________________ ववहार ६१८-अभिधानराजेन्द्रः - भाग 6 ववहार तस्य तथा यादृशं तत्क्षेत्रमेतत् सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति। तथा चाहआहारेउं सवं, सो गंतूणं गुरूसगासम्मि। तेसि निवेदेइतहा, जहाणुपुटिव गतं सव्वं // 635|| स आलोचनाचार्यप्रेषितः सर्वमनन्तरोदितम्, आसमन्तात् धारयित्वा पुनरपि स्वदेशागमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति, यथा--आनुपूर्व्या परिपाट्या गतम् अवधारितम्। व्य० 10 उ०। (अत्रप्रायश्चित्तं 'पच्छित्त' शब्देऽस्मिन्नेव भागे 135 पृष्ठे गतम्।) (धारणाव्यवहारो धारणाववहार' शब्दे चतुर्थभागे 2748 पृष्ठे गतः।) उपसंहारमाहजीएणं ववहारं, सुण वोच्छे जहक्कम वच्छ!॥६६०|| साम्प्रतंजीतव्यवहारं यथाक्रमं वक्ष्येतंच वत्स! वक्ष्यमाणं शृणु। तथा चाहवत्तऽणुवत्तपवत्तो, बहुसो अणुवत्तिओ महजणेणं। एसो उ जीयकप्पो,पंचमओ होइ ववहारो॥६६१॥ यो व्यवहारोवृत्तः-एकवारं प्रवृत्तः, अनुवृत्तो-भूयो भूयः प्रवृत्तो, वारद्वयं प्रवृत्त इति भावः / तथा बहुशोऽनेकवारं प्रवृत्तः महाजनेन चानुवर्तितः, एष पञ्चमको जीतकल्पो व्यवहारो भवति। वृत्तादिपदानां व्याख्यानमाहवत्तो नामं एकसि, अणुवत्तो जो पुणो बितियवारं। तइयं वार पदत्तो, परिग्गहीतो महजणेणं // 662 / / (एक्कसि) एकमेकवारं यः प्रवृत्तः स वृत्तो नाम, यः पुनर्द्वितीय-- वारं,प्रवृत्तः सोऽनुवृत्तः, तृतीयवारं वृत्तः प्रवृत्तोऽनुवृत्तः प्रवृत्तोऽनुवर्तितः स परिगृहीतो महाजनेन। अत्र परस्य प्रश्रमाहचोदेती वोच्छिन्ने, सिद्धपहे तइयम्मि पुरिसजुगे। वोच्छिन्ने तिविहे सं-जमम्मि जीएण ववहारो॥६६३|| परश्वोदयति-किं तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने च त्रिविध संयमे परिहारविशुद्धिप्रभृतिके जीतेन व्यवहारः। अत्र केचिदुत्तरगाहुःसंघयणं संठाणं, च पढमगं जो य पुष्वउवओगो। ववहारचउकं पिय, चोइसपुष्वम्मि वोच्छिन्नं // 66 // प्रथमसंहननम्-वज्रर्षभनाराचं, प्रथमसंस्थानम्-समचतुरदस्रं यश्चान्तमुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं यच्चादिमम् आगमश्रुताज्ञाधारणालक्षणं व्यवहारे चतुष्कमेतत्सर्वं चतुदशपूर्विणि--चतुर्दशपूर्वधरे व्यवच्छिन्नम्। एतन्निराकुर्वन् भाष्यकृदाहआहाऽऽयरियो एवं, ववहारचउजे उवोच्छिन्न / चउदसपुष्वधरम्मि, घोसंती तेसिमणुधाया॥६६॥ एवं परेणोत्तरे कृते आचार्य आह-ये एवं-प्रागुक्तप्रकारेण व्यवहारचतुष्कं / चतुर्दशपूर्वघरे व्यवच्छिन्नं घोषयन्ति, तेषां प्रायश्चित्तं चत्वासे मासा अनुद्धाता गुरुका मिथ्यावादित्वात्। मिथ्यावादित्वमेव प्रचिकटयिषुरिदमाहजे भावा जहि यं पुण,चोहसपुव्वम्मि जंबुनामे य। वोच्छिन्ना ते इणमो, सुणसु समासेण सीसंतो॥६६६|| ये भावा यस्मिन् चतुर्दशपूविर्णि ये जम्बूनाम्नि व्यवच्छिन्नास्तान् समासेन शिष्यमाणान् इमान् शृणुत। तानेवाहमणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे। संजमतियकेवलिसि-ज्झणा य जंबुम्मि वोच्छिन्ना॥६६७।। मनःपर्यायज्ञानिनः-परभावधयः पुलाकोलब्धिपुलाकः आहारकशरीरलब्धिमान् क्षपकः-क्षपक श्रेणिरुपशमे-उपशम-श्रेणिः कल्पोजिनकल्पः संयमत्रिकं शुद्धपरिहारविशुद्धिसूक्ष्मसं-पराययथाख्यातलक्षणं केवलिनः सिद्धिगमनमेते भावा जम्बूस्वामिनि व्यवच्छिन्नाः, इह 'केवलि' ग्रहणेन 'सिज्झणा' ग्रहणेन वा गते यत् उभयोपादानंततः यः केवली स नियमात् सिध्यति, यश्च सिध्यति स नियमात्केवली सन्निति व्याख्यापनार्थम्। संघयणं संठाणं, च पढमगं जो य पुष्व उवओगो। एते तिन्नि वि अत्था, चोहसपुस्विम्मि वोच्छिन्ना।।६६८|| प्रथमं संहननं, प्रथमं संस्थानं, यश्चान्तहिर्तिकः समस्तपूर्वविषय उपयोगः, एते त्रयोऽप्यर्था नजम्बूस्वामिनितृतीये पूर्वयुगे व्यवच्छिन्नाः, किंतु-चतुर्दशपूर्विणि भद्रबाहौ। व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तम्। यत आहकेवलमणपज्जवना-णिणो य तत्तो य ओहिनाणजिणा। चोइस दस नवपुथ्वी, आगमववहारिणो धीरा॥६६६|| सुत्तेण ववहरंते, कप्पय्ववहारधारिणो धीरा। अत्थधर ववहरंते, आणाए धारणे य पथा॥६७०।। ववहारचउकस्स, चोइसपुस्विम्मि छेदों जं भणियं / तं ते मिच्छा जम्हा, सुत्तं अत्थो य धरए उ॥६७१।। केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्विणो दशपूर्विणः नवपूर्विणश्च, एते षट् धीरा आगमव्यवहारिणः / ये पुनः कल्पव्यवहारधारिणो धीरास्ते सूत्रेण-कल्पव्यवहारगतेन व्यवहरन्ति। ये पुनः छेदश्रुतस्यार्थधेरास्ते अनया धारणया च व्यवहरन्ति, छेदश्रुतस्य च सूत्रमर्थश्चाद्यापि धरतो विद्यन्ते दशपूर्वधराः। अपि च-आगमव्यवहारिणस्ततो व्यवहारचतुष्कस्य चतुर्दशपूर्विणि व्यवच्छेद इति यद्भणितं तत् मिथ्या। अन्यचतित्थुग्गाली एत्थं, वत्तव्वा होइ आणुपुटवीए। जे जस्स आगमस्स, वुच्छेदो जहि विणिहिट्ठो // 672 / / तेषां मिथ्यावादित्वप्रकटनायाह-यो यस्यां यस्यागमस्य वा यत्र व्यवच्छेदो विनिर्दिष्टः सा तीर्थोद्गालिरत्रानुपूर्व्याक्रमेण वक्तव्या, येन विशेषतस्तेषां प्रत्यय उपजायेत / व्य० 10 उ० /