________________ ववहार 622 - अभिधानराजेन्द्रः - भाग 6 ववहार समदर्शी तथा संस्तवेषुपूर्वसंस्तुतेषु-पश्चात्संस्तुतेषु चान्यः समं व्यवहारे जाते समदर्शी, अतः स संघः शीतगृहोपमः, यथा शीत-गृहमाश्रितानां स्वपरविशेषाकरणतः परितापहारी, तथा व्यवहारार्थमागतानां संघोऽपि स्वपरविशेषाकरणतः परितापहारीति भावः। (10) संप्रति संघशब्दस्य व्युत्पत्तिमाहगिहिसंघायं जहिउं, संयमसंघाययं उवगएणं / णाणचरणसंधायं, संघायंते हवइ संघो।।३४०।। गृहिणा-संसारिणा मातापित्रादीनां संघातं हित्वापरित्यज्य संयमसंघातमुपगतः सन्, णमिति वाक्यालङ्कारयो ज्ञानचरण-संघातं संघातयति-आत्मनि स्थितं करोति, स ज्ञानचरणे संघातयन् भवति संघः। संघातयतीति संघ इति व्युत्पत्तेविपरीतस्तु संघो न भवति। नाणचरणसंघायं,रागद्दोसेहिँ जो विसंघाए। अबुहो गिहिसंघायम्मि, अप्पाणं मेलितो नसो संघो||३४१।। यो ज्ञानचरणसंघातं रागद्वेषैरनेकैर्व्यक्त्यपेक्षया बहुवचन विसंघातयति, विघटयति सोऽबुधोमू| गृहिसंघाते आत्मानं संघातयति मेलयति स परमार्थतो न संघः / ज्ञानचरणसंघातनलक्षणप्रवृत्तिनिमित्ताभावात्। तस्यापापरूपं फलमाहणाणचरणसंघायं, रागहोसेहि जो विसंघाए। सो भमिही संसारे, चउरंगतं अणवदग्गं / / 342 / / यो ज्ञानचरणसंघातं रागद्वेषैः विसंघातयति-विघटयति चतुर्षु अंगेषुनारकतिर्यनरामरगतिरूपेष्वन्तः पर्यन्तो यस्य स चतुरङ्गान्तः, तम् 'अणवदग्गं' कालतोऽपरिमाणं भविष्यति तस्य च संसारं परिभमतो वितथव्यवहारकारितयोन्मार्गदेशनया च तीर्थकराऽऽशातनया बोधिरपि भवान्तरे दर्लभा। तथा चाह.. दुक्खेण लहइ बोहिं, बुद्धो वि य न लब्भति चरित्तं तु / उम्मग्गदेसणाए, तित्थकरासायणाए य॥३४३।। वितथं हि व्यवहारं कुर्वता तेनोन्मार्गादशिना तीर्थकरश्चा-शातितः, ततः उन्मार्गदशनया तीर्थकराशातनया च संसार परिभ्रमन् दुःखेन लभते बोधिम्, बुद्धोऽपि च न लभते चारित्रम्। कस्मान्न लभते इत्याहउम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। बंघति कम्मरयमलं, जरमरणाणंतकं घोरं // 344 / / उन्मार्गदशनया सन्तो मार्गस्याच्छादनया-स्थगनेन बध्नाति कर्म। किं विशिष्टमित्याह-रज इव रजः संक्रमणोद्वर्तनापवर्तनादियोग्यम्, मल इव मलो निधत्तनिकाचितावस्थाम्, तथा जरा-मरणान्यनन्तानि यस्मात्तत जरामरणानन्तकम् / प्राकृतत्वाद्वि-शेषणस्य परानपातो मकारोऽलाक्षणिकः / अत एव धोर-रौद्रमतो न लभते बोधिम्, नापि चारित्रमिति। कीदृशेन पुनर्व्यवहारश्छेत्तव्यस्तत आहपंचविहं उपसंपय, नाऊणं खेत्तकालपव्वजं / तो संघमज्झगारे, ववहरियव्वं अणिस्साए।।३४५।। यत एवं वितथव्यवहारकरणे दोषास्ततस्तस्मात पञ्चविधा ज्ञानदर्शनचारित्रतपोवैयावृत्यभेदतः पञ्चप्रकारामुपसंपदं क्षेत्र काल प्रव्रज्यां च ज्ञात्वा संघमध्ये व्यवहर्त्तव्यम, किमुक्त भवति-यः पञ्चविधायामुपसंपदि आभवन्तमनाभवन्तं जानाति, यश्च क्षेत्र-मक्षेत्र वा बुधरते क्षेत्रेऽपि च क्षेत्रिकस्य यदा-भवति तज्जानाति तथा क्षेत्रे यावन्तं कलमवग्रहो - नुव्रजति तावन्तं कालमवबुध्यते, तथा प्रवाजयितुं यो जानाति प्रवाजितोऽपि केनापि तस्य यत् आभवति यच नाभवति तत् जानाति तेन संघमध्ये अनिश्रया आहारप्रदायिषु स्वकुलसम्बन्ध्यादि रागावरणत इतरेषामद्वेषाकरणतो व्यवहर्तव्यम्। अत्रधरस्याशङ्कामाहउस्सुत्तँ ववहरंतो, उ वारितो नेव होइ ववहारो। वेति जइ बहुसुएहिं, वुत्तो तत्तो भणइ इणमो // 346|| उत्सूत्र--सूत्रोत्तीर्ण व्यवहरतो बहुश्रुतस्य बहुश्रुतैः कृतव्यवहारो नैवान्यैवरितस्ततः स प्रमाणमिति यदि ब्रूते, तत इदं भण्यते--द्विविधाः खलु व्यवहारच्छेदकाः। तद्यथा-प्रशंसनीया अप्रशंसनीयाश्च / तथा चोभयानेव सनिदर्शनमभिधित्सुराह-- तगराए नगरीए, एयायरियस्स पासें निप्फण्णा। सोलस सीसा तेसिं, सव्ववहारीउ अट्ठ इमे // 347 / / तगराया नगभिकस्याचार्यस्य पार्थेषोडश शिष्या निष्पन्नास्तेषां च मध्येऽष्टौ व्यवहारिणः, अष्टौ चाव्यहारिणः / तत्र व्यवहारिगोटा-विमे। तानेवाहमा कित्ते कंकडुयं, कुणिमं पक्कुत्तरं च चव्वायं / बहिरं च गुंठसमणं, अंबिलसमणं च निद्धम्मं // 348 / / मा कीर्त्तय-प्रशंसय व्यवहारिणम्, कं क्रमित्याह-कङ्कटकम् 1, कुगपंकुनपनखम् 2. पक्वम् 3. उत्तरम् 4, चार्वाकम् 5, बधिरम् 6. गुण्ठसमानंलाटमायाविसमानम् 7, अम्लसमान च निर्माणम् / तत्र कडूटुकं कुणपंच प्रतिपादयतिकंकडुओ विव मासो, सिद्धिं न उवेइ जस्स ववहारो। कुणिमणहो द न सुज्झति, दुच्छेज्जो जस्स ववहारो॥३४६।। यस्य व्यवहारः काङ्कटुकः माष इव न सिद्धिमुपयाति, सकाङ्कटकथ्यवहारयोगात् काटुकः। यस्य पुनर्व्यवहारो दुश्छेद्यो नच छिन्नोऽपि सर्वथा निरवशेषः शयति। तथा कुणपे-मासे सूक्ष्मा नखो-नखावयवः यस्य स कुणपनखावयवतुल्यव्यवहारकरणयोगात् कुणपः / त्य०३ उ०। (पक्वव्याख्या 'पक्क' शब्दे पञ्चमभागे 66 पृष्ठे गता।) (उत्तरचार्वाकबधिरव्याख्या 'उत्तर' शब्दे द्वितीयभागे 757 पृष्ठे गता।) गुण्ठसमानव्याख्या 'गुठसमाण' शब्दे तृतीयभागे 604 पृष्ठे गता।) ये। वचनेषूक्तेषु परस्य शरीरं विडविडायते तानि अम्लानि, अम्लैः पुरुषैश्च रचनैर्व्यवहारं न सिद्धिंनयति / सोऽम्लवचनयोगादम्ल इति / उपसंहारमाहएए अकजकारी, तगराए आसितम्मि उ जुगम्मि। जेहिं कया ववहारा, खोडिज्जंतऽण्णरज्जेसुं // 355 / /