________________ ववहार 624 - अभिधानराजेन्द्रः - भाग 6 ववहार यः सचित्तव्यवहारे क्षेत्रव्यवहारे मिश्रव्यवहारे च प्रागुक्तरूपेऽर्थे न व्यवहरति आचार्यानादेशात्धारितेन आचार्योपदेशमृते धारितेन, कथमित्याह-स्वच्छन्दबुद्धिरचितेनस्वेच्छया निजबुद्धिकलितेन न स धन्यःश्रेयानिति। यतःसो अभिमुहेइ लुद्धो, संसार कडिल्लगम्मि अप्पाणं / उम्मग्गदेसणाए, तित्थयराऽऽसायणाएय।।३६६।। स उन्मार्गदशनया तीर्थकराणामाशातनया चात्मानं संसारगहनेऽभिमुखयति-अभिमुख करोति, पातयतीत्यर्थः / तस्मान्न स धन्यः। अधुना अस्यैव प्रायश्चित्तमाह-- उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। ववहरिउमसक्कं ते , मासा चत्तारि भारीया।।३७०।। उन्मार्गदेशनया-सतो मार्गस्याछादनया च व्यवहरन् गीतार्थः प्रतिषेधितोऽप्रतिषेधितश्च व्यवहरितुमशक्नुवति प्रायश्चित्तं चत्वारो गुरुका मासाः। गारवरहिएण तहिं, ववहरियव्वं तु संघमज्झम्मि। को पुण गारवों इणमो, परिवारादी मुणेयव्वो // 371 / / तत्रापि गौरवरहितेनसंघमध्ये व्यवहर्तव्यम् / किं पुनर्गारवमिति चेत्, सरिराह-इदं वक्ष्यमाण परिवारादिकं-परिवारादिविषयं ज्ञातव्यम्। व्य० 3 उ०। (गौरवव्याख्या 'गोरव' शब्दे तृतीयभागे 871 पृष्ठे गता।) बहुपरिवार-महड्डि, निक्खंतो वावि धम्मकह-वादी। जइ गारवेण जंपि-जइ अगीतो भणइ इणमो // 373 / / बहुपरिवारो 1, महर्द्धिको वा निष्क्रान्तो 2, धर्मकथावान् 3, वादी 4, उपलक्षणमेतत् / क्षपको नैमित्तिको विद्यावान् रात्निको वा यदि गौरवेणागीतार्थः सन् जल्पेत्-यूयमस्मानेव प्रमाणीकुरुतेति, तर्हि स इदं वक्ष्यमाणं भण्यते। तदेवाह-- जत्थ उ परिवारेणं, पओयणं तत्थ भणिहह तुज्झे / इड्डीमंतेसु तहा, धम्मकहा वायकज्जे वा // 374 / / पवयणकज्जे खममो, नेमित्ती चेव विञ्जसिद्ध य। रायणिए वंदणयं, जहिँ दायव्वं तहिं भणेज्जा।।३७५।। परिवारगौरववानिद भण्यते यत्र संघस्य प्रेषणादिके कार्य समुत्पन्ने परिवारेण प्रयोजन भविष्यति, तत्र यूयं भणिष्यथ, तत्र प्रमाणीकरिष्यध्ये यूयम्, नात्र प्रस्तुते व्यवहार इति भावः। तथा ऋद्धिमत्सु वक्तव्यम् / धर्मकथावान् धर्मकथाप्रयोजने, वादी वादकार्ये / इयमत्र भावनाऋद्धिगौरवोपे तो महर्द्धिक एवमुच्यते- यदि लोकेन कृत्यं भविष्यति, तदा त्वां प्रमाणीकृत्य त्वत्पार्ध्वात् लोकोऽनुवर्तयिष्यते। धर्मकथावान् भण्यते-यदि राजादीनां धर्मः कथयितव्यो भविष्यति, तदा युष्मान्वयमभ्यर्थयिष्यामो यथा-कथय कथानकं संप्रति राजादीनामिति। वादी भण्यते गदा परवादी कश्चनाप्युत्थास्यति, तदा त्वद्व्यपरोधः करिष्यते। यथा-निगृह्णीत कथमप्येन वादिनमिति। तथा क्षपको नैमित्तिको विद्या सिद्धो वा प्रवचनकार्ये उपालम्भनीयः / यथा क्षपकः, यदा संघस्य कृत्य देवतया प्रयोजन भविष्यति, तदा त्वया कायोत्सर्ग कारयित्वा सा आकम्पयिष्यते / नैमित्तिको भण्यते-यदि संघस्य निमित्तेन प्रयोजन भविष्यति, तदा त्वामभ्यर्थयिष्यसे। विद्यासिद्धो भण्यते यदा संघस्य कार्य विद्यया साधनीयं भविष्यति, तदा त्वत्पावत्सिाधयिष्यते / रात्निको-रत्नाधिकः पुनरेव भण्यते-यत्र पाक्षिकादिवन्दनकं दातव्यं भविष्यति, तत्र यूयं भणिष्यथ किमि दानीमायासं कुरुथेति। एतच्च स तान् प्रति प्राहनहु गारवेण सक्का, ववहरिउं संघमज्झयारम्मि। नासेइ अगीयत्थो, अप्पाणं चेव कजं तु / / 376 / / (न हु) नैव संघमध्ये गौरवेण शक्यं व्यवहर्त्तव्यमन्यैर्जिनाराधकैगीतार्थनिवारणात, केवलं सोऽगीतार्थतया दुर्व्यवहारं कुर्वन् आत्मीयमेव कार्य नाशयति। उत्सूत्रप्ररूपणातोऽबोधिफलनिविकर्मबन्धगत्। तथा चाहनासेइ अगीयत्थो,चउरंगं सव्वलोयसारंग। नट्टम्मि उ चउरंगे, न हु सुलभं होइ चउरंगं / / 377 / / अगीतार्थो गौरवेण यो व्यवहरन् अबोधिफलकर्मबन्धनात्, चतुप्रणामङ्गानां समाहारश्वतुरङ्गं मानुषत्वम्, श्रुतिः श्रद्धा संयम् च वीर्यमित्येवरूपम्, कथंभूतमित्याह- सर्वस्मिन्नपि लोके सारमङ्गं स्वरूप यस्य तत्सर्वलोकसाराङ्गं नाशयति / नष्टे च तस्मिन् चतुरङ्गे न हु-नैव भूयो भवति सुलभ चतुरङ्गम्, निविडकर्मणाऽवक्पिरे संसारे क्षिप्तत्वात्। थिरपरिवाडीएहिं, संविग्गेहिं अणिस्सियकरहिं। कन्जेसु जंपियव्वं, अणुओगियगंधहत्थीहिं॥३७८|| स्थिराः सूत्रार्थपरिपाट्यो येषां ते स्थिरपरिपाटीकास्तैः, संविगैः मोक्षाभिलाषिभिः अनिश्रितकरैः-रागद्वेषपरिहारतो यथावस्थित-व्यवहारकारिभिरानुयोगिकगन्धहस्तिभिः-अनुयोगधरप्रकाण्डैः कार्येषु जल्पितव्य न शैषैरिति। एतदेव भावयतिएयगुणसंपउत्तो, ववहरई संघमज्झयारम्मि। एयगुणविप्पमुक्के, आसायणों सुमहती होति / / 376 / / एतैरन्तरगाथयोक्तः स्थिरपरिपाटीकत्वादिभिर्गुणैः संप्रयुक्तः एतद्गुणसंप्रयुक्तः संधमध्ये व्यवहरति। एतद्गुणविप्रमुक्ते पुनर्व्यवहरति सुमहती आशातना भवति न केवलमाशातना, व्रतलोपश्च / व्य०३ उ०। (अत्रावशिष्टम् उद्देस' शब्दे द्वितीयभागे 811 पृष्ठगतम् ) विधिवद् व्यवहरणाद् व्यवहारः। यदि वा विधिवद्वपनात् हरणाच व्यवहारः / यस्य नाऽऽभवति तस्य हापयति, यस्याऽऽभवति तस्मै ददाति / व्यवहाराध्ययनवत्तेति व्यवहार इत्यर्थः। उक्तं च- "अत्थि य पञ्चत्थीण, हाउं एक्कस्स उवति बीयस्स। एएण उ ववहारो, अहिगारो एत्थ उवहीए'' बृ०१ उ०१ प्रक० एतदर्थप्रतिपादकच्छेदश्रुतविशेषे, आ०चू० 4 अातत्र दशोद्देशकाः 'प्रणमत नेमिजिनेश्वर-मखिलप्रत्यूहतिमिररविविम्बन्। दर्शनपथमवतीर्ण , शशिवद् दृष्टेः प्रसत्तिकरम् / / 1 / /