________________ ववहार 121 - अभिधानराजेन्द्रः - भाग 6 ववहार खित दुःखम : यस्य ह्यात्मन्यपि दुःखिते न पीडा, तस्य परे दुःखिते कथं स्यादिति भावः। आयारे वट्टतो, आयारपरूवणो असंकीओ। आयारपरिभट्ठो, सुद्धचरणदेसणे भइतो॥३२७|| आचारे वर्तमानः खल्वाचारप्ररूपणा अशङ्कयोऽ-शङ्कनीयो भवतिायः पुनरोचारफरेभ्रष्टः स शुद्धचरणदेशने-यथावस्थितचरण-प्ररूपणासु भक्ता-विकल्पितः, शुद्धचरणप्ररूपणां करोति वा नवेत्यर्थः / एवं दुर्यवहारिणामाक्षेपे कृते ते ब्रूयुर्वयमप्रमाणीकृता युष्माभिः। ततः स गीतार्थः प्राहतित्थयरे भगवंते, जगजीववियाणए तिलोयगुरू। जो ण करेइ पमाणं, न सो पमाणं सुयहराणं // 328|| तीर्थकरान भगवतो जगजीवविज्ञायकान्सर्वज्ञानित्यर्थः, त्रिलोकगुरुन् यो न करोति प्रमाण न स प्रमाणं श्रुतधराणाम्। तित्थयरे भगवन्ते, जगजीववियाणए तिलोयगुरू। जो उ करेइ पमाणं, सो उ पमाणं सुयहराणं / / 326 / / तीर्थकरान भगवतो जगजीवविज्ञायकान् त्रिलोकगुरून्सर्वज्ञानित्यर्थः, यस्तु करोति प्रमाण स प्रमाणं श्रुतधराणाम् / एवं धूलीजङ्घन दुर्व्यवहारिषूपालब्धषु ते ब्रूयुः, एवं संघमप्रमाणीकुरुथ यूयमिति। ततः प्राहसंघो गुणसंधातो, संघायविमोयगो य कम्माणं / रागद्दोसविमुक्को, होइ समो सव्वजीवाणं / / 330 / / रघो नाम-गुणाना मूलगुणानामुत्तरगुणानां च संघातः-संघातात्मकः, गुणसंघातात्मकत्वादेव च कर्मणांज्ञानाऽऽवरणीयादीनां संघाताद्विमाचयति प्राणिन इति संघातविमोचकः / रागद्वेषविमुक्तः- आहारादिक ददत्सु रागाऽकारी, तद्विपरीतेषु द्वेषाकारीत्यर्थः / अत एव भवति समः सर्वजीवानान, सइत्थंभूतो नाप्रमाणीकर्तुशक्यते श्रुतोपदेशेन व्यवहरणात्। कि चान्यत्परिणामियबुद्धीए, उववेतो होइ समणसंघो उ। कज्जे निच्छियकारी, सुपरिच्छियकारगो संघो॥३३१।। पारिणामिकी चासौ बुद्धिश्च पारिणामिकबुकिस्तया उपेतो–युक्तो भवति श्रमणसंघः। तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यनिश्चितं तकरणशीलः कार्ये निश्चितकारी, तथा सुष्ठ देशकालपुरुषोचिन्येन श्रुविलेन च सुपरीक्षितं तस्य कारकः संघो, नयथाकथंचनकारी। किह सुपरिच्छियकारी, एक्कसि दो तिण्णि वावि पेसविए। न वि उक्खियए सहसा, को जाणइ नागतो केणं // 332 / / कथं-केन प्रकारेण सुपरीक्षितकारी। उच्यते-इहार्थिना संघप्रधानस्य समीपे संघसमवायो निमन्त्रितस्तेन चाज्ञप्तः संघमेलापककारी, संघस्त्वया मेलनीयः तत्र च प्रत्यर्थी कुतश्चित्कारणान्नागच्छति / ततो मानुषः प्रेषणीयः, संघस्त्वां शब्दयति। स नागतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति। तथापि नागच्छति, तत्रा--परिणामका बुवते-उद्घाट्यतामषः / गीतार्थास्त्वाहुः-पुनःप्रेष्यतां गीतार्थ मानुष्यम्, केन कारणेन नागच्छति / किं परिभवेन, उतभयेन। तत्र यदि भयेन नाऽऽगच्छति ततो | वक्तव्यम्-मा भैषी स्त्वम्, परित्राणकारी खलु भगवान् श्रमणसंघ इति: अथ परिभर्वन तत उद्धाठ्यते। एवं सुपरीक्षितकारी। तथा चाह. एव द्वी श्रीन वारान मानुषे प्रेषितेऽपितमनागच्छन्तं सहसा संघो न क्षिपति-न संघबाह्यं करोति / येन एवं पर्यालोचयति। को जानातिन ज्ञायते इत्यर्थः / केन कारणेन नागत इति। नाऊण परिभवेणं, नागच्छन्ते ततो य निज्जुहणा। आउट्टे ववहारो, एवं सुविनिच्छकारी अ॥३३३।। परिभवेण नागच्छतीति ज्ञात्वा तस्मिन्ननागच्छति ततः संघान्नि!हणा-- निष्कासनं कर्त्तव्यम् / अथ शठतामपि कृत्वा स प्रत्यावर्तते / प्रत्यावृत्तश्च संघ प्रसादयति / ततस्तस्मिन्नावृत्ते व्यवहारो दातव्यः। एवं सुविनिश्चितकारी संघः। यस्तु भीतो नागच्छतितं प्रति इदं वत्तव्यम्आसासो विस्सासो,सीयघरसमोय होइमा भाहि। अम्मापित्तिसमाणो, संघो सरणं तु सव्वेसिं॥३३४|| आश्वासयतीति आश्वासो भीतानामाश्वासनकारी-भगवान् श्रमणसंघः। विश्वासयतीति विश्वासो व्यवहारे वञ्चनायाः अकर्ता, सर्वत्र रामतया शीतगृहेण समः शीतगृहसमः / तथा मातापितृभ्यां समानो मातापितृसमानः-पुत्रेषु मातापितराविव व्यवहारादिष्वविषमदर्शी, तथा सर्वेषां प्राणिनां शरणं भगवान्संघः तस्मात् मा भैषीस्त्वमिति / इदं च परिभावयन संघो व्यवहारं न करोति। सीसो पडिच्छतो वा, आयरितो वा न सुग्गइं नेई। जे सचकरणजोगा, ते संसारा विमोएंति॥३३५।। शिष्यः-स्वदीक्षितः प्रतीच्छकः-परगणवर्ती सूत्रार्थतदुभयग्राहकः, अचार्यो वाचनाचार्यादिको न सुगति नयति-किंतु ये सत्यकरणयोगा:संयमानुगतमनोवाकायव्यापारास्ते संसाराद्वि-मोचयन्ति। सीसो पडिच्छओ वा, आयरिओ वा वि ऍते इह लोए। जे सच्चकरणजोगा, ते संसारा विमोएंति / / 336|| शिष्यः प्रतीच्छको वा आचार्यो वा एते सर्वेऽपि इह लोके परलोके पुनः ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति। सीसो पडिच्छओवा, कुलगणसंघो न सुग्गतिं नेति। जे सच्चकरणजोगा, ते संसारा विमोएंति॥३३७।। शिष्यः प्रतीच्छको वा कुलं वा गणो वा संघो या न सुगतिं नयति, कि तु-ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति। सीसो पडिच्छओ वा, कुलगणसंघो व ऍते इह लोए। जे सचकरणजोगा, ते संसारा विमोएंति // 338 // सुगमा। शीतगृहसमः संघ इत्युक्तम्, तत्र शीतगृहसमतां व्या ख्यानयतिसीसे कुलव्वए वा, गणव्वएँ संघवए य समदरिसी। ववहारसंथवेसु य, सो सीयघरोवमो संघो।।३३६।। शिष्ये -स्वदीक्षते 'कुलवए' ति स्वकु लसम्बन्धिनि गणसंबधिनि संघसंबन्धिनि च जाते व्यवहारे समदर्शी। कि मुक्त भवति शिष्याणां कुलगणसंघसंबन्धिनां च परस्परं व्यवहारे जाते