________________ वसहि 152 - अभिधानराजेन्द्रः - भाग 6 वसहि कानि पुनस्तान्युदकानीत्याहधारोदए महासलि-लाजले संभारिते व दव्वेहि। तण्हा य तस्स व सती, दिवा व राओ व उप्पछे // 136|| धारोदकं नाम--गिरिनिकरजलम्, यथा-उज्जयन्तादौ, आन्तरिक्ष वा, महासलिला--गङ्गाप्रभृतयो महानद्यस्तासां जलं महासलिलाजलम्, द्रव्यैः-कर्पूरपाटलादिभिः संभारितं-वासितं द्रव्यसंभारितम् / एष पानीयेषु तृष्णयाऽपि तस्याभिलाषो भवति, पूर्वानुभूतेषु तु दिवा वा रात्री वा स्मृतिः संस्मरणसुत्पद्यते। ततश्चोदकमपि पिवन्नात्मनो हृदयस्य प्रत्यक्षमिदमाहइतरा कहासु सुणिमो, इमं खुतं विमलसीतलं तोयं / विगयस्स विणऽस्थि रसो, इति सेवे धारतोयादी॥१३७।। इतरथा कथान्तरेषु शृणुमः, परमध विमलशीतलं तत्कथाऽन्तरश्रुतं तत्तोयमास्वादितम्, यचोष्णोदकादिकं विकृतंव्यपगतजीवमुदकं पिवामः तस्यापि शस्त्रोपहतत्वेनान्यथाभूतस्य रसो नास्तीतिमत्वा धारतोयादिकं जलं सेवते। विगतम्मि कोउतम्मि, छहवयविराहण त्ति पडिगमणं। वेहाणसओहाणा, गिलाणसेहेण वा दिछो॥१३८|| विगते उदकपानकौतुके स संयतः षष्ठव्रतविराधना मया कृतेति मत्वा प्रतिगमनं वा वैहायसं वा मरणम् "ओहावण त्ति' अवधावनं कुरुते। ग्लानेन वा शैक्षेण वा स दृष्टो भवेत्। ततश्चतण्हाइओ गिलाणो,तं दल पिवेज जा विराहणया। एमेव सेहमादी, पियंति अप्पचओवासिं॥१३६|| ग्लानस्तृष्णायितस्तंसंयतमुदकमापिबन्तं दृष्ट्वा पानीयं पिबेत्। तेन वा पथ्यतया तस्यानागाढपरितापादिका विराधना, तन्निष्पन्नम्। एवमेव च शैक्षादयोऽप्यपरिणतास्तदुदकमापिबन्ति, अप्रत्ययो वा अमीषां भवेत्। यथैतन्मृषा तथाऽन्यदपि, सर्वममीषामुन्मत्तप्रलपितमिति "उड्डाहं च करिज्जा, विप्परिणामो व हुज सेहस्स। गिण्हतेण व तेणं, खंडियबद्धे च भिन्ने वा' इत्यारभ्य "उदकासन्नो य छणूसवो कर्ज पि य तारिसेण उदगेण / तेणाण य आगमणं, अच्छह तुण्हिक्कया ते वा" इति पर्यन्ता गाथा गतार्थाः। अथयैः कारणैः स्तेना उदकमपहरन्ति तानिदर्शयतिऊसवछणेसु संभा-रियं दगं तिसिय रोगियट्ठाए। दोहलकुतूहलेण व, हरंति पडिवेसियाई य॥१५॥ उत्सवाः क्षणाश्च पूर्वोक्ताः तेषु प्रत्यासन्नेषु स्तेना उदकं हरेयुः। यद्वा-- तृषिताः सन्तः सूर्यपानार्थं संभारितं दर्पूरपाठादिवासितं चतुर्थमूलं पञ्चमूलकृतं वा तदुदकमपहरन्ति / यद्वा-रोगी कश्चित्तेषामस्ति, तस्य तत्पानीयं पथ्यं तदर्थम्, अथवा-गर्भिण्यास्ता--दृशमुदकपाने तु दोहदं समुत्पन्नम्, यदि वा-कुतूहलं तेषामुदपादि कीदृशोऽस्य पानीयस्य रसः, एवमेभिः कारणैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः। गहियं च तेहिं उदकं, चित्तूण गया जहिंसि गंतव्वं / सागारिओ व भणई, सउणीवियरक्खई तिण्हं ||11|| उक्तार्था। दगमायणाणि दट्टु,सजनं बहियं दगं च परिसडियं। केण इमं तेणेहि, असिडे मद्देयर इमे उ॥१४॥ सागारिको दकभाजनानि स्वजनं चाज्ञाजनमपहृतं दकं वा परिशटितं दृष्टा पृच्छति-केनेदं जलमपहृतम् ? साधवो ब्रुक्ते-स्तेनैः। ततोऽसौ भूयः प्रश्रयति के पुनः स्तेनाः? ततो यदि नाम्ना वर्णेन वा तान् कथयन्ति ततस्तेषां बन्धनादयो दोषाः / अथ न कथयन्ति ततोऽशिष्ट अकथिते भद्रकप्रान्तकृता इमे दोषाः। लहुगा अणुग्गहम्मी, गुरुगा अप्पत्तियं च कायव्वा / लहुगुरू संकुणंते, छम्मासा करभरे छेओ / / 143 / / इतऊर्ध्वम् "आमन्ति अब्भुवगए, भिक्खवियाराइ निग्गयमएसुं। भणइ गुरू सागारिय, कत्थ दगं जाणणट्ठाए।" इति पर्यन्तं गाथा-कदम्बकं प्राग्वत्। कथं पुनः सूरयः सागारिकं प्रश्रयन्तीत्याहचउमूल पंचमूलं, तलोदगं तावतिलयतोयाणं / दिलु मऍ सण्णिचया, अन्नयदेसे कुटुंबीणं / / 144|| चतुर्मूलं नाम-चतुर्भिः सुरभिमूलैर्भावितमेवं यत्पञ्चभिर्मूलै वितं तत्पञ्चमूलम्, तलोदकानि यत्र तोसलिविषये तलतोयानि राजगृहादौ एवंविधानामुदकानां संनिचया मयाऽन्यस्मिन् देशे कुटुम्बिनां गेहेषु दृष्टाः, "एवं च भणियमन्नम्मिकारणे सो भणाइ आयरिए! अस्थिमहं संनिचया, पच्छह नाणाविहे उदए" इत आरभ्य "जाणता विययतणं, मवन्नरूवेण सा होति" इति पर्यन्तंभाष्यंतथैवात्र वक्तव्यं नवरमुदकाभिलापः कर्तव्यः। ज्योतिःसूत्रम्उवस्सयस्स अन्तोवगडाए सवराईए जोई झियाएजा, मो कप्पइ निग्गंथाण वा गिग्गन्थीण वा अहालंदमविवत्थए हुरत्थाय उवस्सयं पडिलेहमाणे नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए।जे तत्थ एगरायाओवादुरायाओवापरंवसेलासेसंतरा छए वा परिहारे वा // 6 // एवं प्रदीपसूत्रमप्युच्चारणीयम्। अथास्य सूत्रद्वयस्य कः सम्बन्ध इत्याह-- उदगाणंतरमग्गी, सो उपईवो व होज जोई वा। पडिवक्खेणं व गयं, समागमो एस सुत्ताणं ||15|| प्रवचने ह्यप्कायप्ररूपणानन्तरं अग्निकायःप्ररूप्यते, अतोऽत्राप्युदकसूत्रानन्तरमग्निसूत्रमारभ्यते / स चाग्निः प्रदीपो वा स्यात्, ज्योतिर्वा / 'पडिवक्खणेवगय तिभावप्रधानत्वान्निर्देशस्य, पक्षतयावाइदंसूत्रमागतम्। किमुक्तं भवति-अप्कायस्यानिकायः शस्त्रम्,अग्निकायस्याप्कायः, अत एतौ