________________ वसहि 650- अमिधानराजेन्द्रः - भाग 6 वसहि अथ यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणो निष्कारणं तावद्दर्पतस्तिष्ठति त्रयाणां चाहोरात्राणां परतस्तिष्ठति, तदा छेदाख्यमेव प्रायश्चित्तमसावापद्यते। तच्छेदपदं पूर्व प्रथममुक्तवन्तो भगवन्तो भद्रबाहुस्वामिनः। ___ अथ सुरासौवीरकपदं व्याचष्टेपितॄण सुरा होति, सोवीरं पिट्ठदजियं जाण / ठायंतगाण लहुगा, कास अगीयत्थसुत्तं तु // 116 / / ब्रीह्यादिना सम्बन्धिना पिष्टेन यद्विकटंभवति सा सुरा, यत्तु पिष्टवर्जितं द्राक्षाखर्जूरादिभिर्द्रव्यैर्निस्पाद्यतेतन्मयंसौवीरकविकटंजानीयात्। एतद् द्विविधमपि यत्रोपनिक्षिप्तं भवति तत्रापाश्रये तिष्ठतां चतुर्लघुकाः,कस्य पुनरेतत्प्रायश्चित्तमित्याह-अगीतार्थस्य सूत्रंतु-"कप्पइ एगरायंवा दुरायं वा वत्थए'' इत्यादिलक्षणं गीतार्थविषयं मन्तव्यम्। इत ऊर्ध्वं "नऽत्थि अगीयत्थो व" इत्यादिकाः "का स इच्छा समुप्पन्ना" इति पर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः। अथ कीदृशी तस्येच्छा समुत्पन्नेत्याहअणुभूआ मज्जरसा, णवरि मुत्तूणमेसि मज्जाणं / काहामि कोउहल्लं, पासुत्तेसुं समारद्धो // 120 // अनुभूता मया बहवो मद्यरसाः परममीषां मद्यानां रसान् मुक्त्या अतः करिष्यामि कौतूहलमिति विचिन्त्य प्रसुप्तेषु साधुषु समारब्धोऽसौ तद्भाजनमुद्धाट्य विकटपानं कर्तु, ततश्च-- इहरा कधासु सुणिमो, इमं खु संकाविसायणं मजं / पीते विजायति सती, तज्जुसिताणं किमु अपीते // 12 // इतरथा अद्यदिनात्पूर्वं कथास्वेवं शृणुमः परमिदं तत्कथान्तरश्रुतकातिशायिनं मद्यम्,एवं तन्मय-जुषितं-सेवितं यैस्ते तज्जुषिताः, गृहवासे विकटपायिन इत्यर्थः। तेषां पीतेऽपि विकटे स्मृतिरुपजाते। किं पुनरपीते। विगयम्मि कोउहल्ले, बहुवयविराहण त्ति पडिगमणं। वेहाणस ओहाणे, गिलाणसोहाणवा दिह्रो।।१२२।। गतार्था / उड्डाहं च करिजा, विप्परिणामो पहज सेहस्स। गिण्हतेणं तेणं,खंडियविद्धे व भिन्ने वा / / 133 / / शैक्षस्तं संयतं विकटपानं कुर्वाणं दृष्ट्वा लोकस्य पुरत उड्डाहं कुर्यात्, | विपरिमाणो वा शैक्षस्य भवेत्। विपरिणतश्च सम्यग्दर्शनं चारित्रं लिङ्ग वा परित्यजेत, तथा तेन संयतेन विकटभाजनं गृह्णता वाशब्दात्-मुञ्चता वा तद्भाजनं खण्डितम्-एकदेशभग्रम्,विद्धवा-पतितछिद्रम, भिन्नं वाद्विधा कृतं भवेत् / इत ऊर्ध्वं 'फेडियमुद्दा तेणं' इत्यारभ्य "अम्हे ठिएल्लगंथिय, अहापवत्तं, वहह तुडभे' इतिपर्यन्तंगाथाकदम्बंतथैवाध्येतव्यम्, नवरं मद्याभिलापः कर्त्तव्यः : ततश्चआमं ति अब्भुवगए, भिक्खवियाराइनिग्गयामएस। भणइ गुरू सागॉरियं, कहि मनं जाणणट्ठाए।।१२५|| यदि शय्यातरेणापि अभ्युपेतम्, यूयं निश्चिन्तास्तिष्ठत वयं यथा प्रवृत्तं व्यापारं चिन्तयाम इति / ततो गुरुराचार्यो भिक्षाविचाभूम्यादिनिर्गतेषु अगीतार्थसागारिक भणति कुत्र मद्यमस्तीत्येवं परिज्ञा-नार्थम्। किं भणतीत्याहगोडीणं पिट्ठीणं, वंसीणं चेव फलसुराणं च / दिटुं मएँ संनिचया, अन्ने देसे कुटुंबीणं // 125|| गौडीनां-गुडनिष्पन्नानां पिष्टीनां-ब्रीह्यादिधान्यक्षोदनिष्पन्नानां वंशीनां-वंशकरीलकनिष्पन्नानां फलसुराणां च तालफलद्राक्षाखर्जूरादिनिष्पन्नानाम् एवंविधानां सुराणां संनिचया अन्यस्मिन् देशे मया कुटुम्बिनां गेहेषु दृष्टाः, "एवं च भणियमित्त-म्मि निकारणे सो भणइ बेहिच्छं। अत्थिमहं संनिचया, पिच्छह नाणाविहे मज्झ'' इत्यादिका, दारं 'न होइ इत्ती' इति पर्यन्ता गाथाः प्राग्वदत्र सव्याख्याना द्रष्टव्याः। अथात्रैव विशेषतो यतना कर्त्तव्यातामभिधित्सुराहगहियम्मि व जा जयणा, गेलने अधव तेण गंधेणं / सागारियादिगहणं,णायव्वं लिङ्ग भेयाइ॥१२६|| शैक्षकेऽपि विकटे गृहीते पीते सतिया यतना सा वक्तव्या। ग्लानत्वे वा वैद्योपदेशेन विकटं गृहीतव्यम् / अथवा-तेन विकटसंबन्धिना गन्धेन कस्यापि गृहवासे विकटभावितस्याध्युपपातो भवेत्, ततः सागारिकः शय्यातरआदिशब्दात्-श्रावको वा यो मातापितृ-समानस्ततो विकटस्य ग्रहणं कर्त्तव्यम्, यदि स्वलिङ्गेन न प्राप्यते उड्डाहो वा भवति ततो लिङ्गभेदादिकमपि नेतव्यं कर्तव्यमिति यावदेष नियुक्तिगाथासमासार्थः। अथैनामेव विवरीषुराहपीयं जहा होज्ज वि गोविएणं, तत्थाणइंताण रसं छुभंति। भिन्ने उगोणादिपए करें ति, तेसिं पवेसस्स तु संभवम्मि।१२७ यदि कदाचित् कोविदेन शैक्षकेण शेषसाधुषु प्रसुप्तेषु तद्विकट पीतं भवेत्तदा गीतास्तित्र विकटभाजने रसमिक्षुरसादिकमानीय प्रक्षिपन्ति / अथ कथमपि तद्भाजनं गृह्यमाणं मुच्यमानं वा भिन्नम्, ततो भिन्ने सति तस्मिन् गवादीनां पदानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च कुर्वन्तिआलिखन्तीत्यर्थः / येन सागारिको जानीते, यथा-गवादिना प्रविश्य भनमिदं भाजनमिति / परं यदि तेषां गवादीनां तत्र प्रवेशः संभवति, अन्यथा हि सागारिकः प्रद्वेष जायात्। एवं तावदमी इत्थं कर्मकारिणः, अपरं च तदपहवनायेत्थं प्रपञ्चमुपरचयन्ति / धिगमीषां पाखण्डिनां धर्ममिति। छिंधिं तु पीए जउणा ठवेति, मुद्दा जहा चिट्ठइ अक्खुणासे। जाणम्मि दिहम्मि भणंति पुट्ठा, नूणं परिस्संदति भाणमेयं // 128|| विकटे पीते तद्भाजनं द्वारदेशे वस्त्रादिना तद्वत् जतुनालाक्षया स्थगयन्ति, तथा-'से' तस्य भाजनस्य मुद्रा क्षता ति