________________ वसहि ९५६-अमिधानराजेन्द्रः - भाग 6 वसहि कस्य पुनरेतत्चतुर्लघुप्रायश्चित्तम्, सूरिराह-अगीतार्थस्य। इत ऊर्ध्वम् "नऽत्थि अगीयत्थो वा" इत्यारभ्य "गच्छन्ति पईवसालाए" इति पर्यन्तं भाष्यं प्राग्वदन वक्तव्यम्। अथ तत्रावस्थितानां दोषानाहउवगरणे पडिलेह, प्पमजणा वा सपोरिसि मणे य। निक्खमणे य पवेसे, आवमणे चेव पडणे य॥१७६|| पणगं लहुओ लहुगा,चउरो लहुगा य चउसु ठाणेसु।। लहुगा गुरुगाय मणे, सेसेसु वि हॉति चउलहुगा||१७७|| द्वे अपि गाथे व्याख्याते। मानद्वारे विशेषमाहगुरुगाय पगासम्मि, लहुगाते चेव अप्पगासम्मि। सातम्मि हॉति गुरुगा, अस्साए हॉतिचउलहुगा / / 178|| प्रदीपस्य प्रकाशे अभिरोच्यमाने चत्वारो गुरुकाः, अप्रकाशे चत्वारो लघुकाः। एतदेवोत्तरार्द्धन व्याचष्टे-सातं सुखं रतिरित्येकोऽर्थः / यदि प्रकाशे रतिं मन्यते तदा चत्वारो गुरवः / अथाऽसौ तमरतिं मन्यते ततश्चत्वारो लघुकाः। पडिमाए झुसियाए, उड्डाहो तणाणि वा भवे हेद्वा। साणाइ चलणलोले, खंभ-तणाई पलीवेजा।।१७।। देवकुलादौ प्रदीपेशालायां या स्कन्दमुकुन्दादिप्रतिमा तस्यां प्रदीपेन झुषिताया-दग्धायामुडाहो भवेत्, अमीभिःश्रमणकैः प्रत्यनीकतया स्कन्दादिप्रतिमा दग्घेति। अथाधस्ताद्वा संस्तारको तृणानि भवेयुः तानि दोरन्, शुनादिनाचरणैः पातितस्ततः प्रदीपस्य चततः स्थानादवरोहणं विधेयम् / अथ शृखलादीपोऽसौ न ततः स्थानादवतारयितुं शक्यते ततो लोलाया अवसर्पणमुत्सर्पणं वा कुर्यात् श्वगवादीनां "छुच्छुत्कारणं"छुच्छुदिति प्रतिषेधकरणेन वारणं वा दण्डादिदर्शनेन अपकर्षणं वा वर्तेर्वा कर्त्तव्यम्। ___ अथावसर्पणमुत्सर्पणंच व्याख्यानयति-- संकलदीवे वत्ति उ, उव्वत्ते पीडएवमा डझे। रूएण व तं नेह,घेत्तूण दिवा विगिंचिंति॥१०॥ शृङ्खलादीपे स्थानान्तरं संक्रामयितुमशक्तवर्तिमुद्वर्तयेद्वा निपीडयेद्रा, मा दह्यतां मा प्रदीप्यतामिति कृत्वा, रूतेन वा तं प्रदीपवर्त्तिनं स्नेहतैलं गृहीत्वा ततो दिवा विगिञ्चन्ते-परिष्ठापयन्ति। हेहा तणाण सोहण, ओसक्कभिसक अन्नहिं नयणं / आगाठे कारणम्मि, ओसकभिसक्कणं कुख्खा // 11 // प्रदीपस्याधस्तात् तृणानां शोधनं कर्त्तव्यम् / यद्वा-तं प्रदीपभवसर्पयति वा अभिसर्पयति / अथवा-नयन्ति-संक्रामयन्तीत्यर्थः / एतचावसर्पणमभिसर्पणं वा आगाढकारणे समुत्पन्ने गीतार्थः कुर्यात्, न अनागाढे। मझे व देउलाई, बाहिं ठवियाण होइ अतिगमणं। जे तत्थ सेहदोसा, ते इह आगाजयणाए॥१५॥ ते साधवो विकाले संप्राप्ताः सन्तः संप्रदीपे देवकुले स्थिता भवेयुः। यद्वा-ग्रामादिमध्ये देवकुलम्, आदिशब्दात्-प्रपासभादिकं वा। तच्च दिवा सागारिकाकुलं तत्र प्रभातेऽपि समागता दिवा बहिः स्थित्वा सन्ध्यायां तत्र प्रविशन्ति / यद्वा-बहिः स्थितानां स्तेनश्वापदादिभयमत्र रात्री भवतीति श्रुत्वा समस्त्येति गमनं प्रवेशो भवति। तत्र च सप्रपायां वसतौ स्थितेर्ये पूर्व शिष्यविषयाः प्रतापनादयो दोषा उक्ताः ते इहागाढे कारणे यतनया परिहर्तव्याः / यदि प्रमादतः प्रदीपनकं भवेत, तत्र को विधिरित्याहअन्नाए तुसिणीया, नाए दट्ठूण सविउलं बोलं। बाहिं देउल सद्दो, समागयाणं खरंटोय॥१८३|| यदि केनापि न ज्ञातम्, यथा-संयताःस्थिताः सन्ति ततः तूष्णीका भूत्वा पलायन्ते। अथ ज्ञातं संयता अत्र स्थिताः सन्तीति, ततः प्रदीप्तं दृष्टा महता शब्देन 'सविउलं' बोलं कुर्वन्ति यावद्भूयान जनो मिलितः। ततो बहुजनस्य पुरतः भणन्ति पश्यत पश्यत केनापि पापेन प्रदीपनक कृतमिति / यदा-देवकुलाहिर्निर्गत्य तथैव शब्दो-बोलः क्रियते। समागतानां लोकानां खरण्टना कर्तव्या, तेन युष्माभिरेवैतत्प्रदीपितं येनैते श्रमणा दह्यन्ताम्, अस्माकं चोपकरणं सर्वमप्यत्र दग्धम् / एवं खरण्टिताः सन्तोन किंचिदुल्लपन्ति। बृ०२ उ०। (8) अथ वसतौ पीठादिसञ्चालननिषेधमाह-- से भिक्खू वा भिक्खुणी वा सेजं पुण उवस्सयं जाणेजा, असंजए भिक्खुपडियाए पीढं वा फलगंवा णिस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू तह-प्पगारे उवस्सए अपुरिसंतरकडे जाव णो ठाणं वा चेइछा, अह पुण एवं जाणेजा पुरिसंतरकडे जाव चेइज्जा / (सू०६५४) एवमचित्तनिःसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराधना स्यादिति भावः। आचा०२ श्रु०१चू०२ अ०१ उ०) __साधूनामपि आगमनादिगृहेषु स्थातुं न कल्पते इत्याहकप्पइ निगन्थाणं अहे आगमणगिहंसि वा विगडगिहंसिवा वंसीमूलंसिवारुक्खमूलंसिवा अब्भावगासंसि वा वत्थए।१२। अस्य व्याख्या चग्वत्। अथ भाष्यम्एसेव गमो नियमा, णिग्गंथाणं पिणवरि चउलहुगा। णवरिं पुणणाणत्तं, अभागासम्मिततियादी॥२१७।। एष एव-निर्ग्रन्थीसूत्रोक्तो गम आगमनगृहादिविषये नियमान्निग्रन्थानामपि भवति, नवरं प्रायश्चित्तं चतुर्लधुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम्।नवरं पुनरत्र द्वितीयपदे तिष्ठतां नानात्वम्। किमित्याहजिका गोकुलं तस्यां ग्लानार्थं गताः सन्ति, आदिशब्दादध्वनि वा वर्तमाना अभ्रावकाशे वसेयुः, उत्सर्गतस्तु निर्ग्रन्थानामप्यागमनगृहादिषु स्थातुंन कल्पते। आह-सूत्रेणानु-ज्ञातमवस्थानमतस्तेन सह विरोधः प्राप्नोति।