SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मण 75 - अभिधानराजेन्द्रः - भाग 6 मण (अनन्तरं मनो निरूपितं, तच काये सत्येव भवतीति कायनिरूपणायाऽऽह-(आया भंते ! कायेत्यादि) आत्मा कायः कायेन कृतस्यानुभवनात्, न ह्यन्येन कृतमन्योऽनुभवत्यकृताऽऽगमप्रसङ्गात्, अथान्यः आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः उत्तरम्- त्वात्माऽऽपि कायः कथञ्चित्तदव्यतिरेकाक्षीरनीरवत् अग्न्ययः पिण्डवत्, काञ्चनोपलवद्वा, अत एव कायस्पर्श सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यतेऽत्यन्तभेदे च अकृताऽऽगमप्रसङ्ग इति।) भ०१३ श०७ उ०। अत्थाणंतरचारि य, नियतं चित्तं ति कालविसयं तु। अर्थे शब्दाऽऽदाविन्द्रियव्यापारादनन्तरंचरति व्याप्रियत इत्येवंशीलमर्थानन्तरचारि, इन्द्रियैः प्रथमं व्यावृत्ते पश्चाद् मनोव्याप्रियते इति भावः / नियतं नियतार्थविषयं नैककालमनेकविषयमित्यर्थः, चित्तं मनः / पुनः कथम्भूतमित्याह-त्रिकालविषयं त्रिष्वपि कालेषु यथायोग्यं विषयो यस्य तत्तथा / बृ०१ उ०१ प्रक०। मनसोऽप्राप्यकारिता - गंतुं नेएण मणो, संबज्झइ जग्गओ व सिमिणे वा। सिद्धमिदं लोयम्मि वि, अमुगत्थगओ मणो मे त्ति / / 213 / / 'गंतु' देहाद निर्गत्य ज्ञयेन मेरुशिखरस्थजिनप्रतिमाऽऽदिना सम्बयते संश्लिष्यते मनः / कस्यामवस्थायाम् ? इत्याह जाग्रतः स्वप्ने वा / अनुभवसिद्ध चैतद्, न च ममैव किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येव वक्तारो भवन्ति-अमुत्र मे मनो गतमिति / अतः प्राप्यकारि मनः / इति प्रेरकगाथाऽर्थः // 213 // अत्रोत्तरमाहनाऽणुग्गहोवघाया-भावाओ लोयणं व सो इहरा। तोय-जलगाइचिंतण-काले जुञ्जेज दोहिं पि॥१२४|| न ज्ञेयेन सह संपृच्यते मनः' इति गम्यते।कुतः ? इत्याह-'अणुग्गहोवघायाभावाउत्ति' ज्ञेयकृतानुग्रहो-पघाताभावात्, लोचनवत्। यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् ? इत्याह-'सो इहर त्ति' तद् मन इतरथा-ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोयज्वलनाऽऽदिविषयचिन्तनकालेद्वाभ्यामप्यनुग्रहोपघाताभ्यां युज्यते-तोयचन्दनाऽऽदिचिन्तनकाले शैत्याऽऽद्यनुभवनेन स्पर्शनवदनुगृह्यते, दहन-विष-शस्त्राऽऽदिचिन्तनसमये तुतद्रदेवोपहन्येतेति भावः न चैवम्। तस्माल्लोचनवदप्राप्यकार्येव मनः / इति गाथाऽर्थः // 214|| किञ्च-मनसः प्राप्यकारितावादिनः प्रष्टव्याः। किम् ? इत्याहदव्वं भावमणो वा, वएज्ज जीवो य होइ भावमणो। देहव्वावित्तणओ, न देहबाहिं तओ जुत्तो।।२१।। इह मनस्तावद द्विधा-द्रव्यमनः, भावमनश्चेति। अतः सूरिः परं पृच्छति'दव्वं ति' द्रव्यमनः, भावमनो वा, व्रजेद् गच्छेद् 'मेर्वादिविषयसन्निधौ' / इति गम्यते। किमनेन पृष्टेन ? इति चेत्। उभयथाऽपि दोषः / तथाहिभावमनसश्चिन्ताज्ञानपरिणामरूपत्वात, तस्य च जीयादव्यतिरिक्तन / त्वाजीव एव भावमनो भवति। जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तर संबन्धनीयः। ततोऽयमर्थः-सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् देहात् न बहिनिः सरन् युक्तः, इह ये देहमात्रवृत्तयः न तेषां बहिनिःसरणमुपपद्यते, यथा तद्गतरूपाऽऽदीनाम, देहमात्रवृत्तिश्च जीवः / इति गाथाऽर्थः // 21 // देहमात्रव्यापित्वस्याऽसिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः सूरिराहसव्वगउ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण। सव्यासव्वग्गहण-प्पसंगदोसाइओवा वि॥२१६|| अथ स्याद् बुद्धि, परस्य-सर्वगत आत्मा, नतु देहमात्रव्यापी, अमूर्तत्वात्, आकाशवदिति / अत्र गुरुराह-तदेतन्न / कुतः ? इत्याहभावप्रधानत्वान्निर्देशस्य कर्तृत्वाभावाऽऽदिदोषत इति-सर्वगतत्वे सत्यात्मनः कर्तृत्वाऽऽदयो गोपाङ्गनाऽऽदिप्रतीता अपि धर्मा नघटेरन्निति भावः। तथाहि न कर्ताऽऽत्मा, सर्वगतत्वात्, आकाशवत्। आदिशब्दादभोक्ता, असंसारी, अज्ञः, न सुखी, न दुःखी आत्मा, तत एव हेतोः, तद्वदेव, इत्याद्यपि दृष्टव्यम् / आह परः-नन्वात्मनो निष्क्रियत्वात् कर्तृत्वाऽऽद्यभावः साङ्ख्यानां न बाधायै कल्पते। तथा च तैरुक्तम्"अकर्ता निर्गुणो भोक्ताऽऽत्मा'' इत्यादि / एतदप्ययुक्तम्, तस्य निष्क्रियत्वे प्रत्यक्षाऽऽदिप्रमाणोपलब्धभोक्तृत्वाऽऽदिक्रियाविरोधप्रसङ्गात् / प्रकृतेरेव भोगाऽऽदिकरणक्रिया, न पुरुषस्य, आदर्शप्रतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति चेत् / एतदप्यसङ्गतम्, प्रकृतेरचेतनत्वात्। "चैतन्यं पुरुषस्य स्वरूपम्।" इति वचनात् अचेतनस्य च भोगाऽऽदिक्रियाऽयोगात्, अन्यथा घटाssदीनामपि तत्प्रसङ्गादिति / न केवलं कर्तृत्वाऽऽद्यभावतः सर्वगतत्वमात्मनो न युक्तम्, किन्तु सर्वाऽसर्वग्रहणप्रसङ्गतोऽपि च तदसङ्गतम्। इदमुक्तं भवति-आत्मनः समात्रिभुवनगतत्वे प्राप्यकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भावमनसोऽपि सर्वगतत्वात् सर्वार्थप्राप्तेः सर्वग्रहणप्रसङ्गः, तथा च सर्वस्य सर्वज्ञत्वप्रसक्तिः / अथोक्तन्यायेन प्राप्तानपि सर्वार्थानभिहितदोषभयात् न गृह्णातीत्युच्यते। तर्हि सर्वार्थाग्रहणप्रसङ्ग:-ग्राह्यत्वेनेष्टानप्यर्थान् मा ग्रहीभावमनः, प्राप्तत्वाविशेषात्, अग्राह्यत्वेनेष्टार्थवदिति भावः। अथ प्राप्तत्वाविशिष्टत्वेऽपि कांश्चिदर्थानेतद् गृह्णाति, काश्चिद् नेत्युच्यते। तर्हि व्यक्तमीश्वरचेष्टितम्, न चैतद् युक्तिविचारे क्वचिदप्युपयुज्यत इति। आदिशब्दात्- सर्वगतत्त्वे आत्मनोऽन्यदपि दूषणमभ्यूह्यम्। तथाहि-यथाऽङ्गुष्ठाऽऽदौ दहनदाहाऽऽदिवेदनायां मस्तकाऽऽदिष्वप्यसावनुभूयते, तथा सर्वत्रापि तत्प्रसङ्गः, न च भवति-तथाऽनुभवाभावात्, अननुभूयमानाया अपि भावाभ्युपगमेऽतिप्रसङ्गात्। किञ्च-सर्वगतत्वे पुरुषस्य, नानादेशगतस्रक्चन्दनाङ्गनाऽऽदिसंस्पर्शऽनवरतसुखासिकाप्रसङ्गः; वहि-शस्त्र-जलाऽदिसम्बन्धेतु निरन्तरदाह-पाटनक्लेदनाऽऽदिप्रसङ्गश्च / यत्रैव शरीर तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् / कुतः ? इति वक्तव्यम्। आज्ञामात्रादेवेति चेत् / न, तस्येहाविषयत्वात्। सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् / न, नित्यस्य सहकार्यपेक्षाऽयोगात् / तथाहि-अपेक्ष्यमाणेन
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy