________________ वसहि ६५१-अभिधानराजेन्द्रः - भाग 6 वसहि ष्ठति। अथ सागारिकस्तद्भाजनस्यन्दनं दृष्ट्वा पृच्छति किमर्थमिदंस्यन्दनमवलोक्यते, एवं पृष्टाः सन्तो भणन्ति-नूनं भाजनमिदं परिस्यन्दति। सवम्मिपीए अहवाबहुम्मि, संजोगयादी ठवयंति अन्नं। अन्नव्वमग्गी उ छुहंति तत्थ, गीयं कयं वा गिहिलिङ्गमाई // 126| सर्वस्मिन्नथवा-बहुके विकटे पीते सति ये संयोगपातिनो तन्नि- / व्यत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि द्रव्याणि संयोज्य विकटं स्थापयन्ति। अथन सन्ति संयोगपातिनस्ततोऽन्यत् विकटं मार्गयित्या तत्र प्रक्षिपन्ति, तच प्रथमतः शुद्धम्। तदभावे पञ्चक-परिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि ग्रहीतव्यम् / यदि स्वलिङ्गेन गृह्णतामुड्डाहो भवति, नवा तेन प्राप्यते ततो गृहिलिङ्गम्। आदिशब्दाद्-अन्यतीर्थकलिङ्ग वा कर्तव्यम्। अथ 'गेलन्ने अअहव तेण गंधेणं' इत्यादि पदानि व्याख्यातितम्भावियट्ठा व गिलाणए वा, पुराणसागारियसावए वा। वीसं भणीआण कुलाण भावा, गिण्हति रूवस्स विवजिएणं // 130 // तेन विकटेन पूर्व भावितस्तद्भावितः,सतत्र विकटे नाध्यापयितुंभवति, ग्लानो वा कश्चित्तेनैवोपयुक्तेन प्रगुणी भवति, नान्यथा। ततस्तदर्थ पुराणस्य--पश्चात्कृतस्य सकाशात्तद्भयेन वा पितृसमानो यः सागारिकस्तस्य हस्तात्तदप्राप्तौ प्रतिपन्नाणुव्रतस्य मातापितृ-समानस्य श्रावकस्य वा पाचद् िग्रहीतव्यम् / अमीषामभावे, यदा-भद्रकान्यपि यानि विश्रम्भणीयानि कुलानि नोड्डाहकारीणीत्यर्थः। तेषु ग्रहीतव्यम्, तेषामप्यभावे यदि स्वलिङ्गेन गृह्णाति ततः प्रवचनोपधातो भवेत्। अतो रूपस्य विपर्ययेण गृह्णन्ति लिङ्गविवेकं कृत्वा विकटमुत्पादयन्तीतिभावः। अचाउरं वा वि समिक्खिऊणं, खिप्पं तओ घेत्तु दलित्तु तस्स। अन्नं रसंवा वितहिं छुभंति, संगं व सेतं हवयंति तत्तो / / 131|| अत्यातुरंवातंग्लानं समीक्ष्य क्षिप्रं-शीघ्रंततः प्रतिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा तस्य ग्लानस्य दत्त्वा गीताथोस्तत्रान्यं वारयन्ति प्रक्षिपन्ति, ततश्च 'से' तस्यग्लानस्यतं विकटविषयं संहापयन्ति कार्ये तिष्ठति सति विकटप्रसङ्ग निवारयन्तीति भावः। गता स्वपक्षयतना। अथ परपक्षयतनामाहपरपक्खितम्मि दारं, पिधे ति जयणाएँ दो वि वारेति। तह विय अटॉयमाणे, उवेह पट्टावसाहंति॥१३॥ इत्यादिका मद्याभिलाषविशेषिता गाथाः सर्वा अपि तथैवाऽत्र वक्तव्याः। उवस्सयस्स अंतोवगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खत्ते सिया, नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा अहालंदमवि वत्थर हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वापरं वसेना सेसंतरा छेए वा परिहारे वा।।शा अस्य संबन्धमाहछोदूण दगं पिज्जइ, गालिंति दगं व छोढुणं वंतुं / पातुं मुहं व धोवइ, तेणऽहिकारो सजीवं वा।।१३३|| यतो दक-पानीयं प्रक्षिप्य विकटं पीयते, ततो विकटसूत्रानन्तर-- मुदकसूत्रम्, यता-दकं प्रक्षिप्य तद्विकटं गालयन्ति / अथवा-विकटं पीत्वा तजनितदौर्गन्ध्यव्यपगमार्थ उदकेन मुखं धावन्ति, तेन कारणेन विकटानन्तरम् उदकाधिकारः प्रारभ्यते। यद्वा-तद्विकट निर्जीवं वा भवेत् इत्यनेकैस्संबन्धैरायातस्यास्य (5) व्याख्या प्राग्वत्, नवरं विकृतंशीतोष्णादिशस्त्रेण विकारप्रापितं प्राशुकीकृतमित्यर्थः शीतोदकं च तद्विकृतं च शीतोदकविकृतमा तस्य कुतो घटः, एवमुष्णोदक विकृतकुम्भोऽपि। अथ भाष्यम्सीतोदे उसिणोदे,फासुगमप्फासुगे चउम्भङ्गी। ठायंतगाण लहुगा, कास अगीतत्थसुत्तं तु॥१३॥ शीतोदकोष्णोदकमप्राशुकप्राशुकयोश्चतुर्भङ्गी भवति / गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः, तद्यथा-शीतोदकं प्राशुकम्१,शीतोदकमचशुकम् 2, उष्णोदकं प्राशुकम्३, उष्णोदकमग्राशुकम् 4, तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम् / तृतीयभने उष्णोद-कमुवृत्तत्रिदण्डम् / चतुर्थभने तप्तोदकादिकं मन्तव्यम्। एवंविधो-दकप्रतिबद्धेप्रतिश्रये तिष्ठतां चतुर्लघुकाः, एवमविशेषेणोक्तावप्ययं विशेषः-प्रथमतृतीययोलघु, द्वितीयचतुर्थभङ्गयोश्चतुर्लघु आहचनिशीथचूर्णिकृत्-'पढमतइयभंगे ठायंतस्स मासलहुँ, बितियचउत्थेसुचउलहुं,' आह–कस्य पुनरेतत्प्रायश्चित्तम्, गुरुराह--अगीतार्थस्य सूत्रं पुनरनुज्ञाविषयं गीतार्थमधिकृत्य प्रवृत्तमित्युपस्कारः इत ऊर्ध्वम् 'नत्थि अगीयत्थो वा' इत्यारभ्य 'का स इच्छा समुप्पन्ना' इति पर्यन्तं भाष्यमुदकाभिलाषविशेषितं वक्तव्यम्। कीदृशी पुनरिच्छा तस्य समुत्पन्ना? उच्यते-- अणुभूया उदगरसा, नवरं मुत्तुं इमेसि उदगाणं / काहामि कोउहलं, या सुत्तेसुं समारद्धो॥१३५|| अनुभूता मया उदकानां रसाः, नवरं मुक्त्वा अमीषामुदकानां रसान्, अतः करिष्याम्यहमेतद्विषयं कूतूहलं सफलमिति विचिन्त्य प्रसुप्तेषु शेषेषु * साधुषु समारब्धमुदकपात कर्तुम्।