________________ ववहार 925 - अभिधानराजेन्द्रः - भाग 6 ववहार नन्चा गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम्। विवृणोनि यथाशक्ति, प्रबोधहेतोर्जडमतीनाम् / / 2 / / विषमपदविवरणेन, व्यवहर्त्तव्यो व्यधायि साधूनाम्। येन्नय व्यवहारः, श्रीचूर्णिकृते नमस्तस्मै / / 3 / / भाष्य कचेदं विषमार्थगर्भ, क चाहमेषोऽल्पमतिप्रकर्षः। स्थापि सम्यग्गुरुपर्युपास्ति-प्रसादतो जातदृढप्रतिज्ञः॥४॥" उक्तंकल्पाध्ययनम, इदानी व्यवहाराध्ययनमुच्यते तस्य चायमभिसम्बन्धः-कल्पाध्ययने आभवत्प्रायश्चित्तमुक्त, न तु दान-प्रायश्चित्तम्। दानव्यवहारे तु दानप्रायश्चित्तमालोचनाविधिश्वाभिधास्यते,तदनेन सम्बन्धेनायातस्यास्यव्यवहाराध्ययनस्य व्याख्या प्रस्तूयते।व्य०१उ०। "देशक इव निर्दिष्टी, विषमस्थानेषु तत्त्वमार्गस्य। विदुषामतिप्रशस्यो, जयति श्रीचूर्णिकारोऽसौ / / 1 / / विषमोऽपि व्यवहारो, व्यधायि सुगमो गुरूपदेशेन। यदवापि चात्र पुण्यं तेन जनः स्यात्सुगतिभागी॥२॥ दुर्योधातपकष्ट-व्यपगमलब्धैकविमलकीर्तिभरः / टीकामिमामकार्षी-मलयगिरिः पेशलवचोभिः / / 3 / / व्यवहारस्य भगवतो, यथास्थितार्थप्रदर्शन दक्षम्। विवरणमिदं समाप्त, श्रमणगणानाममृतभूतम् / / 4 / / " इति श्रीमलयगिरिविरचिता व्यवहारटीका समाप्ता। व्य० 10 उ०। आव०ा पा०। कल्पव्यवहारयोर्भदमाह-- कप्पम्मि वि पच्छित्तं, ववहारम्मि वि तहेव पच्छित्तं। कप्पव्वहाराणं, को णु विसेसो त्ति चोएइ॥१५२।। ननु कल्पेऽपि प्रायश्चित्तमुक्तम्, व्यवहारेऽपि च तदेव प्रायश्चित्तमभिधीयते, ततः कल्पव्यवहारयोः को नु विशेषो; नैव कश्चनापीति भावः / 'नु' शब्दस्याक्षेपद्यातकत्वादिति, चोदयति-प्रश्नयति शिष्यः, अपि वाऽभिधानतोऽपि कल्पव्यवहारयोर्विशेषानुपपत्तिः। तथा चाहजो अवितहववहारी,सो नियमा वट्टए उ कप्पम्मि। इय वि हु नत्थि विसेसो, अज्झयणाणं दुवेण्हं पि।।१५३।। यो नाम साधुरवितथव्यवहारी-अवितथव्यवहारकारी स नियमादवश्यंभावेन वर्तते एव तुरेवकारार्थः कल्पे-आचारे, आचारवर्तिन एव / यथोक्ताविस्थव्यवहारकारित्वात् / यश्च वर्तते कल्पे-आचारे स नियमादवितथव्यवहारकारी, अवितथव्यवहारकारिण एवाचारे वृत्ति - संभवात्। इत्थं च परस्परमविनाभावित्वम्, कल्पव्यवहारशब्दयोरेकार्थित्वात् / तथाहि-- कल्पो, व्यवहार आचार इत्यनन्तिरमिति। 'इय विहु इति, इत्यपि-एवमपि अर्थगत्याभिधानाभेदतोऽपि आस्तां प्रागुक्तप्रकारेणाभिधेयाभेद इत्यपिशब्दार्थः / हु:-निश्चित्तम्, द्वयोरपि कल्पव्यवहारयोरध्यय-नयोऽस्ति विशेषः / एवं परेणाभिधेयाभेदतोऽभिधानाभेदतश्चैक्ये प्रतिपादित सूरिरभिध्ययभेदं दर्शयन ''कप्पारीवर्ण ति" अवयवं व्याख्यानयतिकप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य / ववहारे ववहरिया, पायच्छित्ताऽऽभवंते य॥१५४।। कल्पे-कल्पाध्ययने कल्पितान्येव-प्ररूपितान्येव, खलुशब्दस्यैवकारार्थत्वात्। ननु दानव्यवहारे प्रवर्तितानि कानीत्याह-"मूलगुणा चैव उत्तरगुणा य" इति विषयेण विषयिणो लक्षणात, मूलगुणापराधप्रायश्चितानि उत्तरगुणापराधप्रायश्चित्तानि व्यवहारे-व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि / किमुक्तं भवति-कल्पाध्ययने मूलगुणापराधे वा उत्तरगुणापराधे वा आभवति प्रायश्चित्तान्युक्तानि, यस्मिँस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति / यानि चकल्पाध्ययने आभवन्तिप्रायश्चित्तानि नोक्तानितानि व्यवहारेऽभिधीयन्ते तेषां दानं च। किंचअविसेसियं च कप्पे, इहइं तु विसेसियं इमं चउहा। पडिसेवण-संजोयण--आरोवण-कुंचियं चेव / / 15 / / चः समुचये, अन्यचेत्यर्थः, कल्पे-कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तम् ‘इहई तु' ति इः पादपूरणे, सानुस्वारता पूर्ववत्। तुःपुनरर्थे , इह व्यवहाराध्ययने पुनरिद प्रायश्चित्तं चतुर्भाचतुर्भिः प्रकारैर्विशेषितम् / तानेव प्रकारानाह- प्रतिसेवनं संयोजनमारोपण कुशनमिति प्रतिकुञ्चनम् / एतानि अनन्तरमेव सप्रपञ्च व्याख्यातानीति न भूयो व्याख्यायन्ते। तदेवमभिधेया-भेदतो नास्ति विशेष इति यदुक्तं तदसिद्धमिति प्रतिपादितमभिधेयभेदस्य दर्शितत्वात्। यत्पुनरुच्यते-अभिधानाभेदतो नास्ति विशेष इति तदनैकान्तिकमिति दर्शयतिनाणत्तं दिस्सए अत्थे, अभिन्ने वंजणम्मि वि! वंजणस्स य भेदम्मि, कोइ अत्थो न मिज्जए / / 156|| भिद्यते-प्रकटीक्रियतेऽर्थोऽनेन, प्रदीपेनेवघट इवेति व्यञ्जनम्–शब्दस्तस्मिन्, अपिशब्दो भिन्नक्रमः, स चैवं योजनीयोऽभिन्नेऽपि-एकरूपेऽपि अर्थे-अर्थविषये नानात्वं दृश्यते / यथा-सैन्धव इत्युक्ते तत् तत्प्रस्तावादिना अश्वलवणवस्वाद्यर्थ नानात्वम्, तथा व्यञ्जनस्य शब्दस्य भेदेऽपि चशब्दोऽपिशब्दार्थो भिन्नक्रमश्चेत्यत्र संबध्यते / कश्चिदर्थो न भिद्यते। यथा खव्योम-आकाशमिति। करमादेवं शब्दाऽभेदेऽपि अर्थनानात्वमिति--चेत? उच्यते-शब्दार्थयोर्भेदाभेदविषये चतुर्भङ्गी कार्या भवति / तथाहि अर्थस्याप्यभेदः शब्दस्याप्यभेद इति प्रथमो भङ्गः / अर्थस्याभेदः शब्दस्य भेद इति द्वितीयः, अर्थस्य भेदः शब्दस्याभेद इति तृतीयः, अर्थस्य भेदः शब्दस्य भेद इति चतुर्थः / एतेष्वेव चतुर्यु भङ्गकेषुक्रमेणोदाहरणान्युपदर्शयतिपढमो इंदो इंदो-त्ति बिइयओ होइ इंदसक्को त्ति। तइओ गोपसुरस्सि--णो त्ति चरिमो घडपडो त्ति // 157 / /