीया इत्यर्थः, तेषु संवसन्तीनां ब्रह्मचर्यगुप्तिः प्रकृता , तदर्थं तेषु वस्तव्यमिति भावः। अतस्तस्याः प्रकृतेप्रक्रमे तेष्वप्यप्रतिषिद्धेषु प्रतिश्रयेषु अप्रावृतद्वारतद्रूपामगुप्तिं वारयन्ति भगवन्तो भद्रबाहुस्वामिनः इत्यनेनसम्बन्धेनायातस्यास्य (14 सूत्रस्य) व्याख्या-नो कल्पते निर्गन्थीनां साध्वीनां अप्रावृतद्वारके-उद्घाट-द्वारे उपाश्रये वस्तुमित्येवं यदोपाश्रयालाभे च तत्रापि वसन्तीति तदा इत्थं विधिविधेयः। तद्यथा-एक प्रस्तरंकटमन्तः प्रतिश्रयाभ्यन्तरे कृत्वा एकं प्रस्तरं बहिः कृत्वा, ततश्चिमिलि-कयैवावघाटिते पिहितेऽपिद्वारे सूत्रेच अवघाटितशब्दस्य पूर्वनिपातः प्राकृतत्वात् एवमनन्तरोक्तेन णमिति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसंक्षेपार्थः। विस्तरार्थतुभाष्यकृदाहदारे अवंगुयम्मी, निग्गन्थीणं न कप्पए वासो। चउगुरु आयरियाई, तत्थ वि आणाइणो दोसा / / 196|| अप्रावृते-उद्घाटिते द्वारे निर्ग्रन्थीनां न कल्पते वासः / अत्र चैवं सूत्रमाचायः प्रवर्तिन्या न कथयति चतुर्गुरु, प्रवर्तिनी संयतीनां न कथयति चतुर्गुरु, आर्यिका यदि न प्रतिशृण्वन्ति तदा तासां मासलघु / तत्राप्यकथनेऽश्रवणे चाज्ञादयो दोषा द्रष्टव्याः। दारे अवंगुयम्मि, भिक्खुणिमादीण संवसंतीणं / गुरुगा दोहि विसिहा, चउगुरुगादी व छेदंता / / 197|| द्वारे अप्रावृते भिक्षुण्यादीना संवसन्तीनां द्वाभ्यां तपः-कालाभ्यां विशिष्टाः चतुर्गुरुकाः, तद्यथा-भिक्षुण्याश्चतुर्गुरुकं तपसा कालेन चलघु, अभिषेकायास्तदेव कालगुरु, तपोलघुगणावच्छेदे तपोगुरु काललधु, प्रवर्तिन्या द्वाभ्यामपि गुरुकं चतुर्गुरुकादयो वा छेदान्ता भवन्ति। तद्यथाभिक्षुण्या अप्रावृते द्वारे वसन्त्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लधुकम्। गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्तिन्याः छेद इति। अत्र दोषानाहतरुणा वेसित्थीओ, विवाहमादीसु होइ सइकरणं / इच्छमणिच्छे तरुणा, तेणा ताओ व उवहिं वा॥१९८|| अस्य व्याख्या अनन्तरसूत्रवत् द्रष्टव्या। तत्र गमनिकामानं तूच्यते-- तत्राप्रावृतद्वारे उपाश्रये तिष्ठन्तीनां संयतीनां तरुणान् वेश्यास्त्रियो वृद्धविवाहनृपतिप्रवेशादिषु वा दृष्ट्वा स्मृतिकरणमुपलक्षणत्वात्कौतुकनिदानगमनं वा भवेत्,तरुणान् वा अवभाषमाणान् यदि सा प्रतिसेवितुमिच्छति ततो व्रतविराधना / अथ नेच्छति ततो बलादपि ते संयतीं गृह्णीयुः,तथा स्तेनास्ता वा संयतीरपहरेयुः, उपधिं वा तासामपहरेयुः, इति। किंच अन्ने वि होंति दोसा,सावयतेणे य मेहुणट्ठी या वइणीसु अगारीसुय दोचं संछोभणादीया।।१९६॥ अन्येऽप्यभ्यधिका दोषा भवान्त, तत्राप्रावृतद्वारे श्वापदो वा स्तेना था चशब्दात्--श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तन्निष्पन्न प्रायश्चित्तम् / मैथुनार्थी-उद्भ्रामकः प्रविशेत्, स बलादप्युदारशरीरां संयती गृह्णीयात् / व्रतिनीषु वा मध्ये काचिद्यतिनी मोहयेत्, कस्यापि गृहिणः पार्श्वे दूतीः प्रक्षेपयेत्। गृही वा कश्चित्तस्याः संयत्याः प्रसुप्तायाः सुप्तेषु साध्वीषु रात्रौ काञ्चिदगारिणीं प्रेष्यदौत्यं कारयेत्। आगारीषु वा मध्ये काचित्संक्षोभणं परावर्त कुर्यात्। संयतीसत्कानि वस्त्राणि प्रावृत्य शयीतसंयती तुतदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशं गच्छेदित्यर्थः, यस्मादेवमादयोदोषास्तस्मात्अप्रावृतद्वारेप्रतिश्रयेसाध्वीभिर्नस्थातव्यम्। द्वितीये पदे तिष्ठतां किं कर्तव्यमित्याह-- पत्थारो अंतो बहि, अंतो बंधाहिँ चिलिमिलि उवरि। परिहारिदारमूले,मत्तगसुघडं च जयणाए॥२००।। प्रस्तार्यत इति प्रस्तारः कटः सचतयोःस्थानयोर्विधातव्यः। तद्यथाप्रस्तारः द्विधा-अन्तः, बहिश्च। अन्तरे अभ्यन्तरप्रस्तारे-'बन्धाहित्ति बधान नियन्त्रय चिलिमिलिषु परिविधिना कायिकीषु योजनीया। प्रतीहारी द्वारमूले तिष्ठति, मात्रविसर्जन स्वपनं च यतनया कर्त्तव्यमिति नियुक्तिगाथासमासार्थः। अथ विस्तरार्थमाहअसई य कवाडस्स, विदलकडादीउ दो कता उमओ। फरुसुद्वियस्स सरिसो, बाहिरकडयम्मि बंधो उ॥२०१।। यदि द्वारं कपाटसहितं भवति, ततः सुन्दरमेव / अथ नास्ति ततः कपाटस्यासति प्रस्तारः क्रियते / प्रस्तारः कटः स च द्विदलकः। यदि द्विदलं वंशदलं तन्मयः कटो द्विदलकटः आदिशब्दात्-शरकटः परिगृह्यते, ईदृशौ द्वौकटौद्वारस्योभयतः क्रियेते। एकोऽभ्यन्तरे, द्वितीयो बहिरित्यर्थः। ततः स्फरकस्य या मुष्टिर्ग्रहणस्थानं तस्य सदृशो बन्धो बाह्यकटे अभ्यन्तरतो दातव्यः। सच बन्धःकिम्मयः कर्तव्य इत्याह-- सुत्ताइरनुबंधो, दुच्छिा अभिंतरिलकडयम्मि। हेहा मजमे उवरिं, तिग्निं वि दो वा भवे बंधा // 202|| सूत्रस्यादिशब्दाद्-वल्कलस्य वा ऊण्र्णाया वायो रज्जर्दवरकः परिस्थूणे दृढश्च, तस्य बन्धा बाह्यकटके स्फरमुष्टिकसदृशो दातव्यः, अभ्यन्तरकटे च द्वे छिद्रे कर्तव्ये कथमित्यत आह- 'हेट्ठा मज्झे उवरि' त्ति मध्ये स्फरकमुष्टरनुश्रेण्यामेवाधस्तादुपरि छिद्रद्वयं कर्तव्यम्। ततो बाह्यकटकस्फुरकमुष्टिदवरको दृढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि छिद्रयोः प्रवेश्य ततोऽभ्यन्तरेण निष्कास्य निविडं बन्धनीयः। ईदृशौ द्वौ वा त्रयो वा बन्धा बध्यन्ते / अभ्यन्तर-प्रस्तारस्य चोपरि चिलीमिली बध्यते, सा च तन्निबध्नाति गोपयति, तथा चते बन्धा बध्यन्ते, यथा प्रतिहारी मुक्त्वा अन्या काचिन्न जानाति।