________________ ववहार 123 - अभिधानराजेन्द्रः - भाग 6 ववहार एते अनन्तरोक्तस्वरूपा अष्टौ कार्यकारिणो दुर्व्यवहारिणस्तस्मिन् गुणे तस्मिन्विवक्षिते काले तगरायामासीरन् यैः कृता व्यवहारा अन्येषु राज्येषु क्षोभ्यन्ते। दुर्व्यवहारिणामिह परलोके च फलमाह-- इहलोए य अकित्ती, परलोए दुग्गती धुवा तेसिं। अणॉणाए जिणिंदाणं, जे ववहारं ववहरंति॥३५६।। ये जिनेन्द्रणामनाज्ञया व्यवहार व्यवहरन्ति, तेषामिहलोकं अकीर्तिः, परलोके धुता दुर्गतिः। तेण न बहुस्सुतो वी, होइ पमाणं अणायकारी उ। नाएण ववहरंतो, होइ पमाणं जहा उ इमे // 357 / / यत एवं दुर्व्यहारिण इहलोके अपकीर्तिः परलोके दुर्गतिस्तेन-कारणेन बहुश्रुतोऽप्यन्यायकारी न भवति प्रमाणम्। न्यायेन पुनर्व्यवहरन भवति प्रमगणम, यथा-इम-वक्ष्यमाणाः तगरायां तस्यैवाऽऽचार्यस्याप्टी शिष्याः। तानेवाहकित्तेहि पूसमित्तं, वीरं सिवकोट्टगं च अज्जासं। अरहन्नग-धम्मत्तग-खंदिल-गोविंद-दत्तं च // 358|| कीर्त्तय-प्रशंसय सुव्यवहारकारितया पुष्पमित्रम् 1, वीरम् 2, शिवकोष्टकम् 3 आर्याशम् 4, अर्हन्तकम् 5, धन्विगम् 6. स्कन्दिलम यन्द्रदनचर एते उ कनकारी, तगराए आसि तम्मि उ जुगम्मि। जेहिं कया ववहारा, अक्खोभा अण्णरजेसु // 356 / / अनन्तरोदिताः तस्मिन् युगे तस्मिन्काले कार्यकारिणः सुव्यवहारिणः तगरायामासीरन्, यैः कृता व्यवहारा अक्षोभ्या वाच्या अन्यराज्येषु / (1) सुव्यवहारिणामिह परलोके च फलमाहइह लोगम्मि य कित्ती, परलोगे सोगती धुवा तेसिं। आणाएँ जिणिंदाणं, जे ववहारं ववहरंति॥३६०।। ये जिनेन्द्राणामाज्ञया व्यवहार व्यवहरन्ति, तेषामिह लोके कीर्तिः परलोके सुगातेः धुवा। केरिसगो ववहारी, आयरियस्स य जुगप्पहाणस्स। जेण सकासोग्गहियं, परिवाडीहिं तिहिं असेसं // 361 / / कीदृशो ननु व्यवहारी भवति ? एवं शिष्येण प्रश्ने कृते सूरिराह-येन युगप्रधानस्याचार्यस्य सकाशे-समीपे तिसृभिः परिपाटीभिरशेषं श्रुतं व्यवहारिकम वगृहीतम् ता एव परिपाटीराहसूय(ग)परायणं पढम, बिइयं पडुब्भेदितं / तइयं च निरवसेसं, जति सुज्झति गाहगे।।३६२।। प्रथम सूचकपारायणम् / अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोचारणसंहितेति भावार्थः / द्वितीयं-पदोद्भेदकम्-पारायणं पदविभागपदार्थमात्रकथनपरम्, विग्रहफला द्वितीया परिपाटीति भावः। तृतीयं पारायगम्-निरवशेष चालनाप्रत्यवस्थानात्मिका तृतीया परिपाटीत्यर्थः / एवं श्रुते यदि शङ्का भवति तर्हि ग्राहकः-आचार्यः शोधयतिपरीक्षते इत्यर्थः। / कथमिति चेदुच्यते-तिसृभिः परिपाटीभिः श्रुतेऽपि व्यवहारादिके ग्रन्थे सूरिणा स विचारणीयः / किं सम्यक् गृहीतं न वा / गृहीतेऽपि पुनः परीक्षणीयः / किं व्यवहारी अव्यवहारी वा / तत्र यदि व्यवहारी तर्हि योग्यः / अथाऽव्यवहारी अयोग्यः। अथवा-ग्राहको नाम शिष्यः स यदि तिसृभिः परिपाटीभिः शुद्ध्यति भावतो निःशेषसूत्रार्थपारगोभवति, ततः सव्यवहारीक्रियते। एतदेवव्याख्यानद्वयं विवरीषुराहगाहगों आयरिओ उ, पुच्छइ सो जाणि विसमठाणाणि। जइ निव्वहती तहियं, तस्स हिययं तु तो सुज्झे // 363 / / ग्राहकः आचार्यः ग्राहयतीति ग्राहक इति व्युत्पत्तेः, स यानि विषमाणि स्थानानि पृच्छति, तत्र यदि निर्वहति / किमुक्तं भवति-तस्य हृदयं सम्यगभिप्राय जानाति ततः शुद्ध्यति व्यवहर्तु व्यवहारकरणयोग्यः। द्वितीय व्याख्यानमाहअहव गाहगो सीसो, तिहिं परिवाडीहिँ जेण निस्सेसे / गहियं गुणियं अवधा-रियं च सो होइ ववहारी॥३६४।। अथवा ग्राहको नाम शिष्यः, गृह्णातीति ग्राहकः, इति व्युत्पत्तेर्येन तिसृभिः परिपाटीभिर्निर्विशेष व्यवहारादिकं गृहीतं प्रथमतः, पश्चाद् गुणितमनेकवारमभ्यस्तीकृतम,अवधारितं तात्पर्यग्रहणतो हृदये विश्रामित स व्यवहारी। पारायणे सम्मत्ते, थिरपरिवाडी पुणो उ संविग्गे। जो निग्गओ वितिण्णो, गुरूहिँ सो होइ ववहारी॥३६५।। पारायणे सूचकादिलक्षणे त्रिविधे समाप्तेऽपि पुनर्यः संविने संविनसमीपे स्थिरपरिपाटिरभूद, यश्च गुरुभिर्वितीर्णोऽनुज्ञातः सन् निर्गतो विहारक्रमेण स भवति व्यवहारीन शेषः। तथा चाहपडिणीय--मंदधम्मो, जो निग्गतों अप्पणो सकम्मेहिं / नहु सो होइ पमाणं, असमत्तो देसनिग्गमणे // 366 / / आत्मनः परेषां च प्रतिकूलः-प्रत्यनीकः, धर्मे मन्दो मन्दधर्मः, राजदन्तादिदर्शनात् धर्मशब्दस्य परनिपातः, संयमे शिथिल इत्यर्थः / तथा यःआत्मनः स्वकर्मभिः स्वव्यापारैर्निर्गतो विहारक्रमेण न तु गुरुभिरनुज्ञातः, स (नहु) नैव भवति प्रमाण-मसमाप्तश्च भवति देशनिर्गमनेन देशेषु विहारक्रमकरणे। आयरियादेसाधा-रिएण अत्थेण गुणियखरिएण। सो संघमज्झयारे, ववहरियव्वं अणिस्साणं // 367 / / यत एव विक्षेपदोषास्तस्मात् संघमध्यकारे कारशब्दोऽत्र रूपमात्रे संधमध्ये व्यवहर्तव्यम्, अर्थेन किं विशिष्टनेत्याह- आचार्यादेशात्आचार्यकथनादवधारितेन संप्रदायागतत्वमावेदितम्, तथा-गुणितेनअनेकशः परावर्तितेन अक्षरितेन कस्य लक्षणतः स्थिरतया अवस्थितसारेण / एवंभूतेनाप्यर्थेन व्यवहर्त्तव्यमनिश्रया रागद्वेषाकरणेन नान्यथा, अर्थस्य तत्त्वतः अक्षरितत्वानुपपत्तेः। आयरिय अणाएसो, धारिऍण सच्छंदबुद्धिरइएणं / सचित्तखेतमीसे, जो ववहरते ण सोधण्णो // 368||