________________ ववहार 120- अभिधानराजेन्द्रः - भाग 6 ववहार न केवलमेवं निवारयति, किंत्वेतदपि वक्तिनिद्धमहुरं निवायं, विणीयमविजाणएस जंपतो। सचित्तखेत्तमीसे, अत्थधर निहोडणा विहिणा॥३१३।। सचित्तनिमित्तव्यवहारे 'खेत्त' ति क्षेत्रनिमित्ते व्यवहारे ये दुर्व्यवहारिणस्तेषां प्रतिदिवसनिमित्तम् ‘अविजाणएसु' त्ति येऽपि च साधवो न जानन्ति, यथा-घृताद्यनुवृत्ता वितथमेते व्यवहरन्ति, तेष्वपि विजानत्सु विज्ञाननिमित्तमेवं जल्पति-अहो स्निग्धो व्यवहारः। किमुक्तं भवतितैलघृतादिसंगृहीता एवमेते अन्यथा व्यवहरन्तीति। अथ गुडशर्करादिभिर्गृहीता वितथव्यवहारिणः, ततो-जल्पति-अहो मधुरो व्यवहारः / यदि पुनरुपाश्रयो निर्वातो लब्धः, शीतप्रावरणानि वेति वितथं व्यवहरन्ति, तत आह-निर्वातो व्यवहारु / अथ कृतिकर्मविनयादिभिः संगृहीतास्ततो ब्रूते-अहो विनी तो व्यवहारः / एवं स्निग्धमधुरनिवातविनीतव्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशेन निहोडणां-निवारणं करोति। एयं चेव य सुत्तं, उच्चारेउं दिसं अवहरंति। अप्पावराह आउ-ट्ट दाण इयरे उजा जीयं // 31 // एवं निहोडणं कृत्वा एतदेवाधिकृतं सूत्रं-सप्तसूत्रात्मकमुच्चार्य दिशमाचार्यत्वादिकमपहरन्ति-उद्दालयन्ति। अथ सोऽल्पापराधः प्रत्यावृत्तश्च तदा 'दाण' त्ति तस्य दिक् पुनर्दीयते 'इयरे उ' इति सप्तमी षष्ठ्यर्थे, इतरस्य त्वनावृत्तस्य आवृत्तस्य वा बहुदोषस्य यावज्जीवमाचार्यत्वादिकं न दीयते। एवं ताव बहूसुं, मज्झत्थेसुं तु सो उ ववहरति। अह होज बली इयरे, ठावेइ उ तत्थिमं वयणं // 315 / / एवमनन्तरोदितेन प्रकारेण तावद्वहुषु मध्यस्थेषु सत्सु सोऽर्थधरो व्यहरति / अथ भवेयुरितरे दुर्व्यवहारिणो बहुत्वेन बलीयांसः, ततस्तत्रान्यथा व्यवहारच्छेदे क्रियमाणे इदं वक्ष्यमाणं ब्रूते। तदेवाहरागेण व दोसेण व, पक्खग्गहणेण एकमेक्कस्स। कजम्मि कीरमाणे, किं अच्छति संघमज्झत्थो // 316 / / / रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा-एकस्य पक्षस्या-ग्रहणेन, द्वेषेण वा कार्ये क्रियमाणे वितथे व्यवहारे छिद्यमाने किं संघो मध्यस्थस्तिष्ठति। रागेण व दोसेण व, पक्खग्गहणे ण एकमेकस्स। कन्जम्मि कीरमाणे, अण्णो विभणाउ ता किंचि // 317 / / रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा पक्षाऽग्रहणेन कार्य क्रियमाणे ततस्तस्मात् किंचिदन्योऽपि भणतु। बलवंतेसेवं वा,मणाति अण्णो विलभति को एत्थ। वत्तुं जुत्तमजुत्तं, उयाहु न वि लब्भतेऽण्णस्स // 318| बलवत्सु दुर्व्यवहारिष्वेवं वक्ष्यमाणरीत्या भणति, तामेवाह- अत्र अस्मिन् संघसमवाये युक्तमयुक्तं वा वक्तुमन्योऽपि कश्चित् लभते उताहो अन्यस्य वक्तुंन लभ्यते, अन्यो न लभते इत्यर्थः।। जति बैंति लब्भते तु, बूहि तुम जंतु जाणसी जुत्तं / तो अणुमाणेऊणं, बेंति तहिं नायतो सो उ॥३१॥ यदि बुवते लभते अन्योऽपि नावक्तुमतः त्वमपि यजानासि वक्तुं तत् ब्रूहि / ततः एवमुक्ते तां पर्षदमनुमान्य सम्यक् क्षमयित्वा तत्र न्यायतः सबूते। कथमनुमात्येतदनुमानप्रकारमाहसंघो महाणुभावो, अहं तु वेदेसिओ इहं भयवं। संधसमिति न जाणे, तो भे सव्वं खमावेमि॥३२०।। संघो महाननुभावः अचिन्त्यशक्तिरस्येति महानुभावः / अहं च वैदेशिको-विदेशवर्ती , इह-अस्मिन् स्थाने 'संघसमिति' भागवतीं सङ्घमर्यादां न जाने, ततो युक्तमयुक्तं वा वक्तुं सर्व भे' भवतः क्षमयामि। यतःदेसे देसे ठवणा, अण्णो अण्णत्थ होइ समितीणं। गीयत्थहोइण्णा, अदेसिओ तं न जाणामि॥३२१।। समितीनां-संघमर्यादानां स्थापना गीतार्थराचीपर्णा, अत्र जगति देशे अन्या भवति। ततोऽहमदेशिक इहता-संघमर्यादां-स्थापनांन जानामि, ततः क्षमयत। श्रुतोपदेशेनाहमपि किंचिद्वक्ष्येअणुमाणेउं संघं, परिसग्गहणं करेइ तो पच्छा। किह पुण गेण्हइ परिसं, इमेणुवारण सो कुसलो // 322 / / एवं सङ्घमनुमान्य सम्यक् क्षमयित्वा ततः पश्चात्पर्षद्ग्रहणं करोति / शिष्यःचह-कथं पुनः पर्षदं गृह्णाति / सूरिराह- कुशली-दक्षोऽनेनोपायेन गृह्णाति समीचीनामसमीचीनां वा जानाति। तमेवोपायमाहपरिसा ववहारीया, मज्झत्था राग-दोस-नीहूया। जइ होति दो विपक्खा , ववहरिउं तो सुहं होइ॥३२३|| पर्षन्नाम व्यवहाराों द्वावपि पक्षौ तौ ब्रूते, यदि द्वावपि पक्षी मध्यस्थौ भवतः, मध्यस्थता-रागद्वेषाऽकरणतो भवति तत आह-निभृतौनिर्व्यापारौ रागद्वेषौ ययोस्तौ रागद्वेषनिभृतौ,क्तान्तस्य पाक्षिकः परनिपातःसुखादिदर्शनात्। ततः सुखंव्यवहतुव्यवहरणं भवति। एवं पर्षद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तान्निक्षिपन्निदमाहओसन्नचरणकरणे, सचव्यवहारयादुसद्दहिया। चरणकरणं जहंतो, सबव्ववहारयं जहइ // 32 // अवसन्ने शिथिलतां गते चरणकरणे व्रतश्रमणधर्मादिपिण्ड-विशोधिसमित्यादिरूपे यस्य सोऽवसन्नचरणकरणः तस्मिन्सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रक्या यतश्चरणकरणं जहत्-त्यजन् सत्यव्यवहारतामपि जहाति। जइयाऽणेणं चत्तं, अप्पणतो नाणदंसणचरितं / ताहे तत्थ परेसुं, अणुकंपा नऽत्थि जीवेसुं // 32 // यदाऽनेनात्मनः संबनिध ज्ञानदर्शनचारित्रं त्यक्तम्, तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति, यस्य ह्यात्मनो दुर्गतौ प्रपततो नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेदिति भावः। भवसयसहस्सलद्धं, जिणवयणं भावतो जहंतस्स। जस्सन जायं दुक्खं,न तस्स दुक्खं परे दुहिते // 326|| यस्य भवशतसहस्रः कथमपि लब्धं जिनवचनं भावतः परमार्थतो जहतः त्यजतो दुःखं न जातम्, न तस्य परे दुः