________________ वसहि 165 - अभिधानराजेन्द्रः - भाग 6 वसहि स्त्रीवेषनपुंसकानां मध्ये काथिकतरुणीषु चतसृष्वपि तिष्ठन्तीनां चतुर्गुरुकाः शेषास्वपि द्वाविंशतिसंख्याकासु स्त्रीषु द्वाविंशतौ च स्त्रीनपुंसकेषु चतुर्लघुकाः। एवं श्रमणीनां स्त्रीवर्गे प्रायश्चित्तं ज्ञातव्यम्। काहीया तरुणेसुं,चउसु वि मूलं तु ठायमाणीणं। सेसेसुं चउगुरुगा, समणीणं पुरिसवग्गम्मि||५|| पुरुषाणां पुरुषनपुंसकानां च संजयसंज्ञिनां ये चत्वारः काथिकास्तरुणास्तेषु तिष्ठन्तीनां निर्ग्रन्थीनां मूलम्, शेषेषुपुरुषेषु पुरुषनपुंसकेषु प्रत्येकं चत्वारो गुरुकाः। एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम्। अथ परप्रायश्चित्तदोषमाहथेराइएस अहवा, पंचग पण्णरसमासलहुओ उ। छेदो मज्झत्थादिसु, काहियतरुणीसुधउलहुओ।।४४६|| सन्नी य असन्नीणं, पुरिसनपुंसेसु एस साहूणं / एएसु वि इत्थीसु, गुरुओ समणीण विवरीओ|७|| अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकपञ्चदशको मासलघुः छेदो दातव्यः। तद्यथा-मध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकछेदः, मध्येषुमध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषु लघुमासिकच्छेदः / एवमाभरणप्रियेषु कान्दर्पिकेषु च त्रिविधेष्वपि मन्तव्यम्। काथिका अपि ये स्थविरा मध्यमाश्च तेष्वेवमेवावसातव्यम्। विशेषं चूर्णिकृत्पुनराह'काहीण घरं पनरस राइंदियाणि लहुओ छेदो, मज्झिमे मासलहुओ छेदे' ति ये तु काथिकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः, एवं पुरुषनपुंसका वा ये संज्ञिनस्तेषां समुदितानां ये अष्टचत्वारिंशत्संख्याका भेदास्तेषु यथोक्तक्रमेणैषु पञ्चकच्छेदः साधूनां भवति! स्त्रीषु स्त्रीनपुंसकेषु चैतेष्वेव मध्यस्थस्थविरादिभेदेषु साधूनामेष एव छेदो गुरुकः कर्त्तव्यः / तद्यथा- गुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति / श्रमणीनां पुनरेष एव छेदो विपरीतो दातव्यः, किमुक्तं भवति-श्रमणीनां स्त्रीवर्गे तिष्ठन्तीनां लघुपञ्चकादिच्छेदः / पुरुषवर्गे तु गुरुपञ्चकादिकः। शेषं सर्वमपि प्राग्वद्रष्टव्यम्। बृ०१ उ०३ प्रका (13) इहापि वसतिदोषविशेषप्रतिपादनायाहगाहावती णामेगे सुतिसमायारा भवंति, से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवति, जं पुट्वं कम्मं तं पच्छा कम्मंजपच्छाकम्मंतं पुरेकम्म, तं भिक्खुपडियाए वट्टमाणा करेजा वा णो करेखा वा / अह भिक्खू णं पुख्दोवदिद्वा०४ जंतहप्पगारे उवस्सए णो ठाणं वा चेतेजा। (सू०-७२) एके–केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति, भोगिनो वा चन्दनागुरुकुकुमकपूरादिसे-विनः, भिक्षुश्चाऽस्नानतया तथा कार्यवशात् 'मोय' त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतच तेषां गृहस्थानां प्रतिकूलो नानुकूलः अनभिमतः, तथा प्रतिलोमस्तद्गन्धाद्विपरीत- | गन्धो भवति, एकार्थिको चेतावतिशयानभिमतत्वाख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात् कुर्वन्ति,यदा-पश्चात् कृतवन्तस्तत्पूर्व कुर्वन्तिाएव-मवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसंभवः / यदिवा-ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चा-न्तरायमनः पीडादिदोषसंभवः / अथवा त एव साधवो गृहस्थोप-रोधाद्यत् पूर्वं कर्म प्रत्युपेक्षणादिकं तत्पश्चात् कुर्युः, विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा / अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति (प्रतिबद्धशय्यायाः सर्वो विषयः पडिबद्धसिज्जा' शब्दे पञ्चमभागे 326 पृष्ठे गतः।) तत्र गृहपतिना भोजनं संस्कृतं स्यात्तदा दोषमाहआयाणमेयं भिक्खुस्सगाहावईहिं सद्धिं संवसमाणस्स इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा, भिक्खुपडियाए असणं वा पाणं वा खाइम वा साइमं वा उवक्खडेज वा उवकरेज वा, तं च भिक्खू अभिकंखेशा भोत्तए वा पायए वा वियट्टित्तए वा। अह भिक्खूणं पुय्वोवदिहा०४ाजंणो तहप्पगारे उवस्सए ठाणं वा चेतेजा। (सू०-७३) कर्मोपादानमेतद्भिक्षोर्यद् गृहस्थावबद्ध प्रतिश्रये स्थानमिति, तद्यथा'गाहावइस्स अप्पणो' त्ति तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ विरूपरूपो नानाप्रकार आहारः संस्कृतः स्याद् / अथ-अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यादुपकरणादि वा ढौकयेत्तं च तथाभूतमाहारं साधु क्तुं पातुं वाऽभिकाङ्केत्, “वियट्टित्तए व' त्ति तत्रैवाहारगृद्ध्या विवर्तितुमासितुमाकाङ्केत्, शेषं पूर्ववदिति / एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयम्। तद्यथा यत्र गृहपतिः काष्ठं भिन्देत् अग्निं वा प्रज्वालयेत्तदाहआयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संवसमाणस्स इह खलु गाहावइस्स अप्पणो सयहाए विरूवरूवाई दारुयाई मिन्नपुव्वाई भवंति,अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई भिंदेज वा किणेज वा पामिचेज्ज वा दारुणा वा दारुपरिणामं कटु अगणिकायं उज्जालेज वा पञ्जालेज वा तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू वा भिक्खुणी वाजंनो तहप्पगारे उवस्सए णो ठाणं चेतेजा। (सू०७४) आचा०२ श्रु०१चू०२ अ०२०। अप्रावृत्तद्वारे निषेधमाह-- नो कप्पइ निग्गंथीणं अवंगुयदुवारिए उवस्सए वत्थए / एगं पत्थारं अंतो किचाएगं पत्थारं बाहिं किच्चा ओहाडिय चिलिमिलियागंसि एव ण्हं कप्पइ वत्थए // 14 //