________________ वसहि 955 - अभिधानराजेन्द्रः - भाग 6 वसहि अथोपकरणप्रत्युपेक्षणादिषु द्वारेषु यतनामाहकडओघाचिलिमिणिं वा, असता सभए व बाहिँ जं अंतं। ठाणासती भयम्मिव, विज्झाएँगणिम्मि पेहंति॥१६॥ / अनरन्तरं वंशमयः कटो वस्त्रमयी वा चिलिमिलिका न दातव्या, ततः प्रत्युपेक्षणाप्रमार्जनादीनि सर्वाण्यपि पदानि कुर्वन्ति, कटक-चिलिमिलिकयोरभावे प्रतिश्रयाद्वहिरुपकरणं प्रत्युपेक्षणीयम् / अथ बहिः सभयं-स्तेनभययुक्तंततोयदन्त्यं परिजीर्णमुपकरणं तदहिः प्रत्युपेक्षन्ते, सारोपकरणं तु विध्माते ज्योतिषि प्रत्युपेक्षितव्यम् / अथ बहिः स्थानं नास्ति; यद्वा-अन्त्योपकरणस्यापि तत्रापहरणभयं ततः सर्वमप्युपधिं विध्मातेऽग्नौ प्रत्युपेक्षन्ते। जिंताण पमजंती, मूगावांस तु वंदणगहीणं / / पोरिसि बाहि मणेण व, सेहाण य दिति अणुसहि // 166|| निर्गच्छन्तः प्रविशन्तो वा तत्र प्रमार्जयन्ति आवश्यकमपि मूकं वाग्योगविरहितं वन्दनहीनंच कुर्वते। सूत्रार्थपौरुष्यौ बहिर्विदधति, बहिःस्थानाभावे मनसैव सूत्रमर्थ वा उपेक्षन्ते, ते च शैक्षा ज्योतिः प्रकाशे रागमुपगच्छन्ति। तेषां गीतार्था अनुशिष्टिं प्रयच्छन्ति। कथमित्याहनाणुजोया साहू, दव्वुञ्जोवम्मि मा हु गज्झित्था। जस्स विन एइ निद्दा, निमीलिओ वा सुवइ गिम्हे // 167|| ज्ञानोद्योता:-सकलजीवादिपदार्थसार्थप्रकाशकज्ञानलक्षणभावोद्योतकलिताः साधवो भवन्ति,अतो द्रव्योद्योतकेऽपि पद-पदार्थप्रकाशे ज्योतिःप्रभृतिके मा गृध्यत-रागमुपगच्छत। यस्य वा साधोः सप्रकाशे निद्रा न गच्छति साकल्पयेन प्रावृतः स्वपिति, ग्रीष्मकाले प्रावृतस्य घर्मो भवति, ततो निमीलितलोचनः खपिति। अथ स्वकावश्यकं वन्दनकहीनमिति पदं व्याचष्टेआवास बाहि असई, वंदणविगडणजयणथुतिहीणं / पोरिसि बाहिं अंतो, चिलिमिलि कातूण व झरंति॥१६८|| आवश्यकं बहिः कुर्वन्ति, अथ बहिः स्थानं नास्ति ततो यो यत्र स्थितः स तत्रैव स्थितः मनसैव च करोति-द्वादशावर्त वन्दनकं प्रयच्छति / विकटनामालोचनां यतनया वर्षाकल्पप्रावृतानि श्रेष्ठा एव कुर्वन्ति, स्तुतिहीनं नामस्तुतिमङ्गलं मनसैव कुर्वन्ति / अथ 'पोरिसिवाहिं ति पदं व्याख्यायते-सूत्रार्थपौरुष्यौ बहिः कुर्वन्ति। अथबहिःस्थानं नास्ति, ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलिकां कृत्वा क्षरन्ति-स्वाध्यायं कुर्वन्ति। 'वा' विकल्पो-पदर्शने,चिलिमिलिकाया अभावे मनसैव सूत्रम) वाऽनुप्रेक्षन्ते इत्यर्थः। मूगा विसंति निती, चउसगमाई कुओ वि अछि।ता। सेहा य जोइदूरे, जयंति य जा धरइ जोई / / 16 / / मूकाः-ये तूष्णीकाः प्रविशन्ति निर्गच्छन्ति, वा नषेधिकीमा वश्यिकीं च मनसैव कुर्वन्तीत्यर्थः / उत्फुल्लकमलातपादिशब्दादग्निशकटिकां वा क्वचिदप्यस्पृशन्तः / तथा निर्गच्छन्ति व प्रविशन्ति, यथा आपतनपतने न भवतः / ये च शैक्षा अगीतार्थाश्च निर्धाणस्ते ज्योतिषो दूरे | स्थापयितव्याः / गीतार्थवृषभाश्च तावत्-जाग्रति यावत् ज्योतिरग्निः ध्रियते, न विध्मायतीति भावः।मा शैक्षादयः प्रतापयेयुरिति कृत्वा मनसैव। अद्धाणाई अइनि-दपिल्लओ गीओ उसमिओ सुवइ। सावयभय उस्सके,तेणभये होइ भयणाओ॥१७०।। अध्वादिपरिश्रान्तोऽतिनिद्राप्रेरितो वा गीतार्थस्तमग्निमपसl स्वपिति, सिंहव्याघ्रादिश्वापदभये यतनया तान्युल्मकान्युत्सर्पयति। स्तेनभये तु भजना भवति / यद्याक्रान्तिकस्तेनास्तेतो मा ज्योतिः प्रज्वलदवलोक्य गमनं कार्युरिति कृत्वा तमग्निमपसर्पयति / अथ नाक्रान्तिकास्ततो ज्वलन्तमग्निं दृष्ट्वा जागृत्यमी इति बुद्ध्या ते नाभिद्रवन्ति, अतस्तेषु तमग्निमुत्सर्पयतीति। अद्धाणविवित्ता वा, परकड असती सयं तु जालेति। सूलाई व तवेलं, कयकजा छार अक्कमणं // 171 / / अध्वनि विविक्ताः-मुषिताः परकृतमन्यप्रज्वालितमग्नि सेवन्ते, अथ परकृतो न प्राप्यते ततः स्वयमात्मनेव ज्वालयन्ति शीतार्तास्तत्रेन्धनं प्रक्षिपन्तीत्युक्तं भवति / शूलमादिशब्दाद्विसूचिका वा तापयितुम्, परकृताभावे स्वयं ज्वालयन्ति कृतकार्या निष्ठिते क्षारेणाक्रमणं कुर्वन्ति मा प्रदीपनकं भविष्यतीति कृत्वा। सावयभयआणिंति व,सोउमणा वावि बाहि नीणिति। बाहिं पलीवणभया, छारे तस्स त्ति निव्वावे // 172 / / श्वापदभयेऽन्यस्मात् स्थानादग्निमनियन्ति। स्वप्नुमनसो वा तस्मात् स्थानात् बहिर्नयन्ति / अथ बहिः प्रदीपनकभयान्न नयन्ति ततस्तत्र स्थितमेव क्षारेण छादयन्ति, तथा क्षारस्याऽभावे निर्वापयन्ति-विध्मापयन्तीत्यर्थः। सूत्रम्उवस्सयस्स अंतो वगडाए सव्वराईएपईवे दीपेशा, नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा अहालंदमवि वत्थए हुरत्था य उवस्सयं पडिलेहमाणे नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइपरं एगरायाओ वा दुरायाओ वा वत्थएजे तत्थ एगरायाओ वा दुरायाओ वा परं वसेज्जा सेसंतरा छए वा परिहारे वा // 7 // अस्य व्याख्यानं ज्योतिःसूत्रवन्मन्तव्यम्। अथ भाष्यम्देसीभासाएँ कयं, जा बहिया भवे हुरत्थाओ। बंधणुलोमेण कयं, छेया परिहारपुष्वं तु // 173 / / अहव ण वारिजंतो, निक्कारणओ व तिण्ह व परेणं / छेयं चिय आवजे, छेयमओ पुटवमाहंसु // 174|| गाथाद्वयमपि गतार्थम्। दुविहो य होइ दीवो, असव्वराई य सव्वराई य। ठायंते लहु लहुगा, कास अगीयत्थसुत्तं तु / / 175|| द्विविधश्च भवति दीपः, तद्यथा-सार्वरात्रिकः, असार्वरात्रिकः / तत्र सार्वरात्रिकप्रदीपयुक्तायां तु चत्वारो लघवः।