________________ मण 76 - अभिधानराजेन्द्रः - भाग 6 मण सहकारिणा तस्य कश्चिद् विशेषः क्रियते, न वा ? यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? यद्याद्यः पक्षः, तर्हि तस्य न किञ्चित् कृतं स्यात्। अथापरः,तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात्, कृतस्य चाऽनित्यत्वात् तस्याऽनित्यत्वप्रसङ्गः / अथ मा भू देष दोष इति 'न क्रियते' इत्यभ्युपगम्यते / हन्त ! न तर्हि स तस्य सहकारी, विशेषाकरणात्। अथ विशेषमकुर्वन्नपि सहकारीष्यते, तर्हि सकलत्रैलोक्यस्याऽपि सहकारिताप्राप्तिः, विशेषाऽकरणस्य तुल्यत्वात्, इति वृथा शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम्, तत्तु नोध्यते, ग्रन्थगहनताप्रसङ्गात्। तस्माच्छरीरयात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति / अतस्तदव्यतिरिक्तस्य भावमनसोन शरीराबहिनिःसरणमुपपद्यत इति स्थितम् / इति गाथाऽर्थः / / 216 / / अथ द्रव्यमनोविषयदेशं व्रजतीति ब्रूयात, तत्राऽप्याहदव्वमणो विण्णाया,न होइ गंतुं च किं तओ कुणउ? | अह करणभावओ त-स्स तेण जीवो वियाणेज्जा / / 217 / / काययोगसहायजीवगृहीतचिन्ताप्रवर्तकमनोवर्गणाऽन्तः-पातिद्रव्यसमूहाऽऽत्मक द्रव्यमनः स्वयं विज्ञातृ न भवत्येव, अचेतनत्यात उपलशकलवत्, इत्यतो गत्वाऽपि मेर्वादि विषयदेशं किं तद् वराक करोतु? तत्र गतादपि तस्मादविगमाभावादिति भावः / पराभिप्रायमाशङ्कते'अह करणेत्यादि' अथ मन्यसे यद्यपि द्रव्यमनः स्वयं न किशिञानाति, तथाऽपि करणभावः, करणत्यं तस्य द्रव्यमनसः प्रदीपाऽऽदेरिक्तस्तुनि प्रकाशयितव्ये समस्ति / ततो जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादवबुध्येत मेदिक वस्त्विति / अत्र प्रयोगः-बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयं जानाति जीवः, करणत्वात्, प्रदीप-मणि-चन्द्रसूर्याऽऽदिप्रभयेव / इति गाथाऽर्थः // 217 // अनोत्तरमाहकरणत्तणओ तणुसं-ठिएण जाणिज्ज फरिसणेणं व। एत्तो चिय हेऊओ, न नीइ बाहिं फरिसणं व // 218 / / को वैन मन्यते, यदुत अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ? किन्तुकरणं द्विधा भवति-शरीरगतमन्तः-करणम्, तबहिर्भूतं बाह्यकरणं च। तत्रेदं द्रव्यमनोऽन्तः करणमेवाऽऽत्मनः / ततश्च करणतणउ ति' सूत्रस्य सूचामात्रत्वात्, एकदेशेन समुदायस्य गम्यमानत्वाचान्तः करणस्वादित्यर्थः, तनुसंस्थितेन शरीराद् बहिर्निर्गतेन जीवस्तेन जानीयाद मेर्वादिविषयम्, स्पर्शनेन्द्रियेणेव कमलनालाऽऽदिस्पर्शम् / प्रयोगःयदन्तः करणं तेन शरीरस्थेनैव विषयं जीवो गृह्णाति, यथा स्पर्शनन, अन्तः करणं च द्रव्यमनः / प्रदीप-मणि-चन्द्र-सूर्यप्रभाऽऽदिक तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः। आह-ननु शरीरस्थापि तत् पद्मनालतन्तुन्यायेन बहिर्द्रव्यमनः किं न निःसरति ? इत्याह-'एत्तो चियेत्यादि' इत एवान्तः करणत्वलक्षणाद्धेतोर्बहिर्न निर्गच्छति द्रव्यमनः, स्पशवत। प्रयोगः यदन्तः-करणं तच्छरीराबहिर्न निर्गच्छति, यथा स्पर्शनम् / इति गाथाऽर्थः // 218 / / तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताऽऽद्यभावादप्राप्यकार्येय मन इत्युक्तम् / सांप्रत 'नाणुग्गहोवघायाभावाओ लोयण या' इत्यादिना मनसोऽप्राप्यकारितायाम्, अनुग्रहोपघाताभावात इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धि समुद्भावयन्नाहनज्जइ उवघाओ से, दोव्वल्लो-रक्खयाइलिंगेहिं। जमणुग्गहो य हरिसा-इएहिँ तो सो उभयधम्मो // 216 / / इह मृतनष्टाऽऽदिक वस्तु चिन्तयतः, अत्यात-रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते। कैः ? इत्याह हौर्बल्योरः क्षताऽऽदिलिङ्गैः दौर्बल्य देहापचयरूपम्, उरःक्षतमुरोविधातः हृदयबाधेति यावत्। आदिशब्दाद्वातप्रकोपवैकल्याऽऽदिपरिग्रहः / अनुग्रहश्च यद्यस्मात् तस्येष्टसंगम-विभवलाभाऽऽदिकं वस्तु चिन्तयतो हर्षाऽऽदिभिरनुमीयते / तत्र वदनविकाश-रोमाञ्चोगमाऽऽदिचिह्नगम्यो मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयोत्सहाऽऽविग्रहः। तत् तस्मात्कारणात् तद्मनउपघाताऽनुग्रहलक्षणोभयधर्मकमेव / अयमत्र भावार्थः-यः शोकाऽऽद्यतिशया देहोपचयरूपः, आर्ताऽऽदिध्यानातिशयाद हृदरोगाऽऽदिस्वरूपश्चोपघातः, यश्च पुत्रजन्माऽऽद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षाऽऽदिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयाद् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् / ततश्चैवं मनसोऽनुग्रहोपघातयुक्तत्वात्तच्छूयत्वलक्षणो हेतुरसिद्धः इति गाथाऽर्थः // 216 // तदेतत् सर्व परस्याऽसंबद्धभाषितमेवेति दर्शयन्नाहजइ दव्वमणोऽतिबली, पीलिज्जा हिदिनिरुद्धवाउ व्व / तयणुग्गहेण हरिसा-दउ व्व नेयस्स किं तत्थ ? ||220 / / यदि-नाम द्रव्यमनो मनस्त्वपरिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकाऽऽदिसमुद्भूतपीडया जीवं कर्मताऽऽपन्न देहदौर्बल्याऽऽद्यापादनेन पीडयेत्, हृन्निरुद्धवायुवत: हृदयदेशाऽऽश्रितनिविडगरुग्रन्थिवदित्यर्थः यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गलसंघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षाऽऽदयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमेवदिर्मनसोऽनुग्रहोपघातकरणे किभायातम् ? इदमत्र हृदयम्- मनस्त्वपरिणतानिष्टपुगलनिचयरूपं द्रव्यमनोऽनिष्ट - चिन्ताप्रवर्तनेन जीवस्य देहदौर्वल्याऽऽद्यापत्त्या० हन्निरुद्धवायुवदुपघात जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाऽऽद्यभिनिवृत्त्या भेषजवदनुग्रहं विधत्त इति / अतो जीवस्यैतावनुग्रहोपघातौ द्रव्यमनः करोति, न तु मन्यमानमेदिक ज्ञयं मनसः किमप्युपकल्पयति / अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहोपघातसद्भावात् मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाऽऽघातविह्व लाभूतेनेवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिराद्धाविता / इति गाथाऽर्थः / / 220 // आह-नन्वलोकिकमिदं, यद्- द्रव्यमनसा जीवस्य देहोपचयदौर्ब ल्याऽऽदिरूपावनुग्रहोपघाती क्रियेते, तथा प्रतीतेरेवाभावात्, इत्याशङ्कयाऽऽह