________________ वसहि 963 - अभिधानराजेन्द्रः - भाग 6 वसहि एकैके मध्यस्थादयस्त्रिविधाः स्थविराः तथा मध्यमाश्च तरुणाचा ततो मध्यमस्थादयश्चत्वारः स्थविरादिभेदत्रयेण गुण्यन्तेजाता द्वादशभेदाः। एवं संज्ञिनः श्रावकाचतेद्वादशविधाः,असंज्ञिनोऽपि द्वादशविधा भवन्ति। एतेष्वेव प्रायश्चित्तमाहकाहीया तरणेसुं, चउसु विचउगुरुग ठायमाणस्स। सेसेसुंचउलहुगा, समणाणं पुरिसवग्गम्मि॥४३२।। संज्ञिनामसंज्ञिनां च यः काथिकस्तरुणः एतौ द्वौ भेदी ये वक्ष्यमाणा नपुंसकाः पुरुषनेपथ्याः तेषामपि संज्ञिनामसंज्ञिनां चेकैकाधिकस्तरुणः, एते चत्वारो भेदाः। एतेषु चतुर्षु तिष्ठतां प्रत्येकं चत्वारो गुरुकाः। शेषेषु तिष्ठतां प्रत्येकं चतुर्लघु। एतत्प्रायश्चित्तं श्रमणानां पुरुषवर्गे भणितम्। कारणे पुनस्तिष्ठतां विधिमाहसन्नीसु पढमवग्गे, असती अस्सन्नि पढमवग्गम्मि। तेण परं सन्नीसु, कम्मेण,अस्सन्निसुंचेव // 433|| वसतौ निर्दोषायामसत्यां संज्ञिषु ये प्रथमवर्गे मध्यस्थाः पुरुषास्ते तत्र तिष्ठन्ति, तत्रापि, प्रथम स्थविरेषु, तेषामभावे मध्यमेषु, तदलाभे तरुणेष्वपि / अथ संज्ञिनां प्रथमवर्गो न स्थाप्यते ततोऽसंज्ञिनामपि प्रथमवर्गस्थविरमध्यमतरुणेषु यथाक्रमं तिष्ठन्ति। ततः परमेतेषामभावे द्वितीयादिवर्गेषु क्रमेण तिष्ठन्ति। द्वितीयवर्गो नाम-आभरणप्रियाः तेषु प्रथम संज्ञिषु स्थविरमध्यमतरुणेषु एतेष्वेवा-संज्ञिषु तदभावे संज्ञिनां तृतीयवर्गे कान्दर्पिकपुरुषेषु, तेषामलाभे असंज्ञिनांतृतीयवर्गस्थविरादिषु यथाक्रमं स्थातव्यम्। एवं एकेकतिगं,वोचत्थ कमेण होइ नायव्वं / मुत्तूण चरिम सन्नि, एमेव नपुंसएहिं पि॥४३४|| एवं मध्यस्थादिषु एकैकस्मिन् त्रिकं विपर्यस्तक्रमेण। प्रथम स्थविरेषु, ततो मध्यमेषु, ततस्तरुणेषु इत्येवं लक्षणेन ज्ञातव्यं परं मुक्त्वा चरम संज्ञिनम्। किमुक्तं भवति-चरमो भेदः काथिकस्तत्र संज्ञिनि प्रथमतस्त्रिकं न वारयितव्यं किंतु द्विकम्। तद्यथा-यदा तृतीयवर्गो न प्राप्यते तदाचतुर्थवर्गे प्रथमसंज्ञिषु काथिकस्थविरेषु, तदलाभेकाथिकमध्यमेषु, तदप्राप्तावसंज्ञिषु काथिकस्थविरेषु, तदभावेकाथिकमध्यमेषु तिष्ठन्ति / अथ तेऽपि न प्राप्यन्ते ततः संशिषुकाथिकतरुणेषु,तदभावे असंशिष्वपि काथिकतरुणेषु तिष्ठन्ति।तत्रोभयेऽपि प्रज्ञापनया यथा कथां न कथयन्ति एवं पुरुषेषुस्थातव्ये विधिरुक्तः / एवमेव च नपुंसकेष्वपि वक्तव्यः। (बृ०) / (तत्रत्यविधिः ‘णपुंसग' शब्दे चतुर्थभागे 1806 पृष्ठे दृष्टव्यः) एतेषु प्रायश्चित्तमाहजह चेव य पुरिसेसुं, सोही तह चेव पुरिसवेसेसुं। तेरासिएसु सुविहिय, पडिसेवगअपडिसेवीसुं।४३७।। यथैव पुरुषेषुशोधिरुपवर्णिता, तथैव पुरुषवेषेष्वपि त्रिराशिके नपुंसकेषु सुविहितप्रतिसेविकेषु वा शोधिं जानीहीत्युपस्कारः / सा चेयम्पुरुषनपुंसकानां ये काथिकास्तरुणास्तेषु चत्वारो गुरवः, शेषेषु भेदेषु चतुर्लघुकाः / कारणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरुषनपुंसकेष्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः। जह कारणे पुरिसेसुं, तह कारणे इत्थियासु वि वसिञ्जा। अद्धाण वास सावय, तेणेसु व कारणे वसती॥४३८|| यथा कारणे पुरुषेषु पुरुषवेषनपुंसकेषु वा वसन्ति तथा स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु कारणे वसेयुः। किं पुनस्तत्कारणमित्याह-अध्वानं प्रतिपन्नास्ततो निर्गता या शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उद्यानादौ तिष्ठन्ति। अथ वर्ष पतति, बहिर्वा श्वापदभयं शरीरोपधिस्तेनभयं वा तत ईदृशे कारण स्त्री-सागारिके, तदभावे स्त्रीवेषधारिषु नपुंसकेषु पूर्वोक्तक्रमेण वसन्ति। निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम्काहीया तरुणेसुं,चउसु वि मूलं तु ठायमाणाणं / सेसासु विचउगुरुगा, समणाणं इत्थिवग्गम्मि॥३६॥ स्त्रीषु स्त्रीवेषधारिषुच नपुंसकेषु याश्चतस्रः काथिकतरुण्यस्तासु तिष्ठता निर्ग्रन्थानां मूलम्, शेषासु संज्ञिनीषु असंज्ञिनीषु वा स्त्रीषु चतुर्गुरुकाः, एवं श्रमणानां स्त्रीवर्गे तिष्ठतां प्रायश्चित्तमुक्तम्। जह चेव य इत्थीसुं, सोही तह चेव पुस्सिवेसेसुं। तेरासिएसु विहिया, ते पुण नियमा उपडिसेवी ||4|| यथैव श्रमणानां स्त्रीषु तिष्ठतांशोधिरभिहिता तथैव स्त्रीवेषेषु त्रैराशिकेषु सुविहितशोधिमवबुध्यस्वेत्युपस्कारः। ते पुनः स्त्रीनपुंसका नियमात्प्रतिसेविनः / प्रतिसेवनाकारापणशीला इति। अथ कारणे तिष्ठतां यतनामाहएमेव हॉति इत्थी, वारस सन्नी तहेव अस्सन्नी। सन्नीण पठमवग्गो, असइ असन्नीण पढमम्मि॥४४१|| एवमेव-पुरुषवत् स्त्रियः स्त्रीवेषधारिणश्चनपुंसका मध्यस्थादिभिश्च भेदैः द्वादशसंज्ञिनो द्वादश वा असंज्ञिनः प्रत्येकं भवन्ति, तत्र प्रथमसंज्ञिनां प्रथमवर्गे मध्यस्थस्त्रीलक्षणे तदभावे असंज्ञिानां प्रथमवर्गे स्थविरादिक्रमेण स्थातव्यम्। एवं एकेकतिगं, वोचत्थ कमेण होइ नायव्वं / मोत्तूण चरिमसन्नि, एमेव नपुंसएहिं पि॥४४२|| एवमेकैकस्मिन्नाभरणप्रियादौ वर्ग त्रिकं तरुण्यादिभेदत्रयं विपर्यस्तक्रमेण नेतव्यम्। प्रथम स्थविरासुततो मध्यमासुततस्तरुणीषु परं मुक्त्वा चरमा काथिकाख्यां संज्ञिनीम्। तत्र हि प्रथम संज्ञिनीषु स्थविरासु, ततो मध्यमासु, तदलाभे असंज्ञिनीषु स्थविरामध्यमासु, ततः संज्ञिनीषु स्थविरामध्यमासु, ततः संज्ञिनीषुतरुणीषु, तदप्राप्तौ संज्ञिनीषु तरुणीषु, तदप्राप्तावसंझिनीषुतरुणीषु तिष्ठन्ति। एवमेव स्त्रीवेषधारिषु नपुंसकेष्वपि द्रष्टव्यम्।भावितं निर्ग्रन्थसूत्रद्वयम्। __संप्रति निर्ग्रन्थीसूत्रद्वयं भावयतिएसेव कमो नियमा, गिरगंथीणं पि होइनायब्दो। जह तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा // 453|| एष च क्रमो-नियमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः / परं यथा तेषां निर्ग्रन्थानां स्त्रियो गुरुकतरा ज्ञातव्याः। काहीया तरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं / सेसासु विचउलहुगा, समणीणं इत्थिवग्गम्मि||४||