________________ ववहार 617- अभिधानराजेन्द्रः - भाग 6 ववहार प्रथमस्य कार्यस्यदर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेवितम्, कथंभूतमित्याह-तृतीये षट्के-अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरमन्तर्गतम्, कतरदित्याह-प्रथमकल्पलक्षणं भवेत्स्थानम् एवं गृहिभाजने पल्यङ्ग्रे निषद्यायां स्नाने शोभायां च यथाक्रमं च 'बिइयं भवे ठाणमि' त्यादिपदसंचारतः पञ्च गाथा वक्तव्याः। तथा चाहपढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु। तइयं छक्के अन्मि-तरं तु सेसेसु वि पएसु // 621 / / अक्षरगमनिका प्राग्वत् / तदेवं प्रथमस्य कार्यस्य प्रथमं पदं दर्पलक्षणममुञ्चता अष्टादशपदानि एवमकल्पादिभिरपि द्वितीयादिभिः पदैः संचारणीयानि / पाठोऽप्येवम्-- "पढमस्स य कजस्स य, बीएण पएण सेवियंजंतु। पढमे छक्के अभंतरंतु पढमं भवेठाणमि'' त्यादिसर्वसंख्याभङ्गानामशीतिशतम् / / 180 // तदेवं प्रथम दर्परूपं विशुद्धमिदानी द्वितीय कल्पपदमधिकृत्याहबिइयस्स य कज्जस्स य,पढमेण पएण सेवियं जंतु। पढमे छक्के अन्भि-तरं तु पढमे भवे ठाणं // 622 // द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन दर्शनलक्षणेन यत्सेवितम्, कथंभूतमित्याह--प्रथमे षट्के उभयषट्करूपे अभ्यन्तरमन्तर्गतं कतरत्तदित्याह-प्रथम-प्राणातिपात-लक्षणं भवेत् स्थानम्, एवं मृषावादे अदत्तादाने मैथुने परिग्रहेरात्रिभोजनेच पूर्वप्रकारेण यथाक्रमं पञ्च गाथा वक्तव्याः। तथा चाहबीयस्स य कज्जस्सय, पढमेण पएण सेवियं जंतु। पढमे छक्के अभिं-तरं तु सेसेसु वि परसु // 623|| अक्षरगमनिका प्राग्वत्। __द्वितीयं षट्कं कामरूपमधिकृत्याहबिइयस्स य कप्जस्स य, पढमेण पएण सेवियं जंतु। बिइये छक्के अन्मि-तरं तु पढमं भवे ठाणं // 624 // अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमप्काये अनिकाये दायुकाये वनस्पतिकाये त्रसकाये प्रागुक्तप्रकारेण पञ्च गाथा वक्तव्याः। तथा चाह-- बिइयस्स य कज्जस्स य, पढमेण पएण सेवियं जंतुं। . बिइए छक्के अभिं-तरं तु सेसेसु वि पएसु // 625 / / प्राग्वत्॥ तृतीयमकल्पादिषट्कमधिकृत्याहबिइयस्सय कज्जस्स य, पढमेण पएण सेवियं जंतु। तइए छके अभि-तरं तु पढमं भवे ठाणं // 626|| अत्र प्रथम स्थानं कल्पलक्षणमेवं गृहिभाजने पल्यङ्के निषद्यायां स्नाने शोभायां च प्रागुक्तप्रकारेण पञ्च गाथा वक्तव्याः। एतदेव सूचयति--- बिइयस्स य कन्जस्स य, पढमेण पएण सेवियं जं तुं। तइइए छक्के अभि-तरं तु सेसेसु वि पएसु // 627 // व्याख्या प्राग्वत् / तदेवं द्वितीयस्य कार्यस्य कल्पलक्षणस्य प्रथम दर्शनरूपं पदममुञ्चता अष्टादशपदानि संचारितान्येवं ज्ञानादिलक्षगर्द्वितीयादिभिरपि पदैस्त्रयोविंशतिसंख्याकैः प्रत्येकमष्टादश पदानि संचारयितव्यानि, सर्वसंख्यया भङ्गानां द्वात्रिंशदधिकानिचत्वारिशतानि 432, अष्टादशानां चतुर्विंशत्या गुणने एतावत्याः संख्याया भावात्। संप्रति 'पढमस्सय कजस्सय' इत्यादिपदव्याख्या नार्थमाहपठम कजं नाम, निकारण दप्पओ पढमपयं। पढमे छक्के पढम,पाणॉइवाए मुणेयध्वो // 628|| अत्र निष्कारणं नाम दर्पः,प्रथमं पदंदर्पिको दर्पः। शेषं सुगमम्एवं तु मुसावादो, अदिन्नमेहुणपरिग्गहो चेव।। बिइछके पुठवादी, तइये छके अकप्पादी॥६२६॥ एवमुक्तप्रकारेण मृषावादोऽदत्तमदत्तादानं मैथुन परिग्रहश्चशब्दात्रात्रिभोजनं च। संचारणं-द्वितीयेषट्के क्रमेण पृथिव्यादयः संचारणीयास्तृतीये षट्के अकल्पादयः।। निकारणदप्पेणं, अट्ठारस चारियाइँ एयाई। एवमकप्पादीसु वि, एकेका हॉति अद्वरस / / 630 // एवं निष्कारणस्यदर्पलक्षणस्य कार्यस्य संबन्धिना प्रथमेन पदेन दर्पण एतानि व्रतषट्कप्रभृतीन्यष्टादश पदानि संचारितानि / एवम-कल्पादिष्वपि नवसु पदेषु एकैकस्मिन् प्रत्येकमष्टादश पदानि संचारितव्यानि भवन्ति / बिइयं कचं कारण-पढमपयं तत्थ दंसणनिमित्तं / पढम छक्कवयाइं, तत्थ वि पढमं तु पाणवहो / / 631 // द्वितीयं कार्य नाम कारणं कल्प इत्यर्थः। तत्र प्रथमं पदं दर्शन-निमित्तं प्रथमंषट्कं-व्रतानि, तत्र प्रथमं पदं-प्राणवधः। दंसणममुयंतेणं, पुष्वकमेणं तु चारणीयाई। अट्ठारस ठाणाई, एवं णाणाइ एकेको // 632 / / दर्शनं-तद्दर्शनपदं प्रथमममुञ्चता पूर्वक्रमेणाष्टादश स्थानानि चारणीयानि, एवं ज्ञानादिरेकैको भेदः संचारयितव्यः। चउवीसऽद्वारसगा, एवं एए हवंति कप्पम्मि। दस हॉति अकप्पम्मि, सव्वसमासेण मुण संखं // 633 / / एवमुक्तेन प्रकारेण कल्पे चतुर्विशतिरष्टादशका भवन्ति। चत्वारिशतानि द्वात्रिंशानि४३२। भङ्गानां भवन्तीतिभावः। अकल्पे दर्पदश अष्टादशका भवन्ति / अशीतिः शतम्-१८०1 भङ्गानां भवन्तीति भावः। एतां कल्पे दर्पच समासेन च संख्यां जानीहि। सोऊण तस्स पडिसे-वणं तु आलोयणाकमविहिं च / आगमपुरिसज्जायं, परियागबलं च खेत्तं च // 6341 // श्रुत्वा तस्यालोचनकस्य प्रतिसेवनाम, अलोचनाक्रमविधिं चआलोचनाक्रमपरिपाटी चावधार्य तथा तस्ययावानागमोऽस्ति तावन्तमागमम्, तथा पुरुषजातमष्टमादिभिर्भावितमभावितंवा, पर्यायं गृहस्थपर्यायो यावानासीत्,यावांश्चतस्य व्रतपर्यायः तावन्तमुभयंपर्यायम, बलं-शारीरकं