________________ ववहार 616- अभिधानराजेन्द्रः - भाग 6 ववहार (को जीतव्यवहारं प्रयुञ्जीत इति 'जीयववहार' शब्देचतुर्थभागे 1514 पृष्ठे उक्तम्।) निगमनम्एवं जहोवदिट्ठ-स्स धीरविओ देसिओ पसत्थस्स। नीसंदो ववहार-स्स को इकहिओ समासेणं // 66 // एवम्-उक्तेन प्रकारेण पञ्चविधस्य धीरैः तीर्थकरगणधरैर्यथाक्रमतः / सूत्रतश्च देशितो विदः-चतुर्दशपूर्वधरास्तैः प्रशस्तः-प्रशंसितस्तस्य निष्पन्दः कोऽपि कथितः समासेन विस्तरेणाऽभिधातुमशक्यत्वात्। तथा चाहको वित्थरेण वुत्तू-ण समत्तो णिरवसेसिए एत्थ। ववहारे जस्स मुहे, हवेज जीहासयसहस्सं // 661 // किं पुण गुणोदएसो, ववहारस्स उ विओ पसत्थस्स। एसो भे परिकहिओ, दुवालसंगस्स णवणीयं / / 662 // यस्य मुखे जिवाशतसहस्रं जिहालक्षं भवेत्, सोऽपि को नाम व्यवहारेव्यवहारसूत्रस्य निरवशेषितान् गुणान वक्तुं समर्थो नैव कश्चित्, किंत्वेष व्यवहारस्य-व्यवहारसूत्रस्य किञ्चित् प्रशस्तस्य-चतुर्दशपूर्वधरभद्रबाहुस्वामिना दत्तस्यगुणोपदेशो-गुणोत्पादननिमित्तमुपदेशो, (भे) भवतां कथितः। किं विशिष्ट इत्याह-दशाङ्गस्य नवतीतमिव सारमित्यर्थः / व्य० १०उन सङ्घ व्यवहारो यथाऽऽचार्येण कर्तव्यस्तदाहकिह पुण कज्जमकचं, करेन्ज आहारमादिसंगहितो। जह कम्मि वि नगरम्मि, उप्पण्णं संघकजंतु // 303|| कथं पुनराहारादिसंगृहीतः सन् कार्यमुपलक्षणमेतत् अकार्यमपि करोति। अत्र सूरिर्निदर्शनमाह--यथा-कस्मिश्चिन्नगरे किमपि सङ्घकार्य मुत्पन्नं सचित्तादिनिमित्तं वास्तव्यसङ्घस्य व्यवहारोजात इत्यर्थः। स च वास्तव्यसंड्रेन छेत्तुं न शक्यते। बहुसुयपरिवारो य, आगतो तत्थ कोइ आयरितो। तेहि य नागरगेहिं, सो उ नियुत्तो उ ववहारे // 30 // अन्यदा कोऽप्याचार्यो बहुश्रुतो बहुपरिवारस्तत्र नगरे समागतः, सच तैनागरकैः-नगरवास्तव्येन सङ्घनेत्यर्थः। नियुक्तो व्यवहारे बहुश्रुतस्त्वम्, अत एव व्यवहारं छिन्धि। नायेण छिन्ने ववहारे, कुलगणसंघेण कीरइ पमाणं / तो सेविसं पवत्ता, आहारादीहि कन्जी य॥३०॥ एवमुक्ते तेन न्यायेन श्रुतोपदेशेन व्यवहारश्छिन्नः। ततः कुल-गणसंधेन सप्रमाणं क्रियते। एष बहुश्रुतोनचश्रुतोत्तीर्णं किमपि वदति, तस्माद्यदेष भाषते तत्प्रमाणमिति, एवं च प्रमाणीकृते तस्मिन् श्रावकसिद्धपुत्रादयः कार्यिकादयस्तत्कार्यार्थिन सन्त-स्तमाहारादिभिः सेवितुं प्रवृत्ताः सच तान्याहारादीनि दीयमानानि गृह्णाति / तो छिंदिउं पउत्तो, निस्साए तत्थ सो उ ववहारं। पञ्चत्थीहिं नायं, जह छिंदइ एस निस्साए // 306 / / ततः आहारादिग्रहणानन्तरं सतत्र नगरे व्यवहारं निश्रयापक्षपातेनं छेतुं / प्रवृत्तः, ततो ये आहारादिकं न दत्तवन्तस्ते तस्य प्रत्यर्थिनस्तैः प्रत्यर्थिभितिम् , यथा एष व्यवहारं निश्रया छिनत्ति। को णु हु हवेज अन्नो, जो नाएणं नएज ववहारं / अह अन्नय समवाओ, घुट्टो आयो य तत्थ विऊ॥३०७|| ततस्ते प्रत्यर्थिनश्चिन्तयन्ति। को 'नु' 'हु' निश्चितं भवेदन्यो गीतार्थो यो न्यायेन व्यवहारं नयेत् / अथान्यदा सचित्तादिव्यवहारच्छेदनार्थ संघसमवायो घुष्टो-घोषितः,संघसमवायघोषणां श्रुत्वा तथा संघसमवायविदः विद्वान् सूत्रार्थतदुभयकुशलोऽन्यः प्राघूर्णकः कोऽपि समागतः। (E) इह समवायघोषणामाकर्ण्य धूलीधूसरैरपि वादे अवश्यमागन्तव्यमन्यथा प्रायश्चित्तमित्येतदधुना प्रतिपादयतिघुटुम्मि संघकज्जे, धूलीजंघो विजो न एजाहि। कुलगणसँघसमवाए, लग्गति गुरुगे चउम्मासे // 30 // जं काहिंति अकलं, तं पावइ बले अगच्छंतो। अण्णाइ ताव तो हा-ण मादि जंकुन्ज तं पावे // 306 / / घुष्टे-घोषिते संघकार्ये-संघसमवाये धूलीजङ्घोऽपि आस्तामन्य इत्यपिशब्दार्थः। धूल्या धूसरे जड़े यस्य स धूलीजङ्घः,शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासः। सङ्घसमवायघोषणामाकर्ण्य प्राघूर्णकेनापि पादलग्नायामपि धूलावप्रमत्ततया त्वरितमवश्यमागन्तव्यमिति ज्ञापनार्थम् / धूलीजनोऽपीत्युपादाने सति बले यो न आगच्छेत्, कुलसमवाये गणसमवाये सङ्घसमवाये वा गुरुके चतुर्मासे लगति; तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः। न केवलमेतत्, किं त्वदन्यदपि। तथा चाह- 'जं काहि' इत्यादि, सति बले आगच्छन् व्यवहारोच्छेदाकार्यकरणतो वान्यैरन्यथा छिन्ने व्यवहारे यत् अकार्य ते व्यवहारार्थिनः करिष्यन्ति तत्प्राप्रोति, तन्निमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः / अन्यदपि चापमानवशतो यदवधावनादि कुर्यात्तदपि प्राप्नोति। तम्हा उ संघसहे, धुढे गंतव्व धूलिजंघेणं / धूलीजंघनिमित्तं, ववहारो उठितो सम्मं // 310 / / यत एवमनागमने दोषास्तस्मात्सघशब्दे घुष्ट-घोषिते धूलीजङ्घनाप्यवश्यं सति बले गन्तव्यम्। यतः कदाचित्धूलीजङ्घनिमित्तं व्यवहारः सम्यगुत्थितो भवेत्, यथा-प्राघूर्णको गीतार्थो धूलीजङ्घः समागतः सन् यद् भणिष्यति तत्प्रमाणमिति। तेण य सुयं जहेसो, तेलघयादीहिँ संगहीतो उ। कजाई नेति तहिं, माई पावोवजीवी उ॥३११॥ तेन चधूलीजङ्ग्रेनाऽऽगच्छतैव कस्यापि पार्श्वेश्रुतम्, यथैष-वास्तव्यो व्यवहारच्छेता तैलघृतादिभिः संगृहीतः सन्मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोण्टलाधुपजीवी वितथ-मुत्सूत्रं कार्याणि नयति। सो आगतो उसंतो, वितहं दळूण तत्थ ववहारं। समएण निवारेई, कीस इमं कीरइ अकजं // 312 / / एवं श्रुत्वा समागतः सन् तूष्णीकस्तावदास्ते यावत्सूत्रेण निर्दिश्यमानं व्यवहारं पश्यति, तंचतथाभूतं वितथं व्यवहारं दृष्ट्वा समयेन-सिद्धान्तेन निवारयति, यदकस्मादिदपकार्ये क्रियते।