________________ मण 77 - अभिधानराजेन्द्रः - भाग 6 मण इट्ठाऽणिट्ठाऽऽहारब्भव-हारे हों ति पुट्ठि-हाणीओ। जह तह मणसो ताओ, पोग्गलगुणउ त्ति को दोसो।।२२१।। ननु किमिहाऽलौकिकम् ! यतो भवतो लोकस्य च स-बालगोपालस्य तावत्प्रतीतमिदं यदुत-इष्टो मनोऽभिरुचितोय आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पुष्टिर्भवति, यस्त्वनिष्टोऽनभिमत आहारस्तस्याभ्यवहारे हानिर्भवतीति। ततश्च'जह त्ति यथा इष्टाऽनिष्टाऽऽहाराभ्यवहारे तत्पुद्गलानुभावात् पुष्टिहानी भवतः, 'तह त्ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् "ताउत्ति" ते पुष्टिहानी पुद्गलगुणतः पुद्गलानुभावाद् भवतः, तर्हि को दोषः ? न कश्चिदित्यर्थः / यथाऽऽहार इष्टाऽनिष्टपुद्गलमयत्वात् तदनुभावाज्जन्तुशरीराणां पुष्टिहानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निवर्तयति, तदा किं सूयते, येन पुगलमयत्वे समानेऽपि भवतोऽत्रैवाऽक्षमा ? इति भावः / तथा चोक्तम्-'"चिन्तया वत्स ! ते जात शरीरकमिदं कृशम्।" इति। चिन्तैव तर्हि कायाऽऽद्युपघाताऽऽदिजनिकेति चेत्। न, तस्या अपि द्रव्यमनः प्रभवत्वात्, अन्यथा चिन्ताया ज्ञानरूपत्वात्, ज्ञानस्य चाऽऽमूर्तत्वात्, अमूर्तस्य च नभस इवोपधाताऽऽदिहेतुत्वायोगात्, 'जमणुग्गहो-वघाया, जीवाण पोग्गलहितो।' इति वक्ष्यमाणात्वाच / इति गाथाऽर्थः // 221 / / अथोपसंहारगर्भ प्रस्तुतार्थविषये स्वाभिप्रायपरमार्थ दर्शयन्नाहनीउं आगसिउं वा, न नेयमालंबइ त्ति नियमोऽयं / तण्णेयकया जेऽणु-गहोवघाया य ते नऽत्थि // 222 / / इह न शरीराद्'निर्गन्तु' (निर्गत्य) द्रव्यमनो मेर्वादिकं ज्ञेयमर्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव 'आगसिउंति आक्रष्टुम् (आकृष्य) हठात् समाकृष्याऽऽत्मनः समीपमानीय ज्ञेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमुत्क्षिप्य विधीयते-प्राप्यकारीदं न भवतीति नियम्यत इति तात्पर्यम् / 'तण्णेयकया जेऽणुग्गहोवघाय ति' यौ च तज्ज्ञेयकृतौ तच तज्ज्ञेयं च तज्ज्ञेयं तत्कृतौ, मनसोऽनुग्रहोपघातौ परैरिष्येते, तौ तस्य न स्त एवेति च नियम्यते। इति गाथाऽर्थः / / 222 / / किं पुनर्न नियम्यते ? इत्याहसो पुण सयमुवघायण-मणुग्गहं वा करेज्ज को दोसो? जमणुग्गहोवघाया, जीवाणं पोग्गलेहिंतो / / 223 / / 'से' इति प्राकृतत्वात्पुंल्लिङ्गनिर्देशः, एवं पूर्वमुत्तरत्राऽपि च यथासंभवं द्रष्टव्यम्।तद्रव्यमनः पुनः स्क्यमात्मना शुभाऽशुभकर्मवशत इष्टाऽनिष्टपुद्गलराघातघटितत्वादनुग्रहोपघातौ मन्तुः कुर्यात् को दोषः ? नवयं तत्र निषद्धारः, ज्ञेयकृतयोरेव तस्य तयोरस्माभिर्निषिध्यमानत्वादिति भावः / जीवस्याऽपि तौ द्रव्यमनः कृतौ किमितिन निषिध्येते ? इत्याह'जमणुग्गही इत्यादि' यद्यस्मात्कारणादनुग्रहोपघातौ जीवानां पुद्गलेभ्य इति युक्तमव, इष्टाऽनिष्टशब्द-रूप-रस-गन्ध-स्पर्शापभोगाऽऽदिषु तथादर्शने-नाऽस्याऽर्थस्य निषेद्यमशक्यत्वादित्यर्थः / आह-ननु शब्दाऽऽदय इष्टाऽनिष्पुद्गलाऽऽत्मका इति प्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरु ष्यते तदिष्टाऽनिष्टपुगलमयमस्तीति कथं श्रद्दध्मः ? इति / अत्रोच्यते-योगिनस्तावदिद प्रत्यक्षत एव पश्यन्ति; अग्दिार्शिनस्त्वनुमानात्। तथाहि-यदन्तरेण यद् नोपपद्यते तद्दर्शनात् तदस्तीति प्रतिपत्तव्यम्, यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टाऽनिष्टपुद्गलसंघाताऽऽत्मकद्रव्यमनोव्यतिरेकेण जन्तूनामिष्टाऽनिष्टवस्तुचिन्तने समुपलब्धौ वदनप्रसन्नता-देहदौर्बल्याऽऽद्यनुग्रहोपधातौ, ततस्तदन्यथाऽनुपपत्तेरस्ति यथोक्तरूपं द्रव्यमनः / चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत्। न, जल-ज्वलनोदनाऽऽदिचिन्तने क्लेद-दाह-बुभुक्षोपशमाऽऽदिप्रङ्गादिति / 'चिन्तया वत्स ! ते जातं, शरीरकमिदं कृशम्' इत्यादिलोकोक्तेश्चिन्ताज्ञानकृतौ ताविति चेत्। तदप्ययुक्तम्, तस्याऽमूर्तत्वात्, अमूर्तस्य च कर्तृत्वायोगात्, आकाशवद्, इत्युक्तत्वात्, "चिन्तया वत्स !" इत्यादि-लोकोक्तेश्च कार्ये कारणशक्त्यध्यारोपेणौपचारिकत्वात् / खेदाऽऽदेस्तदुभूतिरिति चेत् / कोऽयं नाम खेदाऽऽदिः ? किं तान्येव मनोद्रव्याणि, चिन्ताऽऽदिज्ञानं वा ? आद्यपक्षे, सिद्धसाध्यता। द्वितीयपक्षस्तु विहितोत्तर एव। न च निर्हेतुकावेतौ, सर्वदा भवनाऽभवनप्रसङ्गात्, "नित्य सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् / अपेक्षातो हि भावना, कादाचित्कत्वसंभवः / / 1 / / " इति। नच जीवाऽऽदिक एवाऽन्यः कोऽपि तयोर्हेतुः, तस्य सदाऽवस्थितत्वेन तत एव सर्वदा भवनाऽभवनप्रसङ्गात्। एवमन्यदपि सुधिया स्वबुद्ध्या समाधानमिह वाच्यम्, इत्यलमतिविस्तरेण / तस्मादुक्तयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्चयं कुर्यादनुग्रहोपघातौ, ज्ञेयकृतौ तु तौ मनसो न स्तएव, इति न तत्प्राप्यकारि। इति गाथाऽर्थः / / 223 // आह-ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात्, तथाहि- 'अमुत्र मेरुशिखरा - ऽऽदिगतजिनाऽऽयतनाऽऽदौ मदीयं मनोगतम्' इति सुप्तैः स्वप्नेऽनुभूयत एव। तथा च-'गंतु नेएण मणो, संबज्झइ जग्गओ व सिमिणे वा।' इति मया प्रागेवोक्तम्, इत्याशङ्कय स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाहसिमिणो न तहारूवो, वभिचाराओ अलायचक्कं व / वभिचारो य सदसण-मुवघायाणुग्गहामावा।।२२।। इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वप्नः, स यथोपलभ्यते न तथारूप एव 'स्वप्नोपलब्धमोदकस्तथाविधपरमाऽऽचार्यरिव परैर्न सत्य एवमन्तव्य इत्यर्थः / कुतः? इत्याह-व्यभिचारात्अन्यथात्वदर्शनाद्। किंवद्-यथा न सत्यम् ? इत्याह-अलातचक्रमिवअलातमुल्मुकं तवृत्ताऽऽकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम्, अचक्ररूपताया एव तत्राऽवितथत्वात, भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात, एवं स्वप्नोऽपि न सत्यः, तदुपलब्धस्य मनोमेरुगमनाऽदिकस्याऽर्थस्याऽसत्यत्वात्। तदसत्यत्वं च प्रबुद्धस्य स्वप्नोपरमेतदभावात्। तदभावश्चतदवस्थायां