________________ ववहारि 636 - अभिधानराजेन्द्रः - भाग 6 ववहारि आगमतश्च / तत्र-आगमतो व्यवहारिशब्दार्थज्ञाः तेचानुपयुक्ताः, नोआगमतस्विविधाः-ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् / तत्र ज्ञशरीरभव्यशरीरद्रव्यव्यवहारिणः प्रतीताः। तद्व्यतिरिक्ता द्विविधाः-लौकिकाः / लोकोत्तरिकाश्च / भावव्यवहारिणोऽपि द्विविधाः-आगमतो, नोआगमतश्च / आगमतो व्यवहारिशब्दार्थज्ञाः, तत्रैवोपयुक्ताः, नोआगमतो द्विधालौकिका, लोकोत्तरिकाश्च। तत्र पूर्वार्द्धन नोआगमतो द्रव्यभावलौकिकव्यवहारिणः प्रतिपाद-यतिद्रव्ये विचार्यमाणे नोआगमतो-ज्ञशरीरभव्यशरीरव्यतिरिक्ता लौकिका व्यवहारिणः / "खलु लंचिल्ला' इति लञ्चा उत्कोच इत्यनर्थान्तरम्, तद्वन्तः। किमुक्तं भवति-परलचामुपजीव्य ये सापेक्षाः सन्तो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिकाः व्यवहारिणः / 'भावतो उ मज्झत्था' इति / भावतः पुनः-नोआगमतो लौकिकाः व्यवहारिणो-मध्मस्था-मध्ये-रागद्वेषयोरपान्तराले तिष्ठन्तीतिमध्यस्थाः। ये परलञ्चोपचारन्तरेणारक्तद्विष्टाः सन्तोन्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोआगमतो लौकिका भावव्यवहारिण इति भावः / अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति-'उत्तरदव्यअगीया' इत्यादि। उत्तरे--लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो द्रव्यव्यवहारिणः, अगीता-अगीतार्थाः, ते हि यथावस्थितंव्यवहारंन कर्तुमवबुध्यन्ते। ततस्तद्व्यवहारोऽद्रव्यव्यवहार एव, भावस्य यथावस्थितपरिज्ञानलक्षणस्याभावात्। द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहा-रिणस्ते इत्यर्थः। 'गीया वा लंचपक्खेहिं' इति / यदि वा-गीतार्था अपि सन्तो ये परलञ्चामुपजीव्य व्यवहारं परिच्छिन्दन्ति, तेऽपि द्रव्यव्यवहारिणः / अथवा-वित्तादिलञ्चया गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पक्षण-पक्षपातेन व्यवहारकारिणस्तेऽपि द्रव्यव्यवहारिणः, माध्यस्थ्यस्वरूपस्य भावस्यासंभवात्। सम्प्रति नोआगमतो लोकोत्तरिकान् भावव्यव हारिणः प्राहपियधम्मादधम्मा, संविम्गा चेव ऽवमभीरू य। सुत्तत्थतदुभयविऊ,ऽणिस्सियववहारकारीय॥१४॥ प्रियो धर्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजदन्ताऽऽदित्वात् दृढशब्दस्यय पूर्वनिपातः / अत्र चतुर्भङ्गिका-प्रियधर्माणो नामैके नो दृढधा इति प्रथमो भङ्गः। नो प्रियधर्माणो दृढधश्चेिति तृतीयः। अन्ये नो प्रियधर्माणोनो दृढधर्मा इतिचतुर्थः / अत्र तृतीयो भङ्गोऽधिकृतो न शेषा इति प्रतिपत्त्यर्थं विशेषणान्तरमाह-संविग्नाः-संविना नामउत्त्रस्तास्ते च द्विधा-द्रव्यतो, भावतश्च / द्रव्यतः संविना मृगास्तेषां यतस्ततो वा विभ्यता प्रायः सदैवोत्त्रस्तमानसत्वात्। भावसंविग्ना ये संसारादुत्त्रस्त मानसतया सदैव पूर्वरात्रादिष्वेतचिन्तयन्ति-"किं मे कडं किं च ममऽस्थि सेसं, किं सक्कणिज्जं न समायरामि' इत्यादि, अत्र भावसंविगैरधिकारः / भावसंविनप्रतिपत्त्यर्थमेव विशेषणान्तरमाह'ऽवज्जभीरू' अवयं-पापं तस्य भीरवः / ये च अवद्यभीरवस्ते भावसंविना एवेति भवन्ति। अवद्यभीरुग्रहणेन भावसंविनप्रतिपत्तिः। एतांश्च यथोक्तविशेषणेन विशिनष्टि / अपि गीतार्थत्वमृते भावव्यवहारकारिणो भवन्तीति गीतार्थ (त्व) प्रतिपत्त्यर्थमाह-सुत्तत्थतदुभयविऊ'-सूत्रं च अर्थश्च तदुभयं चेति। तच्च तत्-सूत्रार्थलक्षणम्, उभयं च, तदुभयम्। सूत्रार्थतदुभयानि विदन्तीति सूत्रार्थतदुभयविदः / किमुक्तं भवतिसूत्रचिन्तायां सूत्रम्, अर्थचिन्तायामर्थ तदुभयचिन्तायांतदुभयं ये विदन्ति ते सूत्रार्थतदुभयविदः। इह सूत्रार्थवेदने चतुर्भङ्गी, सूत्रविदो नामैके नार्थविदः१।नो सूत्रविदोऽर्थविदः२।अपरे-सूत्रविदोऽपि अर्थविदोऽपि 3 / अन्ये नो सूत्र-विदो नाप्यर्थविदः 4 / अत्र तृतीयभङ्गेनाधिकारः, तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभयवेलायांतदुभयविद्भिरिति सूत्रार्थतदुभयग्रहणम् / 'अणिस्सियववहारकारी य' इति निश्रारागः निश्रा संजाता अस्येति निश्रितः, न निश्रितोऽनिश्रितः, स चासौ व्यवहारश्च अनिश्रितव्यवहारस्तत्करणशीला अनिश्रितव्यवहारकारिणः, न रागेण व्यवहारकारिण इति भावः एकग्रहणे तज्जातीयस्याऽपि ग्रहणमितिन्यायादनुपश्रितव्यवहाराकारिण इत्यपि द्रष्टव्यम्। तत्र उपश्रा नाम-द्वेषः, उपश्रा संजाता अस्येति उपश्रितः,न उपश्रितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करण-शीला अनुपश्रितव्यवहारकारिणः, न द्वेषण व्यवहारकारिण इत्यर्थः। अथवा-एषोऽनुवर्तितः सन मह्यमाहारादिकमानीय दास्यतीत्य-पेक्षया, निश्रा-एष मदीयः शिष्यः, यदि वाप्रतीच्छकः, अथवा-मदीयं मात्रादिकुलमेतत् मदीया वा एते श्रावका इत्यपेक्षया उपश्रा। शेषं तथैव। अनिश्रितव्यवहारकारिण इति / किमुक्त भवति-लञ्चोपचारनिरपेक्षव्यवहारकारिणः न रागेण व्यवहारकारिणः। किमुक्तं भवति-पक्षपातनिरपेक्षव्यवहारपरिच्छेत्तार इति। अथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फल-मित्यत आह। पियधम्म दढधम्मे य, पचओ होइ गीयसंविग्गो। रागो उ होइ निस्सा, उवस्सिती दोससंजुत्तो॥१५॥ प्रियधर्मणि दृढधर्मे ,चः समुच्चये, भिन्नक्रमश्च / गीते-गीतार्थे सूत्रार्थतदुभयविदि संविने च प्रायश्चित्तं ददति प्रत्ययोविश्वासो भवति। यथाऽयं प्रियधर्मा दृढधर्मः गीतार्थः सं विनश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति प्रियधर्मादि पदानामुपन्यासः। तथा अनिश्रितव्यवहारकारिण इत्यत्र यो निश्राशब्दस्तदर्थमाचष्ट-रागस्तु भवति निश्रा, अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रितशब्दस्य व्याख्यानमाह- उपश्रितो द्वेषसंयुक्तः, उपश्रा-द्वेष इत्यनर्थान्तरमिति भावः। द्वितीयं व्याख्यानं निश्री-पश्राशब्दयोर्दर्शयतिअहवा आहारादी, दाहिइ मज्झंतु एस निस्साओ। सीसो पडिच्छओ वा, होइ उवस्सा कुलादी वा // 16|| अथवेति-व्याख्यानान्तरोपदर्शने, एषोऽनुवर्तितः सन् महामाहारादिकं दास्यतीत्येषा अपेक्षा लञ्चोपजीवनस्वभावा, निश्रा, तथाएष मे शिष्य एष मे प्रतीच्छक इदं मे मातृकुलम्, इदं मे पितृकुलम् आदिशब्दाद्- इमे मम सहदेशनिवासिनः भक्ता वा इमे सदैव ममेत्यपेक्षाभ्युपगमस्वरूपा भवत्यु पश्रा, अस्यां हि व्यवहारिणो भवन्ति। 'गीया वा लंचपक्रोहिं' इति वचनात्तत एवायं प्रतिषेधः। उक्ता व्यवहा