________________ वसहि E56 - अभिधानराजेन्द्रः - भाग 6 वसहि थोवे विणऽस्थि तत्तो, को य रसो अण्णमण्णाणं // 111|| | इतरथा यदि तावत्पूर्वं वयं गन्धशालीन् कथासु वातन्तिरेषु शृणुम इमे / तुप्रत्यक्षमुपलभ्यमानाः ते कथान्तरश्रुताः कलमशालयः सुरभयः, तथा स्तोकोऽप्यत्र कलमशालौ ममास्तुतृप्तिकश्च रसाऽऽस्वादोऽन्योन्यमिश्रितानाममीषाम्, इत्थं विचिन्त्य पल्यात्तान् शालीनाकृष्य स्थविरायाः समर्पयति,साऽप्युपस्कृत्य तस्य संयतस्य दत्त्वा शेषमात्मना भुङ्क्ते ततोऽसौ लब्धाऽऽस्वादो दिवसे दिवसे एवमेव विदधाति। ततः किमभूदित्याहनिग्घोलिय तप्पल्लं, कज्जे सागारियस्स अतिगमणं / सागारिओ विसनो, भीतो पुण पासए कूरं / / 112|| तेन संयतेनैवं शालीनपहरता तत्पल्यं निर्घालितम्, रिक्तीकृतम्, ततः क्वचिदात्मीयकार्ये सागारिकस्य तत्रातिगमनं प्रवेशो भवेत, ततः / सागारिकः पल्यं रिक्तीकृतं दृष्ट्वा विषण्णो विषादमुपगतवान् भीतश्च / किमु स्तेनादयोऽत्र प्रविष्टा भवेयुरिति शङ्कया तत्र परिभ्रमन् शालकूरमानीतं पश्यति। सो मणइ कतो लद्धो, एसो अम्हं खु लद्धिसम्पन्नो। ओभावणं च कुस्खा, धिरत्थु ते एरिसो लामो // 113|| ससागारिको भणति-कुत एष शालिकूरोलब्धः, ततः साधव-स्तदीयं वृत्तान्तमजानाना ब्रुवते एष साधुरस्माकंलब्धिसम्पन्नः, अतः प्रतिदिनमीदृशं शालिकूरमानयति। ततः सागारिकस्तं साधुंब्रूते-धिगस्तुमुण्ड ! तवेदृशं लाभं येन प्रतिदिवसं शालीनपहृत्यास्माकं पल्यं रिक्तीकृतमिति, अपभ्राजनं वा असौ लोकमध्ये कुर्यात् / यथा स्तेनका अमी अत्र च भद्रकप्रान्तकृता दोषा भवन्ति। भद्रकस्तावदिदमभिदध्यात्इहरह वि ताव अम्हं, भिक्खुं व पलिं व गिण्हइ न किंचि। इण्डिं खु तारिओ मि, ठवेमि अन्ने विजा धन्नो // 11 // उक्तार्था / यस्तु प्रान्तो भवति स ब्रूयात्, अहो धर्मकम्बुक ! प्रविष्टा अमी लोकं मुष्णन्तीत्यादि। अत्र "लहुगा अणुग्गहम्मी, अप्पत्तिय धम्मकंबुए गुरुगा''। इत्यारभ्य"सेज्जायरो य भण्णइ, अन्नं धन्नं पुणो वि होइ इणमो / एसो अणुम्गहो मे, जा साहु न दुक्खिओ कोइ ! // 1 // " इति पर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः! उवस्सयस्स अंतोवगडाए सुरावियडकुंभेवा सोवीरयवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गथीण वा अहालंदमवि वत्थए हुरत्था य उवस्सयं पडिलेहमाणे नोलभेज्जा, एवं से कप्पइएगरायं वादुरायं वा वत्थए हुरत्थए, नो से कप्पइपरं एगरायाओ वा वत्थए दुरायाओ वा वत्थए। जे तत्थ एगरायाओ वा दुरायाओ वा परं वसेज्जा सेसंतरा छेए वा परिहारे वा एवमुदकादिसूत्राण्युचारणीयानि। अथामीषां कः संबन्ध इत्याह एगंत उवस्सऍहिं, वाघाया तेसि हॉति अशोन्ना। साहारणपत्तेगा, जा पिंडो एस संबन्धो // 11 // इहोपाश्रये प्रकृतमधिकारो वर्तते, तेषां चोपाश्रयाणां व्याघातदोषाः। अन्योन्ये अपरापरे वा ये विकटोदकप्रतिबद्धतादयो भवन्ति तेषु च यत्राल्पतरा दोषा भवन्ति तत्र स्थातव्यमिति ज्ञापनार्थं साधारणसूत्रप्रत्येकसूत्राणां समारम्भः क्रियते। 'जा पिंडो त्ति उवस्सय, अंतोवगडाए पिंडएवा वि' इत्यादिकं वक्ष्यमाणं पिण्डसूत्रं यावदेष सम्बन्धोमन्तव्यः, साधारणसूत्राणि नाम यत्रैकसूत्रे द्वयादिप्रभृतीनि बहूनि पदानि भवन्ति, प्रत्येकसूत्राणि तु यत्रैकसूत्रे एकमेव पदं ततश्चात्र विकटसूत्रमुदकसूत्र पिण्डसूत्रमित्येतानि त्रीणि साधारणसूत्राणि प्रदीपसूत्रं ज्योतिः-सूत्रं च प्रत्येकसूत्रे एष पञ्चानामपि सूत्राणां सम्बन्धः सामान्यत उक्तः। अथ विशेषतः संबन्धमाह- . सालिच्छूहि वि कीरइ, विगडं मुत्तति सितोदयं पिवति। आहारिमम्मि दोसा,जह तह पेजेवि जोगो यं // 116|| शालिभिरिक्षुभिर्वा विकटं क्रियते, अतो धान्यसूत्रानन्तरमिदं विकटसूत्रमारभ्यतेशालिकूरादिकमाहारं भुक्त्वा तृषितो भवेत, तृषितश्चोदकं पिवतीत्युदकसूत्रं निरूपणीयम् / यद्वा-आहारिमे तिलादौ भुक्ते सति यथा दोषा भवन्ति तथा पेयेऽपि मद्यादौ पीयमाने दोषा भवन्त्येवेति तत्प्रतिश्रयेऽपि न स्थातव्यमित्यनेन संबन्धेनायातस्यास्य सूत्रस्य(४) व्याख्या। सुराकाष्ठपिष्टनिष्पन्नम्, सौवीरकविकटं तु पिष्टवर्जगुंडादिद्रव्यैर्निष्पन्नम्। ततस्सुराविकट-कुम्भो सौवीरविकटकुम्भो वा यत्रोपाश्रयस्यान्तर्वगडायाम्-उपनिक्षिप्तः स्यात्तत्र नो कल्पते निर्ग्रन्थानां वा यथालन्दकमपि कालं वस्तुम्। 'हुरत्थाय' ति देशीपदं बहिराभिधायकम् / चशब्दो वाक्यभेदद्योतकः / ततोऽयमर्थः-अथ बहिरन्योपाश्रयं प्रत्यु-पेक्षमाणो नोलभेत ततएवं (से)-तस्य साधोः कल्पते एकरात्रंवा द्विरात्रं वा तत्र वस्तुम्। यस्तत्रैकरात्राद्वा द्विरात्राद्वा परम्-ऊर्ध्व वसति (से) तस्य संयतस्य स्वान्तरा स्वस्वकृतं यदन्तरं त्रिरात्रादिकालावस्थारूपं तस्मात् छेदो वा पञ्चरात्रिन्दिवादिः,परिहारो वा मासलघुकादिस्तपोविशेषो भवतीति सूत्रार्थः। अथ विस्तरार्थभाष्यकृद्विभणिषुराहदेसीभासाइकयं, जा बहिया सा भवे हुरत्थाओ। बंधणुलोमेण कयं, परिहारो होइ पुटवं तु // 117 // 'हुरत्थे' त्ति यत्पदं तद्देशीभाषया कृतं निबद्धं बहिराभिधायकम् / ततो यो विवक्षितोपाश्रयादहिर्वर्तिनी वगडासा'हुरत्थेति' शब्देनोच्यते। अथपरः प्राह-परिहारस्तावत्तपोविशेष उच्यते, छेदस्तुपर्यायच्छेदरूपः तत्सूत्रम्-‘से संतरा परिहारे वा छेए वा' इति पठितुमुचितं किमर्थंव्यत्यासेन पाठ इत्याशङ्कयाह-बन्धानुलोम्येन सूत्रे परिहारपदात् पूर्व छेदपदं कृतम्। किमुक्तं भवति-एवंविधो हिपाठः सुललितपदविन्यासतया सुश्लिष्टो भवतीति कृत्वा सूत्रकृता प्रथमं छेदपदमुपन्यस्तम्। अहवा वारिवंतो, निकारणओ वि तिण्ह वि परेणं / छेयं चिय आवले, छेयमओ पुष्यमाहंसु॥११५||